"संस्कृतम्" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
No edit summary
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः ७:
[[चित्रम्:Devimahatmya Sanskrit MS Nepal 11c.jpg|right|thumb|400px|संस्कृतस्य तालपत्रम् ([[नेपाललिपिः]] प्रयुक्तम्)]]
इयं भाषा न केवलं [[भारत|भारतस्‍य]] अपि तु विश्वस्य प्राचीनतमा भाषा इति मन्यते। इयं भाषा तावती समृद्धा अस्ति यत् प्राय: सर्वासु भारतीयभाषासु न्‍यूनाधिकरूपेण अस्‍या: शब्‍दा: प्रयुज्‍यन्‍ते. अत: भाषाविदां मतेन इयं सर्वासां भाषाणां जननी मन्‍यते। पुरा संस्कृतं लोकभाषा आसीत्‌। जना: संस्कृतेन वदन्ति स्म॥
 
= अक्षरमाला =
अक्षराणां समूहः [[अक्षरमाला]] इति उच्यते।
 
संस्कृतभाषायाः लौकिकीयमक्षरमाला। अक्षरैरेभिर्घटितमेव गैर्वाण्यां समस्तं पदजागम्। भाषा तावद्वाक्यरूपा; वाक्यानि पदैर्घटितानि, पदान्यक्षरैरारभ्यन्ते; अक्षराणि वर्णैरूपकल्पितानि। तथा घटादिपदार्थानां परमाणव इव भाषाया उपादानकारणं वर्णाः। निरवत्र एकत्वव्यवहारार्हः स्फुटो नादो वर्ण इति तस्य लक्षणम्। तत्र स्वयमुच्चारणार्हो वर्णः '''स्वरः'''; तदनर्हं '''व्यञ्जनम्'''। व्यञ्जनवर्णानां स्वयमुच्चारणाक्षमत्वात् तेष्वेकैकस्मिन्नपि प्रथमस्वरः अकारो योजितः। तथा च वयमक्षराण्येव लिखामो न तु वर्णान्; अत एव चाक्षरमालेति व्यवहरामो न तु वर्णमालेति।
 
अक्षराणि स्वराः व्यञ्जनानि च इति द्विधा विभक्तानि। स्वराक्षराणां उच्चारणसमये अन्येषां वर्णानां साहाय्य्यं नापेक्षितम्। '''स्वयं राजन्ते इति स्वराः'''।
 
संस्कृतभाषायाः अक्षरमाला पट्टिकया प्रदर्श्यते -
{{अक्षरमाला - संस्कृतम्}}
 
ऌकारस्य प्रयोगः अत्यन्तविरळः। अन्तिमौ अं, अः इति वर्णौ अनुस्वारविसर्गौ स्तः। एतयोः उच्चारणं स्वराक्षराणां अनन्तरमेव भवति। अनुस्वारविसर्गौ विहाय अन्यानि स्वराक्षराणि भाषाशास्त्रे '''अच''' शब्देन व्यवह्रियन्ते। अनुस्वारविसर्गयोः तु अचि व्यञ्जनेषु च अन्तर्भावः।
 
यद्यप्यक्षराणां वर्णारारब्धत्वात् वर्णनामेव लिपिभिः विन्यासो न्याय्यः, तथापि व्यञ्जनानां स्वरपरतन्त्राणां स्वयमुच्चरितुमशक्यत्वात् अक्षराणामेव लिपिसंज्ञितानि चिह्नानि पूर्वैः कल्पितानि। यूरोपदेशीयास्तु स्व्स्वभाषालेखने वर्णानेवोपयुञ्जते, न त्वक्षराणि। यथा 'श्री' इत्यकां लिपिं Sri इति तिस्रृभिर्लिखन्त्याङ्गलेयाः।
 
अविभाज्य एको नादो '''वर्णः'''; केवलो व्यञ्जनसंसृष्टो वा स्वर एकोऽक्षरम् इति वर्णाक्षरयोर्भेदः। अनेन च केवलः स्वरो वर्ण इत्यक्षरमिति च द्वावपि व्यपदेशवर्हतीति स्फुटम्। केवलं तु व्यञ्जनं वर्ण एव। केवला एव स्वरा लिपिषु स्वस्वचिह्नैर्निर्दिश्यन्ते; व्यञ्जनसंसृष्टास्तु चिह्नान्तरैरेव लिख्यन्ते।
 
:यथा -
::क् + अ = क
::क् + आ = का
::क् + इ = कि
::क् + ई = की
::क् + उ = कु
::क् + ऊ = कू
::क् + ऋ = कृ
::क् + ॠ = कॄ
::क् + ऌ = कॢ
::क् + ए = के
::क् + ऐ = कै
::क् + ओ = को
::क् + औ = कौ
:::::इत्यादि।
 
