"वेदाङ्गम्" इत्यस्य संस्करणे भेदः

1
{{मुख्यलेखः|
 
पङ्क्तिः ५०:
==शिक्षा==
 
{{Mainमुख्यलेखः|शिक्षा}}
 
शिक्षानाम तच्छास्त्रं येन वेदमन्त्राणामुच्चारणं शुद्धं सम्पाद्येत । वेदे स्वरस्य प्राधान्यं वर्तते, स्वरज्ञानं च शिक्षाऽऽयत्तम्, अत एवेदं शिक्षाशास्त्रं वेदाङ्गम् । शिक्षाशास्त्रप्रयोजनं तैत्तिरीयोपनिषदारम्भे उक्तं, यथा —
पङ्क्तिः ७०:
==कल्पः==
 
{{Mainमुख्यलेखः|कल्पः}}
 
कल्पः वेदानां द्वितीयमङ्गमस्ति । ब्राह्मणकाले यागस्य तावान् प्रचारः जातः यत्, तेषां यथावज्ज्ञानाय पूर्णपरिचयप्रदायकग्रन्थानाम् आवश्यकता अनुभूयते स्म, तामेव आवश्यकतां स्वल्पैः शब्दैः पूरयितुं कल्पसूत्राणि विरचितानि । वेदविहितानां कर्मणां व्यवस्थापनं क्रमपूर्वकं कल्पशास्त्रे कल्पितम्। उत्तञ्च - 'कल्पो वेदविहितानां कर्मणामानुपूष्येण कल्पनाशास्त्रम्।'
पङ्क्तिः ७६:
==व्याकरणम्==
 
{{Mainमुख्यलेखः|व्याकरणम्}}
 
व्याकरणं नाम [[वेद|वेदा]]<nowiki/>नां रक्षकत्वाद् वेदार्थावबोधने सहायकत्वात्, प्रकृति-प्रत्यय-उपदेश-पुरस्सरपदस्वरूप-प्रतिष्ठापकत्वाद् अर्थनिर्णयनकृत्साधनेषु अन्यतमसाधनत्वेन प्रयुक्तत्वाद् वेदाङ्गस्य किञ्चन अङ्गम्। 
पङ्क्तिः ८२:
==निरुक्तम्==
 
{{Mainमुख्यलेखः|निरुक्तम्}}
 
निरुक्तं [[निघण्टुः|निघण्टो]]<nowiki/>र्महत्त्वपूर्णा टीकाऽस्ति । निरुच्यते निश्शेषेण उपदिश्यते तत् तदर्थावबोधनाय पदजातं यत्र तत् निरुक्तमिति कथ्यते । निरुक्तं यस्मिन्नाधारे प्रवृत्तं भवति — अर्थात् प्रत्येकं संज्ञापदं धातुना व्युत्पन्नोऽभवत् इत्याधारस्तु नितान्तं वैज्ञानिकमस्ति । अस्यैव सम्प्रति नामास्ति ‘[[भाषाविज्ञानम्]]' । अस्योन्नतिः पाश्चात्यजगति शतवर्षाभ्यन्तरे अभवत् । त्रिसहस्रवर्षं प्राग् वैदिकाः ऋषयः अस्य शास्त्रस्य सिद्धान्तानां वैज्ञानिकरीत्या निरूपणं कृतवन्तः । भाषाशास्त्रस्य इतिहासे भारतवर्षे एव अस्य मूलोद्गमस्थानमस्ति । निरुक्तस्य आरम्भेऽस्य विषयस्य येषां नियमानां प्रतिपादनं समुपलब्धं भवति, तत्तु विशेषरूपेण महनीयमस्ति।
पङ्क्तिः ८८:
==छन्दः==
 
{{Mainमुख्यलेखः|छन्दः}}
 
छन्दो वेदस्य पञ्चमाङ्गमस्ति । वेदाः सन्ति छन्दोबद्धाः, अतः तेषामुच्चारणनिमित्ताय छन्दोज्ञानं नितरामपेक्षितम्। छन्दोभिधेनैतेनाङ्गेन छन्दसा सर्वेषामुच्चारणस्य विधिः, तदगतिप्रकारः, तद्गानरीतिश्च विदिता भवति। तस्माद्वैदिकमन्त्रोच्चारणप्रयोजनेन तदध्ययनं पूर्वमुचितम् । विना छन्दोज्ञानं यो वेदाऽध्ययनयजनयाजनादिकार्याणि करोति, तस्य तानि सर्वाणि कार्याणि न भवन्ति फलदायकानि । स्पष्टतया [[कात्यायन|कात्यायनेन]] उक्तम् -
पङ्क्तिः ९५:
 
==ज्योतिषम्==
{{Mainमुख्यलेखः|ज्योतिषम्}}
ज्योतिषं वेदस्य नैजं ज्यौतिषायत्तमतं ज्यौतिष् ज्योतिषशास्त्रस्य वेदाङ्गत्वं स्वीकृतम् । अयमर्थः उक्तः अार्चज्योतिषे, यथा —
 
पङ्क्तिः १०८:
 
=== प्रातिशाख्यसाहित्यम् ===
{{Mainमुख्यलेखः|प्रातिशाख्यग्रन्थः}}
 
'''प्रातिशाख्यग्रन्थः''' वैदिकवाङ्गमयस्य विचारणीयान् विवेचनीयांश्च विषयान् अधिकृत्य लिखितः वेदस्य लक्षणग्रन्थोऽस्ति। अनेन ग्रन्थेन वेदस्य बाह्यस्वरूपं निर्दिष्टं भवति । चतुर्णां वेदानां चत्वारि प्रातिशाख्यानि सन्ति । तानि च – ऋक्प्रातिशाख्य-वाजसनेयिप्रातिशाख्य-तैत्तिरीयप्रातिशाख्य-सामवेदीयप्रातिशाख्य-अथर्ववेदीयप्रातिशाख्यानि च । एतेषु प्रातिशाख्यग्रन्थेषु ऋग्वेदप्रातिशाख्यं शीर्षस्थानीयमस्ति। विषयप्रतिपादनदृष्ट्या वैदिकशब्दानां वेदमन्त्राणाञ्च व्याकरणप्रक्रियाप्रदर्शनमेव प्रातिशाख्यानामुद्देश्यम् ।
"https://sa.wikipedia.org/wiki/वेदाङ्गम्" इत्यस्माद् प्रतिप्राप्तम्