"वेदः" इत्यस्य संस्करणे भेदः

{{वैदिकविज्ञानम्}}
मुख्यलेखः
पङ्क्तिः २२४:
 
===ऋग्वेदः===
{{Mainमुख्यलेखः|ऋग्वेदः}}
[[Image:Rigveda MS2097.jpg|thumb|300px|'''ऋग्वेदस्य पदपाठः''']]
वेदेषु आदिमः ऋग्वेदः हिन्दुधर्मस्य मूलग्रन्थः अस्ति । ऋग्वेदः ४५०० वर्षेभ्यः प्राक् संग्रथित: इति मन्यन्ते । अस्य १०१७ सूक्तानि सन्ति । तस्य श्लोकाः विविधदेवानां सम्बद्धा: - यथा इन्द्रः, अग्निः, वायुः इत्यादयः । ऋग्वेदस्य १०५८९ संहिताः, १०२८ सूक्तानि च १० मण्डलै: विभाजिता: सन्ति । महामुने: व्यासस्य निर्देशे पैलः ऋग्वेदस्य संहितानां निर्माणम् अकरोत् ।
 
===यजुर्वेदः===
{{Mainमुख्यलेखः|यजुर्वेदः}}
 
आर्याणां कुरुषु अधिनिवेशकाले संग्रथितो यजुर्वेद: इति अभिप्रायः । यजुर्वेदस्य अध्वरवेद इति नामान्तरमस्ति । यजुषः एकोत्तरशतं शाखाः सन्ति इति पतञ्जलिः प्रपञ्चहृदयकारः च प्रस्तौति । वाजसनेयापरनामा [[कृष्णयजुवेदः]] गद्यपद्यात्मक: । यदीया रचना विश्ववश्या देदीप्यते ।
 
===सामवेदः===
{{Mainमुख्यलेखः|सामवेदः}}
 
साम- सान्त्वेन इति धातोः निष्पन्नं सामपदम् । सा इति ऋक्सूचकतया अम इति गानम् । हराबिव्यञ्गकतया च व्याख्यां केचिद् वदन्ति । सामवेदस्य एकसहस्रं शाखा असन् किल । प्रपञहृदयकारस्यकाले द्वादशशाखाभ्यः अन्याः नष्टाः इदानीन्तु केवलं तिस्रः शाखाः समुपलभ्यन्ते । [[सङ्गीतम्|सङ्गीतस्य]] उद्भवः सामगानात् इति विचक्षणा आचक्षते । सामगानेऽ पि सप्तस्वरा: एव भवन्ति । ते आधुनिकशास्त्रीयसङ्गीतसंविधानात् आरोहावरोहणक्रमे किञ्चिदिव व्यत्यस्ताः दृश्यन्ते । खरहरप्रियारागतुल्याः सामगानस्वराः कुष्ठं (प्रथमं), द्वितीयं, तृतीयं (मध्यमम्), चतुर्थं, मन्द्रं (पञ्चमम्), अतिस्वार्यं(षष्ठम्), अतिस्वरम् (अन्यं) एते सप्तस्वराः ।सामगानालापने गायकैः हस्ताङ्गुलिभिः मुद्राः अभिनीयन्ते एताभ्यः मुद्राभ्यः स्वरस्थानानि मात्राश्च प्रतीयन्ते ।
 
===अथर्ववेदः===
{{Mainमुख्यलेखः|अथर्ववेदः}}
ब्रह्मपुत्रेण अथर्वेण समाहृतम् इति अथर्ववेदः । अथर्वाङ्गिराः, ब्रह्मवेदः इत्येते नामान्तरे । आथर्वसंहितायाः द्वे शाखे स्तः । शौनकीयशाखा, पैप्पलादशाखा चेति । भूर्जपत्रेषु शारदालिप्यां लिखितस्य अथर्ववेदस्य पुरातनं पुस्तकं काश्मीरेभ्यः सम्पादितम्। तद् अधुना ट्यूबि़ञ्जन् सर्वकलाशालायाः ग्रन्थशेखरे अस्ति ।
 
"https://sa.wikipedia.org/wiki/वेदः" इत्यस्माद् प्रतिप्राप्तम्