"श्रीमद्भागवतमहापुराणम्" इत्यस्य संस्करणे भेदः

अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
No edit summary
पङ्क्तिः २६:
[[चित्रम्:Meister der Bhâgavata-Purâna-Handschrift 001.jpg|thumb|250px| १५०० ईशवीयाब्दे लिखिते भागवतपुराणे कृष्णं स्नापयन्ती यशोदा]]
 
'''श्रीमद्भागवतमहापुराणम्''' ( SrimadbhagavataPurana) [[हिन्दूधर्मः|हिन्दूधर्मस्य]] अनुयायिनाम् अष्टादशपुराणेषु अन्यतमम्। एतत् पुराणं '''श्रीमद्भागवतम्''' अथवा केवलं "भागवतम्" च उच्यते। पुराणस्य मुख्यवर्ण्यविषयः [[भक्ति योगः]] अस्ति। पुराणे [[कृष्णः|कृष्णं]] सर्वेषां देवानां देव: इति वा स्वयं भगवान् इति रूपेण वा चित्रितवन्त: सन्ति। एतत् अतिरिच्य अस्मिन् पुराणे रसभावं भक्तिनिरूपणञ्च कृतवन्त: सन्ति, परम्परागतरुपेण एतस्य पुराणस्य रचयिता [[व्यासः]] । श्रीमद्भागवतम् भारतीयवाङ्मयस्य मुकुटमणिः इव अस्ति। भगवता [शुकमुनिः|शुकदेवेन] महाराज्ञे परीक्षिताय उक्तस्य भक्तिमार्गस्य वर्णनं अस्मिन् पुस्तके अस्ति। पुराणस्य प्रत्येकं श्लोक: श्रीकृष्णप्रेम्णा सुगन्धित: अस्ति। साधन-ज्ञानं, सिद्धज्ञानं, साधन-भक्तिः, सिद्धा-भक्तिः, मर्यादा-मार्गः, अनुग्रह-मार्गः, द्वैताद्वैतसमन्वयेन सह प्रेरणादायीनि विविधानि उपाख्यानानि अद्भुतप्रकारेण सङ्गृहीतानि सन्ति। <ref>[http://www.gitapress.org/hindi गीताप्रेस डाट काम]</ref>
 
भागवतपुराणे महर्षि [[सूत]] गोस्वामी तस्य समक्षे प्रस्तुतसाधूभ्यः शौनकादिभ्यो एकां कथाम् उवाच। साधवः सूतसमक्षे भगवतः विष्णोः विभिन्नानाम् अवताराणां विषये जिज्ञासां कुर्वन्ति। सूतगोस्वामी समस्तप्रश्नानां उत्तरं ददाति। अस्मिन् ग्रन्थे द्वादश स्कन्धाः वर्तन्ते। प्रथमे स्कन्धे सर्वेषाम् अवताराणां संक्षिप्तरुपेण वर्णनं कृतमस्ति। द्वितीये स्कन्धे पुराणलक्षणानां वर्णनं कृतम्। एते लक्षणाः सर्गः, विसर्गः, स्थानं, पोषणम्, ऊतयः, मन्वन्तरम्, ईशानुकथा, निरोधः, मुक्तिः, आश्रयश्च। एतेषाम् लक्षणानाम् वर्णनं तृतीयस्कन्धादारभ्य द्वादशस्कन्धपर्यन्तं क्रमेण भवति।
"https://sa.wikipedia.org/wiki/श्रीमद्भागवतमहापुराणम्" इत्यस्माद् प्रतिप्राप्तम्