"काव्यालङ्कारः(रुद्रटविरचितः)" इत्यस्य संस्करणे भेदः

(लघु) NehalDaveND इत्यनेन शीर्षकं परिवर्त्य काव्यालङ्कारः(रुद्रटविरचितम्) पृष्ठं काव्यालङ्कारः(रुद्रटविरचितः) प्रति स्थानान्तरितम्: संस्कृतम्
रुद्रटालङ्कारः
 
पङ्क्तिः १:
 
रुद्रटेन '''काव्यालङ्कारः''' (Kavyalankara) इति ग्रन्थः [[रुद्रट|रुद्रटेन]] लिखितः । अस्मिन् ग्रन्थे १६ अध्यायाः सन्ति ।सर्वाः। सर्वाः अपि कारिकाः आर्याछन्दसि वर्तन्ते । उदाहरणानि सर्वाणि स्वेनैव लिखितानि । शैली अतीव सरला मनोरञ्जिका च वर्तते
 
== विषयवस्तु ==
==परिचयः==
रुद्रटस्य काव्यालङ्कारे षोडशाध्यायाः । प्रत्यध्याये प्रकरणान्यपि षोडशैव । ग्रन्थस्यास्य नाम [[काव्यालङ्कारः(रुद्रटविरचितम्)|काव्यालङ्कारः]]। सम्बन्धश्चास्य काव्यस्वरूपविवेचना । प्रयोजनञ्चास्य कविशिक्षा । काव्यस्य प्रयोजनं यशः । ततश्च -
रुद्रटेन '''काव्यालङ्कारः''' (Kavyalankara) इत्येषः ग्रन्थः नवमशतमाने लिखितः । अयं कश्चन लक्षणग्रन्थः वर्तते ।
==स्वरूपः==
ग्रन्थे १६ अध्यायाः सन्ति । सर्वाः अपि कारिकाः आर्याछन्दसि वर्तन्ते । उदाहरणानि सर्वाणि स्वेनैव लिखितानि । शैली अतीव सरला मनोरञ्जिका च वर्तते ।
==व्याख्यानानि==
अस्य ग्रन्थस्य '''काव्यालङ्कारटिप्पणी'''नामिकां टीकां [[नेमिसाधुः]] रचितवान् अस्ति इत्येषः अंशः अत्र उल्लिखितः अस्ति -
:पूर्वमहामतिविरचितवृत्यनुसारेण किमपि रचयामि । संक्षिप्ततरं रुद्रटकाव्यालङ्कारटिप्पणिकम् ॥ (Samskrit Kavicharitre of T.G. Kale, p. 56)
इयं टीका क्रि श १०६९ तमे वर्षे लिखिता स्यात् ।
 
'''अर्थमनर्थोपशमं शमसममथवी मतं यदेवास्य।'''
काव्यालङ्कारग्रन्थस्य व्याख्यानं [[वल्लभधरः]] [[आशाधरः]] च लिखितवन्तौ स्तः ।
 
'''विरचितरुचिरसुरस्तुतिरखिलं लभते तदेव कविः।।'''<ref>१/८</ref>
 
काव्यस्य हेतुः शक्तिर्व्युत्पत्तिरभ्यासश्च । तत्र -
 
'''मनसि सदा सुसमाधिनि विस्फुरणमनेकधाऽभिधेयस्य।'''
 
'''अक्लिष्टानि पदानि च विभान्ति यस्यामसौ ज्ञक्तिः।।'''
 
सा द्विविधा सहजोत्पाद्या च । तत्र सहजा प्रतिभाऽऽख्या । उत्पाद्योपार्जनीया । एवमेव -
 
'''छन्दोव्याकरणकलालोकस्थितिपदपदार्थविज्ञानात् ।'''
 
'''युक्तायुक्तिविवेको व्युत्पत्तिरियं समासेन॥'''<ref>१।१८</ref>
 
सुजनसङ्गाज्ज्ञानोपार्जनमभ्यासः।
 
शब्दार्थौ काव्यम् । अर्थवद्वर्णसमुदायः शब्दः। स च नमाख्यातोपसर्गनिपातकर्मप्रवचनीयभेदेन पञ्चविधः । मेधाविरुद्रेण तु चत्वार एवोक्तास्तेन कर्मप्रवचनीयो नोक्तः । नाम्ना द्वेधा वृत्तिः समासासमासभेदेन । समासवत्या वृत्तेस्तिस्रो रीतयः पाञ्चाली लाटीया गौडीया च क्रमेण लघुमध्यायतविरचनसमासा। द्वित्रिपदा पाञ्चाली, पञ्च सप्त वा लाटीया, यथाशक्तिसमासा गौडीया। असमासा तु वैदर्भी । पञ्चविधस्य शब्दस्य वाक्ये उपयोगः परस्परं सव्यपेक्षवृत्तीनामेकपराणां शब्दानामनाकाङ्क्षः समुदायो वाक्यम् । अन्यूनाधिकवाचकसुक्रमपुष्टार्थशब्दचारुपदं क्षोभक्षममधूणं वाक्यं प्रयुञ्जीत । वाक्यं द्वेधा भवति गद्यं छन्दोगतञ्च, भाषाभेदात् षोढा, ताश्च प्राकृत-संस्कृत-मागध-पिशाच-सूरसेनी-अपभ्रंशाः । वक्रोक्त्यनुप्रासयमकश्लेषचित्राणि शब्दालङ्काराः। मधुरा प्रौढा परुषा ललिता भद्रेति पञ्च वृत्तयः ।
 
