"सुखदेव" इत्यस्य संस्करणे भेदः

fmt
पङ्क्तिः १:
[[File:Raj guru.jpg|thumb|Raj guru|thumb|250px|सुखदेव थापरः]]
भारतस्य महाक्रान्तिकारी स्वातन्त्र्ययोद्धा [[भगत सिंहः|भगत सिंहस्य]] [[राजगुरुः|राजगुरोः]] च सहचरः सुखदेवस्य'''सुखदेव'''स्य जन्म क्रि.श. १९०७तमवर्षस्य मे मासस्य १५तमे दिने अभवत् । अस्य पूर्णं नाम सुखदेव थापर् इति । पिता राम लालः । बाल्यादेव ब्रिटिश् जनानां दौर्जन्य असहमानः मनसि क्रान्तेः बिजम् उपवान् । समान्याः यौवने वैयक्तिकजीवने मोहपरवशाः भवन्ति किन्तु एष तारुण्ये देशस्य दास्यं विमोचयितुं मतिमकरोत् ।
==सङ्ग्रामभूमिप्रवेशः==
आङ्ग्लानां दुश्शसनं विरुद्ध्य सङ्घर्षितुम् सुखदेवः हिन्दुस्तान् सोशियलिस्ट् रिपब्लिकन् असोसियेषन् सङ्घटनम् प्रविष्टवान् । केवलं नाम्मा सदस्य भूत्वा नोपविष्टवान् । [[पञ्जाबराज्यम्]] उत्तरभारतस्य अन्यप्रदेशेषु च चण्डमारुतः इव सञ्चार्य देशार्थं सङ्गर्षणसमर्थान् यूनः सङ्घटितवान् । लाहोरस्य न्याषनल् महाविद्यालयं गत्वा देशार्थं सङ्घर्षितुं निमन्त्रणम् अयच्छात् । [[भारतम्|भारतस्य]] भव्यदिव्यपरम्परायाः विषये यूनां मनसि बीजान् उप्तवान् । अन्यक्रान्तिकारिभिः सह मिलित्वा लाहोर्मध्ये नवजवान् भारत् सभा इति गणं निर्मीय आङ्ग्लान् विरुद्ध्य आन्दोलनम् आरब्धवान् । सुखदेवः न केवलम् अन्यान् बोधयति स्म स्वयं क्रान्तिकारकाभिचेष्टासु सक्रियः अभवत् । तेषु प्रमुखौ क्रि.श. १९२८तमे वर्षे सम्भूते लाहोर् विप्लवे क्रि.श. १९२९तमे वर्षे सञ्चालिते कारावारनिरशनान्दोलनम् च । अनेन ब्रिटिश् सर्वकारस्य मूलमेव कम्पितम् । सुखदेवः [[भगत सिंहः|भगत सिंहेन]] शिवराम [[राजगुरुः|राजगुरुणा]] च सह मिलित्वा [[लला लजपतरायः|लला लजपतरायं]] हत्यायाः प्रतिशोधत्वेन ब्रिटिश् आरक्षकाधिकारिणं जे.पि.साण्डर्स् इत्येनम् मारितवान् ।
"https://sa.wikipedia.org/wiki/सुखदेव" इत्यस्माद् प्रतिप्राप्तम्