"देहली" इत्यस्य संस्करणे भेदः

No edit summary
मुख्यलेखः
पङ्क्तिः ८३:
 
===कुतुब् मिनार्===
{{mainमुख्यलेखः|कुतुब् मिनार्}}
कुतुब् समुच्चये अन्तर्भवति कुतुब् मिनार् अपि । देहल्यां स्थितम् अत्यन्तं प्रेक्षणीयं प्रमुखं च स्थानम् एतत् । अस्य शिखरस्य निर्माणकार्यम् आरब्धवान् गुलामवंशस्य प्रथमः शासकः कुतबुद्दीन् ऐबकः। तस्य उत्तराधिकारी इल्तुमिशः , तदनन्तरम् आगताः अल्लावुद्दीन् खिल्जिप्रभृतयः शासकाः च अधिकान् अट्टान् निर्माय तस्य भवनस्य औन्नत्यं वर्धितवन्तः। कुतुबमिनार् ७२.५ मी. औन्नत्ययुतम् । तस्य भूतलव्यासः १४.३ मीटर्विशालः अन्तिमाट्ट्ः २.७ मीटर् -उन्नतः अस्ति । अस्य मुखद्वारम् 'अलैगेट्’ इति उच्यते । एतस्य निर्माता अस्ति अल्लावुद्दीनखिल्जिः । वृत्ताकारकम् एतत् मुखद्वारं रक्तशिलाभिः, अलङ्कृतमणिशिलाभिः, शिलाजवनिकाजालैः, कलाकृतिभिः च शोभते । टर्किशकलाविदः एतत् निर्मितवन्तः सन्ति । अल्लावुद्दीन्खिल्जिः सङ्कल्पितवान् आसीत् यत् 'अमैमिनार्’ निर्मातव्यम् इति, यच्च औन्नत्येन कुतुबमिनारस्य अपेक्षया द्विगुणितं स्यात् इति । किन्तु तस्य मरणात् निर्माणकार्यम् अर्धे एव स्थगितं जातम् ।२४.५ मीटरुन्नतः प्रथमः अट्टः निष्प्रयोजकः जातः अस्ति ।
 
===रक्तदुर्गम्===
{{mainमुख्यलेखः|रक्तदुर्गम्}}
देहलीनगरे स्थितं रक्तदुर्गं (लालकिला) रक्तवालुकाशिलाभिः निर्मितः भवनविशेषः अस्ति । अस्य दैर्घ्यं २ कि.मी. अस्ति । उन्नतिः समाना नास्ति । नद्याः समीपे २८ मीटर् उन्नतं , नगरभागे ३३ मीटर् उन्नतम् अस्ति । देहली चक्रवर्ती [[षाहजहान्]] क्रिस्ताब्दे [[१६३८]] तमे वर्षे एतस्य दुर्गस्य निर्माणम् आरब्धवान् । क्रिस्ताब्दे [[१६४८]] तमे वर्षे निर्माणकार्यं समाप्तम् अभवत् । लाहोर् गेट् तः प्रवेशः अस्ति । अत्र दिवान्-ए-आम् , दिवान् ए खास् , मोतिमस्जिद् , रङ्गमहल् इत्यादीनि सन्ति । प्रतिदिनम् सायङ्काले Sound and light show आङ्ग्लहिन्दिभाषयोः व्याख्यानसहितम् भवति । अन्तः आपणानां पाङ्क्तिः अस्ति । हस्तशिल्पवस्तूनि अत्र प्राप्तुं शक्यन्ते । दिवान् -ए- खास् राज्ञां स्वकीयं स्थानमासीत् । खास् महल् चक्रवर्तिनां निवासः, रङ्गमहलराज्ञीनां वासस्थानं, दिवान् आम् दर्बार सभाङ्गणमासीत् । अत्र उष्णजलशीतजलस्नानगृहाणि सन्ति । शीशमहल् प्रेक्षणीयमस्ति । मोगलशैल्याः शिल्पदर्शनाय एतदुत्तमं स्थलमस्ति । स्वातन्त्र्यानन्तरं प्रतिवर्षम् आगस्टमासस्य १५ दिने प्रातःकाले अत्र प्रवेशद्वारस्य उपरि स्थिते विशेषस्थले [[भारतस्य प्रधानमन्त्रिणः|भारतस्य प्रधानमन्त्री]] ध्वजारोहणं कृत्वा जनान् सम्बोधयति । शुभाशयं च यच्छति ।
 
"https://sa.wikipedia.org/wiki/देहली" इत्यस्माद् प्रतिप्राप्तम्