"लवः" इत्यस्य संस्करणे भेदः

(लघु) wikidata interwiki
+
अङ्कनम् : 2017 स्रोत संपादन
 
पङ्क्तिः १:
{{Infobox character}}
[[File:Rama lava kusha.jpg|thumb|300px|रामः,लवः, कुशः च]]
अयं लवः अपि रामायणस्य किञ्चन महत्त्वयुतं पात्रम् । एषः लवः [[रामः|राम]][[सीता|सीतयोः]] पुत्रः । महाराजस्य [[दशरथः|दशरथस्य]] पौत्रः । [[कुशः]] अस्य सहोदरः । अनेन निर्मितः एव लवकोटिपुरम् अद्यतन लाहोर् नगरम् । [[रामः|श्रीरामचन्द्रेण]] [[सीता|सीतायां]] जातयमलयोः ज्येष्ठः कुशः । कनीयः '''लवः''' । [[वाल्मीकिः|वाल्मीकिमुनेः]] आश्रमे वर्धितौ उभावपि अतीव पराक्रमिणौ बालौ । । श्रीरामचन्द्रः लोकापवादात् भीतः सीतां [[वाल्मीकिः|वाल्मीकेः]] आश्रमस्य परिसरे त्यक्त्वा आगच्छतु इति [[लक्ष्मणः|लक्ष्मणम्]] आदिशत् । तदनुगुणं [[लक्ष्मणः]] गर्भवतीं प्रजावतीं तां वने त्यक्वा आगतवान् । शोकतप्तां सीतां तत्रागतः वाल्मीकिमुनिः नीत्वा आश्रमे आश्रयं दत्तवान् । कालक्रमेण [[सीता]] तत्र ऋषिपत्नीनां सेवया नवमासपूर्तेः पश्चात् यमलसन्तानम् असूत । हर्षनिर्भरः [[वाल्मीकिः]] तत्रागत्य कुशमुष्टिना प्रथमं लवमुष्टिना अन्यम् अभिमन्त्र्य [[कुशः]] लवः च इति नामकरणं कृत्वा उभावपि महापराक्रमिणौ भविष्यतः इति सीताम् उक्तवान् ।
"https://sa.wikipedia.org/wiki/लवः" इत्यस्माद् प्रतिप्राप्तम्