"धर्मशास्त्रम्" इत्यस्य संस्करणे भेदः

{{वैदिकविज्ञानम्}}
No edit summary
पङ्क्तिः १:
'''धर्मशास्त्रम्''' (Dharmaśāstra) भारतीयशास्त्रेषु अन्यतमम् । भारतीयपरम्परायाम् अस्य शास्त्रस्य बहुमुख्यं प्राशस्त्यम् अस्ति । धर्मशब्दः ‘धृ’ धारणे इति धातोः व्युत्पन्नः । तत्र महाभारते ‘धारणाद्धर्म इत्याहुः धर्मो धारयते प्रजाः’ इति यद् उपवर्णितं तद् धर्मस्य यथार्थस्वरूपं संक्षेपेण प्रतिपादयति । एवं धर्मः समाजस्य धारणं नाम संरक्षणम् संवर्धनं च करोति, अर्थात् समाजकल्याणकारिणीं कामपि जीवनयापनपद्धतिं निर्दिशति । धर्मशब्दः प्रप्रथमतया ऋग्वेदे दृश्यते । अस्मिन् धर्मः इत्येतत् पदं धार्मिकविधिः, व्रतम्, आचारः इत्येतेषु अर्थेषु प्रयुक्तः अस्ति । अन्येषु सन्दर्भेषु धारकः पोषकः इत्येतौ अर्थौ बोधितः । तैत्तिरीय उपनिषदि 'धर्मञ्चर’ इति शिष्यानुशासनम्, मनुस्मृतौ 'भगवान्, सर्ववर्णानां यथावदनुपूर्वशः । अन्तरप्रभवाणां च धर्मान्नो वक्तुमर्हसि ॥' इति, याज्ञवल्क्यस्मृतौ ’योगिश्वरं याज्ञवल्क्यं सम्पूज्य मुनयोऽब्रुवन् । वर्णाश्रमेतराणां नो ब्रूहि धर्मानशेषतः ॥' इति, पराशरस्मृतौ ’चातुर्वर्ण्यसमाचारं किञ्चित् साधारणं वद । चतुर्णामपि वर्णानां कर्तव्यं धर्मकोविदैः ॥' इत्येतेषु उक्तिषु प्राक्तनभारतीयसमाजस्य चतुर्वर्णीयैः आश्रमस्थैः अनुसरणीयाः आचाराः एव धर्मपदेन उपदिष्टाः भवन्ति ।
 
जैमिनिमते धर्मः इत्यस्य निरूपणं, ’बोधनालक्षणोऽर्थोधर्मः’ इति कृतमस्ति । वैशेषिकसूत्रे ’अथातो धर्मं व्याख्यास्यामः’।, 'यतोऽभ्युदयनिःश्रेयससिद्धिः स धर्मः’ इति व्याख्यातम् अस्ति । एवमेव ’ध्रियते अनेनेति धर्मः’, ’धर्मे सर्वं प्रतिष्ठितम्’, ’धारणात् धर्ममित्याहुः’ 'धर्मोधारयते प्रजाः’ इत्याद्याः उक्तयः धर्मस्य व्याप्तिं प्रयोजनञ्च प्रतिपादयन्ति ।
"https://sa.wikipedia.org/wiki/धर्मशास्त्रम्" इत्यस्माद् प्रतिप्राप्तम्