"उपनिषद्" इत्यस्य संस्करणे भेदः

पाठ्यं योजितम्
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः २९:
महर्षयो भारयीयाध्यात्मविद्यायाः यानि आध्यात्मिकतत्त्वानि ज्ञानदृशा साक्षादकुर्वन्, तानि सर्वाणि तत्त्वानि उपनिषत्सु वर्णितानि सन्ति । उपनिषदोऽतिसरलशैल्यां तत्त्वं ग्राहयन्ति, तेन तासां महत्त्वं लोकप्रियत्वं चानुदिनमवर्धत । आसां तत्त्वप्रकाशनशैली यथा कठोपनिषदि –
 
'''‘अात्मानं‘आत्मानं रथिनं विद्धि शरीरं रथमेव तु।'''
 
'''बुद्धिं तु सारथि विद्धि मनः प्रग्रहमेव च॥'''
पङ्क्तिः ५२:
अस्मिन् क्रमसाधने बहुदोषान् सम्भाव्य तांश्व दर्शयित्वा डॉ० बेलवेलकर-राणाडेमहोदयाभ्याम् एका अभिनवा योजना प्रस्तुता इति।<ref>Belvelkar and Ranade-History of Indian Philosophy. Vol 2 p.p. 87-90</ref> <ref>https://archive.org/stream/in.ernet.dli.2015.150677/2015.150677.History-Of-Indian-Philosophy#page/n134/mode/1up</ref> तयोः मते ईशावास्योपनिषद् द्वितीयस्तरे स्थापनं कदापि न्यायसङ्गतं न भवति । यतो ह्यस्मिन् यज्ञस्य महत्त्वं ब्राह्मणकालमिव स्वीकृतमस्ति ( '''<nowiki/>'कुर्वन्नेवेह कर्माणि जिजीविषेत् शतं समाः'''' ) तथा बृहदारण्यकेन उद्घोषिता कर्मसंन्यासभावनायाः घोषणा नास्त्येवेति ('''<nowiki/>'पुत्रैषणायाश्च लोकैषणायाश्च ह्युत्थाय भिक्षाचर्य चरन्ति'''' - बृहदारण्य०)। अन्योपनिषदाम् इव आरण्यकस्या अंशो न भूत्वा ईशोपनिषद् माध्यन्दिनसंहिताया भागोऽस्ति तथा मुक्तिकोपनिषदः मान्यपरम्परानुसारेणेय समस्तोपनिषदां गणनायां प्रथमस्तरीयेवेति ।
 
श्रीचिन्तामणिविनायकवैद्योऽपि स्वग्रन्थे उपनिषदां प्राचीनतां प्रमाणयितुं साधनद्वयं समुपस्थापयति। विष्णोः शिवस्य च परदेवस्वरूपे वर्णनम्। प्रकृति-पुरुषयोः तथा सत्त्व-रजस्तमसां त्रिविधगुणानां साङ्ख्यसिद्धान्तस्य प्रतिपादनं युक्ततरोऽयं सिद्धान्तः तस्य मते उचितः। तिलकमहोदयानुसारेण उपनिषत्कालः १९०० वि० पूर्वं शतकं भवितव्यम् । अनेन प्रकारेण उपनिषत्कालस्य समारम्भः २५०० वि० पूर्व शतकं मन्यते।
 
== अनुवादाः ==
"https://sa.wikipedia.org/wiki/उपनिषद्" इत्यस्माद् प्रतिप्राप्तम्