"मौर्यसाम्राज्यम्" इत्यस्य संस्करणे भेदः

(लघु)No edit summary
{{मुख्यलेखः|
पङ्क्तिः २२:
</gallery>
== चाणक्यः चन्द्रगुप्तश्च ==
{{Mainमुख्यलेखः|चन्द्रगुप्तमौर्यः}} {{Mainमुख्यलेखः|चाणक्यः}}
चन्द्रगुप्तमौर्यः (यवनभाषा|Σανδρόκυπτος) (३२३-२९८ ई.पू) एक: महान् सम्राट् आसीत्‌। स: मौर्यसाम्राज्यस्य प्रथमः सम्राट् आसीत्। चन्द्रगुप्तः चाणक्यस्य आदेशानुसारं सकलां भारतवर्षाम् अजयत्। सः शाक्यकुलीयः क्षत्रियः आसीत्। सः परियात्रपर्वतस्य यवनभूपतिं विजित्य तक्षशीलायाम् अभिषिक्तः जातः। अतः सः भारतस्य एकीकर्ता इति मन्यते। चन्द्रगुप्तस्य कथा एव [[मृच्छकटिकम्|मृच्छकटिके]] वर्णिता।
 
== बिन्दुसारः ==
{{Mainमुख्यलेखः|बिन्दुसारः}}
बिन्दुसारः द्वितीयः मौर्यसम्राट् आसीत्।(जन्म: क्रि.पू.३२०, राज्यभारकालः क्रि.पू.२९८-२७२)। सः [[चन्द्रगुप्तमौर्यः|चन्द्रगुप्तमौर्यस्य]] पुत्रः आसीत्। तस्य द्वौ पुत्रौ आस्ताम्। ते सुसीमः अशोकः च। अशोकः [[उज्जैन|उज्जयिन्याः]] प्रशासकः सुसिमः तक्षशीलायाः प्रशासकः च आस्ताम्। सः अमित्रघातकः अजातशत्रुः इत्यादीनि अभिधानानि अलभत। यवनाः तम् "amitrochates" वा "allitrochates" इति अकथयन्।
 
== अशोकः ==
{{Mainमुख्यलेखः|अशोकः}}
अशोकः (क्रि.पू. २६९-२३२) समस्तभारतस्य सम्राट् आसीत्। सः मौर्यवंशस्य तृतीयः महाराजः आसीत्। सः कलिङ्गयुद्धे रुधिराविलं रणरङ्गं दृष्ट्वा हिंसां त्यक्त्वा बौद्धधर्मं स्वीकृतवान्। सः अनेकेषाम् अभिलेखनानाम् स्तूपानां च निर्माणं कृतवान्। न शोकं यस्य सः एव अशोकः। सः चक्रवर्ती इति अभिधानं लब्धवान्। सः प्रियदर्शी देवानाम्प्रियः इति नाम्ना अपि प्रसिद्धः। तस्य चरितम् अशोकवदनदिव्यवदनग्रन्थयोः कथितम्।
 
"https://sa.wikipedia.org/wiki/मौर्यसाम्राज्यम्" इत्यस्माद् प्रतिप्राप्तम्