"उपनयनम्" इत्यस्य संस्करणे भेदः
Content deleted Content added
No edit summary |
No edit summary अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम् |
||
पङ्क्तिः ५:
अध्ययनार्थं आचार्यस्य समीपं नीयते येन कर्मणा इति '''उपनयनम्'''। ब्राह्मणक्षत्रियवैश्यानां यज्ञसूत्रधारणादिरूपप्रधानसंस्कारः। बालसंस्काराणाम् उपनयनाख्यः [[संस्काराः|संस्कारः]] एव सर्वप्रधानः । वेदाध्ययनाय गुरोः शिष्यस्य समीपे गमनम् उपनयनम् इति उच्यते । उपनयन शब्दोऽयम् उपपूर्वक नी धातोः ल्युट् प्रत्यययोगे निष्पद्यते । उप-समीपे (वेदपठनाय गुरोः समीपे) नयनमुपनयनम् । यदा पिता वेदम् अध्यापयितुम् असमर्थो भवति तदा स्वयं स्वपुत्रम् आचार्यस्य समीपं नीत्वा तस्य उपनयनार्थं प्रार्थयेत् । आचार्यश्च तम् उपनीय शिष्यत्वेन अङ्गीकृत्य तम् अध्यापयेत् । महर्षिगौतममतानुसारेण प्रथमतः अष्टमवर्षवयस्कं माणवकम् उपनयनसंस्कारेण संस्कुर्यात् । उपनयनं हि माणवकसंस्कारः ।
आगर्भाष्टमाब्दमा च षोडशाद्वर्षात् ब्राह्मणस्योपनकालः । क्षत्रियवैश्ययोरेकादशे द्वादशे च वर्षे कर्तव्यः । तदत्यते च यथाक्रमं द्वाविंशात् चतुर्विंशाच्च वर्षात् पूर्वं कर्तुं शक्यः । उपनयनक्रियायां प्राधान्येनानुष्ठीयमानं कर्म
तत्र ब्रह्मसूत्रं वामबाहोरधस्तात् लम्बयित्वा शिरः प्रवेश्य वामस्कन्धे ध्रियते । मेखलापि विभिन्नवस्तुका श्रूयते । ब्राह्मण-क्षत्रिय-वैश्यभेदं निमित्तीकृत्य दण्डो विभिन्नवृक्षसम्बन्धी विहितः । ब्रह्मसूत्रं त्रैवर्णिकानाम् आर्याणां बाह्यं चिह्नम् । यद्धारणेन
[[वर्गः:षोडशसंस्काराः]]
|