"विकिपीडिया" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३३:
[[File:Wikimedia Foundation Office Officey Photos-5.jpg|thumb|चित्रम्: स्यान्फ्रान्सिस्को केन्द्रकार्यालये कार्यरताः कार्यकर्तारः]]
 
== व्युत्पत्तिः ==
 
विकिपीडिया इति पदं हवाई भाषायाः विकि(आशु) तथा आङ्गभाषायाः एन्सैक्लोपीडिया(विश्वकोषः) इति पदाभ्यां निष्पनम्।
 
=वैशिष्ट्यानि=
*विकिपीडिया किञ्चन बहुभाषीयः विश्वकोषः। अत्र द्विशताधिकासु भाषासु लेखाः प्राप्यन्ते।
*विकिपीडिया प्रकृते काले अन्तर्जालाधारितः बृहत्तमः विश्वकोषः।
*विकिपीडिया मुक्तः अन्तर्जालाधारितः विश्वकोषः। अतः अत्र अन्तर्जालसाहाय्येन विश्वे यः कोऽपि परिष्कर्तुं शक्नोति। तथैव नूतनान् लेखान् योजयितुमपि शक्नोति। एवं सर्वे स्वज्ञानम् अत्र प्रकटयितुमर्हन्ति इत्यस्माद् अनन्ताः विषयाः अत्र उपलभ्यन्ते।
*विकिपीडियालेखेषु परस्परः अन्तःसम्बन्धः विद्यते। अतः कञ्चित् लेखं पठन्नेव यः अंशः न अवगतः तस्य विषये पठितुमपि शक्नोति। लेखस्य अन्ते अपि सम्बद्धविषयानां सूचना भवति। यदि कुत्रचित् सम्बद्धविषयाः अनुक्ताः चेत् तान् पठिता अपि योजयितुं शक्नोति।
*अत्र परिष्कृतान् लेखान् अनुक्षणं प्राप्तुं शक्नोति। इतिहासपुटे परिष्काराद् पूर्वस्थितिः अपि दृश्यते। चर्चापुटे सम्पादनकार्यं व्यवस्थितरूपेण चालयितुं शक्नुमः।
 
==विश्वासार्हता==
*विकिपीडियाविषयाः परिपूर्णाः न भवन्ति। निरन्तरं तेषां परिवर्तनं परिष्करणं च चलति इत्यस्माद् तेषु गुणवत्ता तु भवत्येव।
*कदाचित् अत्र विद्यमानाः विषयाः एकेनैव दृष्टिकोणेन निबद्धा अपि स्युः। अतः चर्चास्पदानि अपि विषयाः भवेयुः।
*सुदीर्घं वैचारिकं वादं प्रतिपादयितुं विकिपीडिया अवसरं कल्पयति। अतः प्रायेण लेखेषु कश्चन सर्वसम्मतः वादः एव भवति।
*विकिपीडियालेखेषु कानिचन विशिष्टलक्षणानि भवन्ति। तत्र च भाषास्तरः अधमः न भवति। पठिता यथा विषयं सर्वतोमुखेन प्राप्नुयात् तथा लेखविस्तरः निबद्ध्यते।
*विकिपीडिया लेखानामाधारेण अनुसन्धानं विधीयते चेत् जागरूकैः भाव्यम्। यतो हि कोऽपि विषयः अत्र शतं प्रतिशतं परिष्कृतः न भवति।
*किञ्च विकिपीडियादुरुपयोगं निरोद्धुम् अनेके मार्गाः अनुस्रियन्ते। अतः अत्र विषयेषु प्रायेण विश्वासः शक्यः।
 
[[वर्गः:विकिपीडिया]]
"https://sa.wikipedia.org/wiki/विकिपीडिया" इत्यस्माद् प्रतिप्राप्तम्