"सामवेदः" इत्यस्य संस्करणे भेदः

1
पङ्क्तिः २२५:
 
सम्भवतः एतेष्वनेकब्राह्मणेषु एकस्यैव विस्तृतसामब्राह्मणस्य विविधा भागाः भवन्तु, ये कारणवशात् सम्प्रति स्वतन्त्ररूपेणाऽस्माकं सम्मुखे सन्ति। तथाप्येतेषां पारस्परिकसंवलनस्य प्रामाण्यं एतेषां ब्राह्मणानामनुशीलनेनैव भवति।
 
== श्रौतयागग्रन्थाः ==
सामवेदस्य श्रौतयागेन सह सम्बद्धाः अनेके ग्रन्था उपलभ्यन्ते । एतेषु ग्रन्थेषु कतिपयाः हस्तलिखितरूपेणेव सन्ति।
 
'''(१) कल्पानुपदसूत्रम् -''' कल्पानुपदसूत्रे द्वौ प्रपाठकौ स्तः । प्रत्येकं प्रपाठकः द्वादशपटलेषु विभक्तोऽस्ति । अार्षेयकल्पस्य, क्षुद्रसूत्रस्य च परिशिष्टम् इवेदं प्रतीतं भवति । यतोऽत्र नामनिर्देशं विनैव उभाभ्यां ग्रन्थाभ्याम् उद्धरणानि सङ्गृहीतानि सन्ति । सूत्रमिदं सभाष्यं काशीतः प्रकाशितमस्ति ।
 
'''(२) उपग्रन्थसूत्रम् -''' ग्रन्थेऽस्मिन् चत्वारः प्रपाठकाः सन्ति । सायणानुसारेण (ताण्ड्य० ७॥४॥८) कात्यायन एवास्य कर्त्ताऽस्ति । अस्य अन्तिमप्रपाठकसामप्रतिहारभागस्य परिचायकः स्वतन्त्रो ग्रन्थोऽस्ति । अवशिष्टप्रपाठकास्तु क्षुद्रसूत्रस्यैव परिशिष्टभागो, यो हि सत्यव्रतसामश्रमीमहोदयेन 'उषा'-नाम्नि पत्रिकायां १८९७ ख्रीष्टाब्दे कलकत्तानगरीतः प्रकाशितोऽस्ति ।
 
'''(३) अनुपदसूत्रम् -''' ग्रन्थोऽयं दशप्रपाठकेषु विभक्तोऽस्ति । पञ्चविंशब्राह्मणस्यायं संक्षिप्ता व्याख्याऽस्ति (अप्रकाशितम् ) ।।
 
'''(४) निदानसूत्रम् -''' दशप्रपाठकेषु विभक्तमिदं सूत्रमस्ति । अस्य ग्रन्थस्य प्रणेता [[पतञ्जलिः]] मन्यते। ताण्ड्यभाष्ये (१४॥५॥१२) सायणेन यानि उद्धरणानि दत्तानि, तानि निदानसूत्रे लभन्ते -
 
'''<nowiki/>'तथा निरालम्बरूपता भगवता पतञ्जलिना उक्तं सप्तमेऽहन्यर्कः कृताकृतो भवत्यब्राह्मणविहितत्वादिति ॥''''
 
उद्धरणमिदं निदानसूत्रे (४७) उपलब्धं भवति ।
 
'''(५) उपनिदानसूत्रम् -''' अस्मिन् सूत्रे द्वौ प्रपाठकौ स्तः । अस्मिन् प्रथमतः छन्दसां सामान्यवर्णनमस्ति । तदनन्तरम् उभयोः आर्चिकयोः मन्त्राणां छन्दसां विवरणमस्ति (अप्रकाशितम्) ।
 
'''(६) पञ्चविधानसूत्रम् -''' सूत्रेऽस्मिन् द्वौ प्रपाठकौ स्तः । साम्नः पञ्चविभागानां यद्वर्णनं प्राप्यते, तेषां विभाजनप्रकाराणामत्र वर्णनमस्ति।
 
'''(७) लघु-ऋक्तन्त्रसङ्ग्रहः -''' ऋक्तन्त्रस्य संक्षिप्तं संस्करणं न भूत्वा ग्रन्थोऽयं स्वतन्त्रोऽस्ति । अस्मिन् संहितापाठं पदपाठरूपेण परिणतमस्ति । अनेन परिणतेन या विशिष्टता परिलक्षिताऽभवत् तस्यैको विपुलः सङ्ग्रहोऽत्र प्रस्तुतोऽस्ति । अत्र एतादृशानां मन्त्राणां निर्देशोऽस्ति, यत्र संहितायां ‘ष' इत्यस्ति तत्र पदपाठे ‘स' इत्यस्ति।<ref>( श्लो० २५-३९ )</ref> यत्र संहितायां 'ष्ट' इति पदमस्ति, तत्र पदपाठे 'स्त' इति भवति।<ref>(श्लो० ४०-४३)</ref> अनेनैव प्रकारेण गुण-वृद्धि-पूर्वरूप-प्रकृतिभावादीनां स्थलानां निर्देशोऽस्ति । मन्त्राणां सरूपज्ञानाय नितान्तमुपादेयोऽस्ति ( प्रकाशितः ) ।
 
'''(८) सामसप्तलक्षणम् -''' अस्मिन् पद्यबद्धलघुकायिके ग्रन्थे सामसम्बन्धिज्ञातव्यतथ्यानां सङ्कलनमस्ति ( प्रकाशितम् ) ।
 
== सामवेदविमर्शः ==
"https://sa.wikipedia.org/wiki/सामवेदः" इत्यस्माद् प्रतिप्राप्तम्