'क्’ इतिवद् व्यञ्जनलिपिनामधो दक्षिणायता रेखा ताभ्यः स्वरांशपृथक्करणं सूचयति। यद्यपि लोके व्यवहारेष्वक्षरैरेवोपयोगस्थापि वैयाकरणा वर्णैर्व्यवहरन्ति। अतश्च 'क', 'कि’, 'कु’ इत्याद्या लिपय एकैकचिह्नात्मिका अपि स्वरव्यञ्जनरूपवर्णद्वयघटिता।
 
अक्षरमालायां परिगणितानां वर्णानां विभागे स्वरव्यञ्जनात्मना द्विविधो महाविभाग उक्त एव।
 
== स्वराः ==
 
'''‘अच्’''' इति स्वरस्य पाणिनिकृता संज्ञा। येषां वर्णानाम् उच्चारणं स्वतन्त्रतया भवति ते स्वराः कथ्यन्ते।
स्वराः उच्चारणसमयदैर्घ्याधारेण ह्रस्वः, दीर्घः, प्लुत इति त्रिधा विभक्ताः। एकमात्रः स्वरः ह्रस्वः, द्विमात्रः दीर्घः, त्रिमात्रः प्लुतः च भवति। दूर स्थितस्य पुरुषस्य आह्वानाय प्लुत उपयुज्यते। विसर्गः अर्द्धमात्रकः, जिह्वामूलीयोपध्मानियौ पादमात्रकौ च।
 
 
उच्चारणकालमात्रानुसारेण स्वरास्तावत् त्रिविधाः -
# एकया मात्रया अ, इ, उ इत्यादिवदुच्चार्यमाणो '''ह्रस्वः'''।
# आ, ई, ऊ इत्यादिवद् द्वाभ्यामुच्चार्यमाणो '''दीर्घः'''।
# अ...३, इ...३, उ...३ इत्यादिवत् तिसृभिरुच्चार्यमाणः '''प्लुतः''' (प्ळुतः‌)।
 
'''ह्रस्वस्वराः'''
 
येषां स्वराणाम् उच्चारणम् एकमात्राकलेन भवति ते ह्रस्वस्वराः इति कथ्यन्ते। ते पञ्च सन्ति| तान् मूलस्वराः इति अपि कथयन्ति।
::अ इ उ ऋ लृ
 
'''दीर्घस्वराः'''
 
येषां स्वराणाम् उच्चारणं मात्राद्वयेन भवति ते दीर्घस्वराः इति कथ्यन्ते। ते अष्टौ सन्ति।
::आ ई ऊ ॠ ए ऐ ओ औ
 
'''प्लुतस्वराः'''
 
येषां स्वराणाम् उच्चारणं मात्रात्रयेण भवति ते प्लुतस्वराः इति कथ्यन्ते। तान् एवं लिखन्ति ।
::अ...३ आ...३ इ...३ ई...३ उ...३ ऊ...३ ऋ...३ ऋृ...३
::लृ...३ ए...३ ऐ...३ ओ...३ औ...३
 
दूर स्थितस्य पुरुषस्य आह्वानाय प्लुत उपयुज्यते।
 
उदाहरणानि:
# आगच्छ कृष्णा..३, अत्र गौः चरति।
# भो बालाः..३ आगच्छन्तु।
 
व्यञ्जनान्तशब्दानां संबोधने तु शब्दस्य टेः प्लुतः कल्पनीयः (पदान्तव्यञ्जनात पूर्ववर्णः टिः)।
यथा राजे..३श्। [राजेश् इति हिन्दी नाम]
 
* एषु ह्रस्वदीर्धाभ्यामेव पदानि घटितानि। प्लुतस्तु काक्कादिवद्वाक्यमात्रदृष्टः स्वरविकारः। अत एव च तस्य लिपिषु चिह्नानि न कल्पितानि।
* स्वरेषु 'ऌ'कारोऽतीव विरलः - 'कॢप्तम्’, 'कॢप्तिः’ इत्येकस्य धातोः रूपेष्वेव दृष्टः। अस्य दीर्घः 'ॡ' कुत्रापि नोपयुज्यते।
* ए, ओ एषां ह्रस्वः संभवन् देश्यभाषासु दृष्टोऽपि संस्कृते नापेक्ष्यते। परन्तु, संस्कृतभाषायां देश्यपदप्रयोगार्थं एषां ह्रस्वरूपः आधुनिककाले उपयुज्यते। 'ए'कारस्य ह्रस्वरूपं देवनागर्यां 'ए' इति लिखति। 'ओ'कारस्य ह्रस्वरूपं देवनागर्यां 'ओ'इति लिखति।
* ए, ओ एतौ दीर्घौ एव! तत्-सवर्णौ ह्रस्व-वर्णौ एवं लिख्येते - ए, ओ । (दाक्षिणात्य-शब्दानां देवनागर्यां लेखने उपयुज्येते।)
 
