"माणिमाधवचाक्यारः" इत्यस्य संस्करणे भेदः

पङ्क्तिः २८:
 
==पुनर्निरूपणम्==
[[एतां]] कूटियाट्टकालां हैन्दवदेवालयात् बहिः आनयनस्य कीर्तिः माधवचाक्यारस्य एव भवति । क्रि.श.१९४९तमे वर्षे आकाशवाण्यां (AIR) अस्य प्रदर्शनं कृतवान् । कूटाम्बलात् बहिः कृतं प्रथमप्रदर्शनम् इति कश्चित् ऐतिहासिककार्यक्रमः अभवत् । क्रि.श.१९५५तमे वर्षे स्वगुरोः नेतृत्वे प्रथमवारं कूटियाट्टं प्रदर्शनं मन्दिरात् बहिः आनीय स्वग्रामे कूठम्बलग्रामे कृतम्। किन्तु मन्दिरात् बहिः प्रदर्शनेन बहवः समस्याः अभिमुखमागताः । चाक्यारसमाजस्य जनाः एव विरोधं कृतवन्तः ।
 
क्रि.श.१९६२तमे वर्षे डा.वि.राघवन् इत्यस्य ख्यातस्य कलासंस्कृतपण्डिस्य नेतृत्वे मद्रास्नगरस्य संस्कृतरङ्गम् इति संस्था गुरुः मानि माधव चाक्यारमहोदयं कलाप्रदर्शनार्थम् आह्वयत् । चेन्नैमहानगरं गत्वा अनेन कोटियाट्टं सार्वजनिकप्रदर्शनं दत्तम् अनेन प्रथमवारं केरलात् बहिः इयं कला आनीता । तदनन्तरं माणिमधवचाक्यारेण सह कूटियाट्टमपि केरलात् बहिः अपि प्रसिद्धिमवाप्नोत् । केरलेतरजनाः अपि अस्य महाकविदः प्रतिभपूर्णं कलाप्रदर्शनं दृष्टुं शक्तवन्तः । अयं [[देहली]] [[बनारस्]] इत्यादिषु उत्तरभारतस्य बहुषु स्थानेषु प्रदर्शनार्थम् आहूतः । अनेन परिवर्तनेन तस्य रसाभिनयस्य नाट्यशास्त्रस्य कूटियाट्टकलायाः च टीकां कर्तुम् अवकाशः अभवत् । तस्य उत्तरभारतस्य पर्यटनानन्तरं क्रि.श.१९६४तमे वर्षे एव चाक्यर् कूट्टु, कूटियाट्टं च कलायै अस्य योगदानं परिगणयन् [[भारतसर्वकारः|भारतसर्वकारेण]] तस्मै सङ्गीतनाटकाकादम्यः पुरस्कारः समर्पितः । ईदृशकलायै अयं राष्ट्रियः पुरस्कारः प्रथमतया प्रदत्तः। तस्य रसाभिनयस्य नेत्राभिनयस्य च कौशलं कूटियाट्टं प्रति जनान् आकर्षत् ।
"https://sa.wikipedia.org/wiki/माणिमाधवचाक्यारः" इत्यस्माद् प्रतिप्राप्तम्