असमर्थमप्रतीतं विसन्धि विपरीतकल्पनं ग्राम्यम् अव्युत्पत्तिदेश्यं च पदं दुष्टं भवेत् । अर्थः पुनरभिधावान् प्रवर्तते यस्य वाचकः शब्दः । तस्य च द्रव्यं गुणः जातिः क्रियेति भेदाः । मूर्तिमद् द्रव्यम् । द्रव्यादपृथग्भूतो द्रव्यसमवायी गुणः। स च सहज-आहार्य-आवस्थिकभेदात् त्रिविधः, नित्यं क्रियाऽनमेधा द्रव्यविकारेण भवति धात्वर्थः । करकसाध्या द्वेधा सकर्मिकाकर्मिका चेति । भिन्नक्रियागुणेष्वपि बहुषु द्रव्येषु चित्रगात्रेषु एकाकारा बुद्धिर्भवति यतः सा भवेज्जातिः । वास्तवमौपम्यमेतिशयः श्लेषश्चार्थालङ्काराः । वस्तुस्वरूपमात्रकथनं वास्तवम् । तस्य सहोक्ति-समुचय-जाति-यथासङ्ख्य-भाव-पर्याय-विषम-अनुमान-दीपक-परिकर-परिवृत्ति-परिसङ्ख्या-हेतु-कारणमाला-व्यतिरेक-अन्योन्य-उत्तर-सार-सूक्ष्म-लेश-अवसर-मिलित-एकावल्यश्च भेदाः ।
 
समानमिति वस्त्वन्तराभिधानमौपम्यम् । तस्योपमोत्प्रेक्षादयो भेदाः । ते चोपमोत्प्रेक्षा-रूपकापह्नुति-संशय-समासोक्तिमतोत्तरान्योक्तिप्रतीयार्थान्तर-न्यासोभयन्यास-भ्रान्ति-मदाक्षेप-प्रत्यनीक-दृष्टान्तपूर्वसहोक्ति-समुच्चय-साम्यस्मरणानीति एकविंशतिः । यत्रार्थधर्मनियमः प्रसिद्धबाधाद्विपर्ययं याति । कश्चित्क्वचित् स्यादतिलोकमतिशयस्तस्य। तस्य च पूर्वविशेषोत्प्रेक्षाविभावना-तद्गुणाधिकविरोध-विषयासङ्गति-पिहित-व्याघातहेतवो भेदाः । यत्रैकार्थमनेकार्थैर्वाक्यं रचितं पदैरनेकस्मिन् । अर्थे कुरुते निश्चयमर्थश्लेषः स विज्ञेयः । तस्य चाविशेषविरोधाधिकवक्रव्याजोक्त्यवयवाः। अर्थस्य दोषास्तु -
 
'''<nowiki/>'अपहेतुरप्रतीतो निरागमो वाऽथ यन्न सम्बद्धः।'''
 
'''ग्राम्यो विरसस्तद्वानतिमात्रश्चेति दुष्टोऽर्थः॥''''
 
काव्याद्धि सरसानां चतुर्वर्गे सुखेनावगमः । तेन तत्सरसं स्यात् । नीरसे हि न कस्यचिदपि प्रवृत्तिः। रसाश्च काव्ये शृङ्गार-वीर-करुण-बीभत्स-भयानक-अद्भुत-हास्य-रौद्र-शान्त-प्रेयाः इति दश ।
 
'''रसनाद्रसत्वमेषा मधुरादीनामिवोक्तमाचार्यैः।'''
 
'''निर्वेदादिष्वपि तन्निकाममस्तीति तेऽपि रसाः।।'''
 
'''स्नेहप्रकृतिः प्रेयान् सङ्गतशीलार्यनायको भवति । इति ।'''
 
कथा हि द्विविधा उत्पाद्याऽनुत्पाद्या च । ते हि महान्तो येषु चतुर्वर्गः, चतुर्वर्गेष्वन्यतमो येषु ते लघवः । कथायां शास्त्रलोकमर्यादा नोल्लङ्घनीया ।
 
== व्याख्याः ==
काव्यशास्त्रस्य विशदरूपेण विवेचकः शास्त्रग्रन्थोऽयं नमिसाधुना ११२५ मितवैक्रमाब्दे व्याख्यातोऽस्ति । तत्पूर्वमपि ग्रन्थस्यास्य वृत्तिग्रन्थः प्रणीत आसीदिति नमिसाधोरेव -
 
'''पूर्वमहामतिविरचितवृत्यनुसारेण किमपि रचयामि।'''
 
'''सङ्क्षिप्ततरं रुद्रटकाव्यालङ्कारटिप्पणकम्।।<ref>Samskrit Kavicharitre of T.G. Kale, p. ५६</ref>'''
 
इति वचनाज्ज्ञायते । स च वृत्तिकृन्महामतिः सम्भवति रुद्रट एव स्यादिति। काव्यालङ्कारस्य काश्मीरकेण वल्लभदेवेन टीकाग्रन्थः प्रणीतः आसीदिति मन्यते। सम्भवति नमिसाधुनाऽस्यैव संक्षिप्तं रूपं प्रस्तुतं स्यात् । काव्यालङ्कारग्रन्थस्य व्याख्यानं [[वल्लभधरः]] [[आशाधरः]] च लिखितवन्तौ स्तः ।
 
== सम्बद्धाः लेखाः ==
"https://sa.wikipedia.org/wiki/काव्यालङ्कारः(रुद्रटविरचितः)" इत्यस्माद् प्रतिप्राप्तम्