"भारतम्" इत्यस्य संस्करणे भेदः

मुख्यलेखः
पङ्क्तिः १००:
 
==व्युत्पत्तिः==
{{Mainमुख्यलेखः| भारतस्य विविधनामानि}}
भारतभूमिः पूर्वं भरतखण्डः भारतवर्षम् इति नाम्ना प्रसिद्धा असीत् । अस्य नाम्न: उद्गमं प्रति विविधा: पारम्पर्यकथा: प्रचलिता: वर्तन्ते | ऋषभपुत्रेण राजर्षिभरतेन दुष्यन्तपुत्रेण भरतेन च परिपालितस्याः अस्या भूमेः भारतम् इति नाम रूढिगतम् इत्येका कथा। अथावा पुरुवंशो पूर्वं भरतः इति महान् चक्रवर्तीराजा आसीत् तेन प्रशासितायाः भूमेः इदम् नाम आगतम् इत्यन्या। अथवा विष्णुपुराणे उक्तं यथा....इत्यपि च||
'''उत्तरं यत् समुद्रस्य हिमाद्रेश्चैव दक्षिणम्।
पङ्क्तिः १०६:
 
==इतिहासः==
{{Mainमुख्यलेखः|भारतस्य इतिहासः}}
भारतस्‍य इतिहासः आधुनिकमानवस्य (होमो-सेपियन्स्) पुरातत्त्वावशेषकालतः प्रायः ३४००० वर्षेभ्यः आरब्धः । भारतस्य इतिहासे सम्पूर्णभरतखण्डस्य तन्नाम इदानीन्तनभारतस्य पाकिस्तानस्य, बाङ्ग्लादेशस्य, श्रीलङ्कादेशस्य, नेपालदेशस्य, भूतानदेशस्य च इतिहासः अन्तर्भूतः । ५०००वर्षेभ्यः पूर्वतनी सिन्धुखातस्य नागरिकता जगति एव अत्यन्तं पुरातनसंस्कृतिः । तदानीन्तनः इतिहासः विवादात्मकः अस्ति । इण्डो-आर्यन्-जनानाम् आगमनसिद्धान्तानुसारम् आर्यन्-जनाः क्रि. पू. २०००-१५००अवधौ मध्यएषियाभागतः आगत्य इदानीन्तनपश्चिमोत्तरभारते अवसन्। स्थानीयेभ्यः द्राविडजनैः सह जातः तेषां सम्पर्कः भारतस्य शास्त्रीयसंस्कृतेः उदयस्य कारणं जातम् इति ऊह्यते।
 
पङ्क्तिः १२१:
 
==राजनीतिः==
{{Mainमुख्यलेखः|भारतस्‍य राजनीति:}}
 
==अर्थव्यवस्था==
पङ्क्तिः १२७:
 
==सर्वकारः==
{{Mainमुख्यलेखः|भारतसर्वकारः}}
भारतसर्वकारः, आधिकारिकरूपेण सङ्घीयशासनम् इत्युच्यते, अपि च केन्द्रीयशासनमिति ज्ञायते। इदं शासनं भारतस्य संविधानद्वारा संस्थापितमासीत् । अस्तीदं २९ राज्यानां सप्त सङ्घराज्यक्षेत्राणां च शासकाधिकरणम्, समाहत्य यानि भारतगणतन्त्रमिति उच्यन्ते। अस्य संस्थितिः नवदिल्ली (भारतस्य राजधानी) इत्यत्र अस्ति।
 
पङ्क्तिः १८०:
 
== संविधानम् ==
{{Mainमुख्यलेखः|भारतस्य संविधानम्}}
[[File:Barack Obama at Parliament of India in New Delhi addressing Joint session of both houses 2010.jpg|thumb|left]]
भारतदेशः प्रजाप्रभुत्वात्मकः । अत्र शासनार्थ संविधानं रचितम् । जगतः सर्वेभ्यः संविधानेभ्यः भारतसंविधानं बृहद्गात्रकम् । संविधानमेव देशस्य वरिष्ठं शासनम् । संविधानरीत्या केन्द्रसर्वकारः, राज्यसर्वकाराश्च सम्भूय देशस्य शासनं कुर्वन्ति । एतदर्थं केन्द्रे लोकसभा, राज्यसभा च राज्येषु विधानसभा विधानपरिषच्च वर्तन्ते । राष्ट्रस्य शासनाधिकारः राष्ट्रपतौ न्यस्तः ।
पङ्क्तिः २२२:
 
==भारतीयसंस्कृतिः==
{{Mainमुख्यलेखः|भारतीयसंस्कृतिः}}
[[File:Kalash pujan.jpg|thumb|left|'''भारतस्य प्रतिष्ठे द्वे संस्कृतं संस्कृतिः तथा''']]
पुरातनः [[भारतस्य इतिहासः|इतिहासः]], अनन्या भौगोलिकरचना, वैविध्यमयाः जनसमूहाः, [[धर्मः|धर्माः]], विभिन्नाः सम्प्रदायाः, अनेके [[उत्सवाः]], नैकानि आचरणानि, प्राचीनपरम्परा, परितः विद्यमानानां देशानां प्रभावः – एवं विभिन्नाः विषयाः भारतीयसंस्कृतिम् अरचयन् । [[सिन्धुखातसंस्कृतिः|सिन्धुखाततः]] आरब्धा भारतीया संस्कृतिः [[वेदकालः|वेदकाले]] महता प्रमाणेन विकसिता अभवत् । [[बौद्धधर्मः|बौद्धधर्मस्य]] उन्नतिः-अवनतिः च, भारतस्य सुवर्णयुगं, यवनानाम् आक्रमणं, यवनानां शासनं, अन्यदेशीयानां शासनम् इत्येतेषु कालेषु भारतीयसंस्कृतेः विस्तारः, विविधता च अधिका अभवत् । भारतस्य धार्मिकाणि आचरणानि, [[भाषा|भाषाः]], पद्धतयः, सम्प्रदायाः च गतेभ्यः ५०००वर्षेभ्यः अस्याः अनन्यसंस्कृतेः साक्षिरूपेण सन्ति । विभिन्नानां धर्माणां, सम्प्रदायानां संयोजनम् अपि जातम् अस्ति भारतीयसंस्कृतौ । एतस्याः संस्कृतेः प्रभावः जगतः अन्यासां संस्कृतीनाम् उपरि अपि जातः अस्ति महता प्रमाणेन ।
"https://sa.wikipedia.org/wiki/भारतम्" इत्यस्माद् प्रतिप्राप्तम्