सङ्गीतशास्त्रप्रसिद्धं तारमन्द्रत्वभेदं निमित्तीकृत्य स्वराणां उदात्तः, अनुदात्तः, स्वरित इत्यन्यथापि त्रैविधमस्ति।
[[चित्रम्:Rigveda MS2097.jpg|thumb|right|550px|[[ऋग्वेदः|ऋग्वेदस्य]] प्रथमं सूक्तम् - उदात्तोऽनुदात्तस्वरितचिह्नानिसहितम्]]
अयमपि भेदः सूत्रकारवचनैरेवोच्यते -
::उच्चैरुदात्तः। नीचैरनुदात्तः। समाहारः स्वरितः।
 
उच्चः स्वर '''उदात्तः'''; नीचो'''ऽनुदात्तः'''; उच्चनीचमिश्रितः '''स्वरितः'''।
 
लिपिषु स्वराणामङ्कने बहव सन्ति सम्प्रदायाः। तत्र बह्वादृत एकोऽत्र विव्रीयते। - अनुदात्तस्यचिह्नमधस्तिरश्चीरेखा, स्वरितस्योपर्यूर्ध्वाधरा। अचिह्नितमक्षरमुदात्तम्। अनुदात्तेषु न सर्वण्यङ्क्यन्ते। अपितु उदात्तात् स्वरिताद्वा पूर्वमेवाक्षरम्। पूर्वानुदातचिह्ननमाद्युदात्ते पदे कर्तुं न शक्यते। अतोऽनक्ङितमाद्यक्षरमुदात्तत्वेनैव ग्राह्यम्। अनुदात्तास्तु वाक्यप्रारम्भे सन्देहनिवारणाय यावदुदात्तदर्शनमङ्क्यन्ते।
 
== अयोगवाहौ ==
{{मुख्यलेखः|अनुस्वारः|विसर्गः}}
'''अनुस्वारः'''
 
'''अर्ध-‘म’कार'''सदृशाध्वनिरनुस्वारः।
 
'''विसर्गः'''
 
विसर्गापरपर्यायो विसर्जनीयः। '''अर्ध-‘ह’कार'''सदृशाध्वनिः। पदान्त-रेफस्योच्चारण विशेषः।
 
विसर्गादयो न स्वतन्त्रा वर्णाः; नैभि किमपि पदमारभ्यते। स्वराणामन्तेषु कदाचिदुपलभ्यन्त इत्येव। अत एवैतेऽक्षरसमाम्नाये न पठिताः।
 
== व्यञ्जनानि ==
 
व्यञ्जनवर्णाः सर्वे स्वराक्षरस्य साहाय्य्येनैव उच्चार्यन्ते। अक्षरमालायां स्वरस्य साहाय्य्येनैव व्यञ्जनानि प्रदर्शितानि।
 
उदाहरणम् : क् + अ = क
 
उच्चारणस्थानं अनुसृत्य व्यञ्जनानि अधो दत्तवत विभक्तानि
#कवर्गः
#चवर्गः
#टवर्गः
#तवर्गः
#पवर्गः
# अन्तस्थाः अथवा मध्यमाः
# ऊष्मणः
 
शुद्ध व्यञ्जनानां लेखने अधः चिह्नं योजनीयं (यथा क्, च्, म्)।
 
व्यञ्जनेन सह प्रयोगार्त्थं अ इति अक्षरं विहाय अन्येषां स्वराणां कृते अपि भिन्नभिन्नानि चिह्नानि कल्पितानि।
 
==संयुक्ताक्षराणि==
 
संयुक्ताक्षरं द्वित्राणां व्यञ्जनानां मिलितं रूपं संयुक्ताक्षरं भवति।
 
उदा :
क् + व = क्व
क् + य = क्य
व् + य = व्य
 
'''कार्त्स्न्यं''' इत्यत्र पञ्चव्यञ्जनानां संयोगः अपि संभूतः। केषांचन संयुक्ताक्षराणां लेखने भिन्ना रीतिः अस्ति।
संयुक्ताक्षरस्य लेखने व्यञ्जनानां यथातथामेळनं अपि कुत्रचित भवेत
उदा : कुक्कुरः, तत्त्वम्
 
= उच्चारणशास्त्रम् =
"https://sa.wikipedia.org/wiki/संस्कृतम्" इत्यस्माद् प्रतिप्राप्तम्