"विष्णुः" इत्यस्य संस्करणे भेदः

(प्रवर्तमानम्)
No edit summary
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः १:
{{Infobox deity<!--Wikipedia:WikiProject Hindu mythology-->
| type = Hindu
| Image = Indra devaBhagawan_Vishnu.jpg
| Caption = Indra on his mount Airavata
| alt =
| Image_size = 250px
| Name = इन्द्रःविष्णुः
| Devanagari = इन्द्र or इंद्रविष्णु
| Sanskrit_Transliteration = इन्द्र विष्णु
| Tamil_script = இந்திரன்
| Affiliation = [[Deva (Hinduism)|Deva]]
| God_of =
| God_of = '''देवानां राजा'''<br/>'''वातावरणस्य युद्धस्य च देवः'''
| Abode = Amarāvati in [[Svarga]]/ Indralokaवैकुण्ठः
| Mantra = om indraya namah
| Weapon = [[Vajra]] ([[Thunderbolt]])
| Consort = [[Shachi]] (Indrani)लक्ष्मीः
| Mount = [[Airavata]] ([[White elephant]]), [[Uchchaihshravas]] (white horse)
| Symbols = Vajra
| Texts = Vedas, Puranas, Epics
| Region =
पङ्क्तिः २६:
 
आदौ वइश्वस्रष्टे तदनु जगत्पालकाय तदनन्तरं संसारस्य विनाशकाय एव त्रेधा स-ष्टिपालनविनाशकर्तृत्वेन स्थितात्मने परमेश्वराय तुभ्यं नमः। यथा मधुरैकरसं दिव्यं वर्षाजलं देशे देशेलवणादीनि रसान्तराणि प्राप्नोति, तथा विकाररहितोऽपि त्वं सत्त्वादिषु गुणेषु स्रष्टुत्वादिरूपा अश्नुषे। हे परमेश्वर! त्वं जनैः इयत्तया न परिच्छेद्यः परिच्छिन्नलोकः स्पृहाशून्यः कामदाता अजेयः जयशीलोत्यन्तसूक्ष्मरूपः स्थूलरूपस्य कारणम् असि। हे भगवन्! त्वामन्तर्यामितया हृदयस्थं तथापि दर्गमरूपत्वादि्वप्रकृष्टं च विदुः तथा कामरहितं प्रशस्ततपोयुक्तं विदुः। परदुःखनाशकरं तथापि परमानन्दरूपत्वात् अदुःखिं विदुः। अनादिमजरं विदुः। त्वं सर्वज्ञातः त्वां कोऽपि न जानाति, त्वं सर्वस्योत्पत्तिकारणं त्वं स्वयंभूः त्वं सर्वस्य प्रभुः त्वमनशः त्वमेक एव सर्वात्मना वर्तसे। हे भगवन्! त्वां रथन्तरादिसप्तसामभिः उपगीयमानं सप्तसागरसलिलेशयमग्निमुखं भूर्भुवःस्वरादीनां सप्तलोकानाम् एकमाश्रम् आचख्युः। धर्मार्थकाममोक्षाणां फलानां ज्ञानं कृतत्रेताद्वापरकलियुगादीनां कालपरमाणं ब्राह्मणक्षत्रियवैश्यशूद्रमयो लोकः इत्येवरूपं स्रवं चतुर्मुखरूपिणस्त्वत्तः प्रादुर्भूतम्। अभ्यासेन विपयान्तरेभ्यो निगृहीतेन चेतसा हृत्कमलस्थं ज्योतिःस्वरूपं त्वां मोक्षायान्विष्यन्ति। जन्मशून्यस्य अपि मत्स्यादिरूपेण जायमानस्य निश्चेष्टस्य अपि अरिघातिनः सर्वसाक्षितया नित्यप्रबुद्धस्य तव याथार्थ्यं को वेत्ति? किं च अनादिसिद्धकृष्णादिरूपेण विषयान्भोक्तुं नरनारायणादिरूपेण दुस्सहं तपश्चरितुं तथाऽसुरमर्दनेन प्रजा रक्षितुं ताटस्थ्येन वर्तितुं च समर्थोऽसि। त्रयीसाङ्ख्यादिभिः शास्त्रैः बहुधा भिन्ना अपि पुरुषार्थसाधकाः उपायाः गङ्गाप्रवाहाः सागर इव त्वय्येव प्रविशन्ति, येन केनापि रूपेण त्वामेवोपयान्ति। त्वयि निवेशितमनसां तुभ्यं समर्पितकर्मणां विरक्तानां मोक्षाय त्वमेव साधनमसि। प्रत्यक्षप्रमाणगम्यमपि तव पृथिव्याद्यैश्वर्यमियत्तया नावधार्यं वेदवागनुमानाभ्यां गम्यं त्वां प्रति का कथा? स्मरणेन केवलं स्मर्तारं पुरुषं पुनासि यदनेन स्मृतिकार्येणैव त्वद्विषये अवशिष्टा दर्शनस्पर्शनादयो व्यापाराः विज्ञापितकार्याः। जलनिधे रत्नानि इव रवेः तेजांसीव अवाङ्गमनसगोचराणि ते चरितानि निश्शेषं स्तोतुं न शक्यन्ते। अप्राप्तम् अप्राप्तव्यं ते किञ्चिदपि न विद्यते किन्तु लोकानुग्रह एव ते जन्मकर्मणोः कारणम् अस्ति। तव कीर्तिम् उत्कीर्त्य वचः संह्रियते इति यत् तद्वचः वाग्व्यापारश्रान्त्या कार्त्स्येन वक्तुम् अशक्यतया गुणानाम् इयत्तया न। <ref>रघुवंशमाहकाव्यम्, सर्गः १०, श्लो. ५-३३</ref>
 
==दशावताराः==
स: सतां संरक्षणाय दुष्टानां विनाशाय च भूमौ पुनः पुनः जायते। सः उवाच
"https://sa.wikipedia.org/wiki/विष्णुः" इत्यस्माद् प्रतिप्राप्तम्