"अलङ्कारराघवम्" इत्यस्य संस्करणे भेदः

==अलङ्कारराघवम् == यज्ञेश्वरदीक्षितेन निर्मित... नवीनं पृष्ठं निर्मितमस्ति
 
→‎अलङ्कारराघवम्: सन्दर्भलेखनम्
पङ्क्तिः १:
==अलङ्कारराघवम् ==
[[यज्ञेश्वरदीक्षितः|यज्ञेश्वरदीक्षितेन]] निर्मितः अयम् अलङ्कारग्रन्थः अस्ति । स्वप्ने प्रभुरामचन्द्रेण कृताज्ञया इमं ग्रन्थं लेखकः निर्मितवान् । '''रामाज्ञया स्वप्ननिरूढया मे विनिर्मितेऽलङ्कृतिराघवेऽस्मिन् । न युक्तिदौर्बल्यमुदाहृतीनां न मान्द्यमित्यादरयन्तु सन्तः॥'''<ref>मङ्गलाचरणविचारः,अलङ्कारराघवम्, प्राच्यविद्यासंशोधनालयः, मैसुरु १९९७</ref> अत एव ग्रन्थस्यास्य नामकरणं लेखकः अलङ्कारराघवम् इति कृतवान् । अन्यन्यरामभक्तः अयं ग्रन्थे सर्वत्र रामसम्बद्धोदाहरणानि लिखित्वा स्वभक्तिं प्रकटितवान् ।यथा उपमालङ्कारप्रकरणे- '''दौर्दण्डौ विटपाविवोपचयकौ मुक्ता विभूषोज्ज्वलाः सम्फुल्लाः कलिका इवाङ्गकिरणा संसर्गिभृङ्गा इव भक्तेभ्यो ननु धर्मकाममुखराभीष्टानि दत्तान्यहो दिव्यानीव फलानि कल्पविटपीवाभाति सीतापतिः॥'''<ref>उपमाप्रकरणम्,अलङ्कारराघवम्, प्राच्यविद्यासंशोधनालयः, मैसुरु १९९७</ref> स्वकीयग्रन्थे दण्डिरुद्रटादिभ्यः आरभ्य वीरनारयणपर्यन्तादीनां नामोल्लेखं करोति अयं ग्रन्थकारः। अतः विद्वद्भिः एतस्य समयः सप्तमशताब्द्याः प्रारम्भे ऊहितः । अत एव ग्रन्थस्यास्य समयः अपि सप्तमशताब्द्याः प्रारम्भः इति ज्ञातुं शक्यते ।
ग्रन्थेस्मिन् नायकनायिकानिरूपणं, वृत्तिनिरूपणं, रीतिस्वरूपवर्णनं, काव्यविशेषनिरूपणं, नाट्यप्रकरणं, रसस्वरूपनिरूपणं, दोषसामान्यलक्षणं, गुणसामान्यलक्षणं, शब्दालङ्कारनिरूपणम्, अर्थालङ्कारनिरूपणम् इत्यादयः विषयाः सन्ति ।
तत्र तत्र ग्रन्थकारः प्राचीनालङ्कारिकाणाम् अभिप्रायान् अनुवदति । ग्रन्थेस्मिन् स्वरचितानि उदाहरणानि एव ग्रन्थकारः समुपस्थापितवान्। रामपरतया रचितानि एतानि उदाहरणानि ग्रन्थस्य नाम अन्वर्थकतां नयन्ति । ग्रन्थस्यास्य शैली यद्यपि सुलभा अस्ति तथापि लक्षणनिरूपणे ग्रन्थकारः तर्कशास्त्रसरणिम् अनुसरति । वेदान्तादिशास्त्रविचारान् अपि सन्दर्भानुगुणं ग्रन्थकारः विचारयति। अयं ग्रन्थः मैसुरुनगरे विद्यमानेन प्राच्यविद्यासंशोधनालयेन १९९७ तमे वर्षे प्रकाशितः ।
"https://sa.wikipedia.org/wiki/अलङ्कारराघवम्" इत्यस्माद् प्रतिप्राप्तम्