"मातृकाग्रन्थः" इत्यस्य संस्करणे भेदः

हस्तलिखितः
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
 
पङ्क्तिः २:
 
== इतिहासः ==
मातृकाग्रन्थानां मुख्योद्देशः भारतीयज्ञानस्य अतिप्राचीनपरम्परायाः संरक्षणं वर्त्तते।वर्तते। वेदानां गभीरज्ञानाद् आरभ्य पञ्चतन्त्रस्य बालकथापर्यन्तं संस्कृते विषयवैविध्यं विद्यते। सहस्रेभ्यः वर्षेभ्यः सङ्कलितं, संरक्षितं च तत् ज्ञानं युगानुयुगम् अनुवर्त्तते।अनुवर्तते। अतः मातृकाग्रन्थानाम् इतिहासः एव भारतीयपरम्परायाः इतिहासः मन्यते। बल-विक्रम-आयुभिः सह कालान्तरे मनुष्यस्य स्मृतिशक्तेः ह्रासः अभवत्। तस्मात् ह्रासात् ज्ञानस्य, शोधप्रबन्धानां च रक्षणं कर्तुं मातृकाग्रन्थस्य वैज्ञानक्याःवैज्ञानिक्याः पद्धत्याः उपयोगः आरब्धः।
 
मातृकाग्रन्थानाम् अनेकेनैके प्रकाराः सन्ति, परन्तु तेषु ताडपत्रं, भुर्जपत्रं, ताम्रपत्रं, सुवर्णपत्रं च प्रसिद्धप्रकाराः। सम्प्रति सर्वाधिकाः मातृकाग्रन्थाः भोजपत्रेषु, ताडपत्रेषु च सम्प्राप्यन्ते। ताडपत्रं लौहलेखिन्या सज्जीभवति स्म। मातृकाग्रन्थानां लेखने विशिष्टसाधनानि, कौशलं च अपेक्षन्ते। मातृकाग्रन्थस्य लेखकः विद्वान्, कलानिपूर्णश्च भवेत्।
जर्मनदेशीयः वेदविद् [[मैक्समूलर]] (१८२३-१९००) स्वस्य पुस्तके अलिखत्, "अखिलेऽस्मिन् संसारे ज्ञानिनां, पण्डितानां च देशः भारतमेव एकमात्रं स्थानमस्ति, यत्र विपुलज्ञानसम्पदः हस्तलिखितग्रन्थरूपेण सुरक्षितम् अस्ति" इति।<ref>[https://archive.org/stream/in.ernet.dli.2015.276610/2015.276610.India-What#page/n0/mode/2up India : What can it teach us?, लेखकः - F. MAX Muller, K.M.] </ref>
 
पङ्क्तिः २५:
'ए काटलॉग ऑफ दि संस्कृत मैन्युस्क्रिप्ट'-नाम्ना सूचिः 'आडियार लाइब्रेरी'-तः प्रकाशिता। क्रमशः प्रथमभागस्य १९२६, द्वितीयभागस्य च प्रकाशनं १९२८ तमवर्षे अभवत्। डॉ. काशीप्रसाद जायसवाल, ए. बनर्जी शास्त्री इत्येतयोः प्रयासैः मिथिला-प्रदेशस्य मातृकाग्रन्थानां सूचिः निर्मिता। तस्याः प्रकाशनं १९२७-१९४० मध्ये 'बिहार तथा उडीसा रिसर्च सोसायटी'-संस्थाद्वारा अभवत्। कोलकाता-विश्वविद्यालयात् १९३० तमवर्षे प्रकाशितस्य 'आसामीज मैन्युस्क्रिप्ट' (२ भागः) इत्यस्य अन्तर्गततया संस्कृतमातृकाग्रन्थानां सूचिः अपि आसीत्। 'ओरियण्टल मैन्युस्क्रिप्ट'-ग्रन्थालयद्वारा १९३६ तः १९४९ मध्ये द्वे सूची प्रकाशिते। पाटन-नगरात् प्राप्तानां मातृकाग्रन्थानां सूचिनिर्माणकार्यं सी. डी. दलाल-महोदयेन आरब्धम्। तत्र जैन-भण्डाराणां ग्रन्थाः आसन्। तस्याः सूचेः निर्माणकार्यं बी. गाँधी-महोदयेन समापितम्। तस्याः सूचेः प्रकाशनं 'गायकवाड ओरियण्टल सीरीज, बडौदा'-तः १९३७ तमवर्षे अभवत्। एच. डी. बेलकर-द्वारा 'रायल एशियाटिक सोसायटी, बंबई'-शाखायाः सङ्ग्रहस्य सूचिः क्रमशः १९२६-१२८, १९३० च तमवर्षे प्रकाशिता। एच. आइ. पोलमैन-द्वारा 'अमेरिक ओरियण्टल सीरीज'-सूचिः द्वादशभागेषु प्रकाशिता। डॉ सी. कुन्हन राजा इत्यस्य निरीक्षणे के. माधव कृष्ण शर्मा इत्येषः वैदिकभागस्य प्रकाशनं १९४२ तमवर्षे, पं. वी. कृष्णामाचार्य इत्येषः व्याकरणभागस्य प्रकाशनं च १९४७ तमवर्षे अकुरुताम्। [[बिकानेर]]-ग्रन्थालयस्य मातृकाग्रन्थानानं सूचिः १९४७ तमवर्षे प्रकाशङ्गाता।
 
एकनविंशस्य शताब्दस्य उत्तरार्द्धं यावत् संस्कृतविषयाणां ये मातृकाग्रन्थाः सम्प्राप्ताः, तेषां सूचयः [[भारत]]स्य विभिन्नेषु प्रान्तेषु विद्यामानाः आसन्। तासां सूचीनां सङ्कलनं कृत्वा डॉ. आफ्रेक्ट-महोदयः भागत्रयेषु बृहत्सूचिं प्राकाशयत्। तस्याः सूचेः नाम 'कैटलोगस् कैटलोगरम्' इति। सा बृहत्सूचिः क्रमशः १८९१, १८९६, १९०३ च तमवर्षे लिपजिंग-तः प्रकाशिता।
 
== सम्बद्धाः लेखाः ==
"https://sa.wikipedia.org/wiki/मातृकाग्रन्थः" इत्यस्माद् प्रतिप्राप्तम्