"काव्यम्" इत्यस्य संस्करणे भेदः

ग्रन्तप्रकाराः
पङ्क्तिः २:
'''काव्यं''' (Kavyam) इत्येतत् साहित्यप्रकारः अस्ति । [[कविः|कवेः]] कर्म काव्यम् । कविः तु दार्शनिकः । काव्यस्य [[परिभाषाः]] अनेकाः सन्ति, किन्तु सर्वमान्या मुख्या परिभाषास्ति ''वाक्यं रसात्मकं काव्यम् '' इति । अर्थात् येन वाक्येन रसोत्पत्तिः भवति तत् काव्यम् इति कथ्यते। [[रस]], [[छन्द|छन्दोभिः अलङ्कारैः]] युक्तं काव्यम् आनन्दोत्पत्तिं करोति। रमणीयार्थप्रतिपदकं वाक्यं काव्यम् इति कथ्यते । '''कवितायाः''' (Kavita) [[परिभाषा]]ऽनेकाः सन्ति , किन्तु सर्वमान्या मुख्या परिभाषास्ति '' [[वाक्यं रसात्मकं काव्यम्]] ''अर्थात् येन वाक्येन रसोत्पत्तिः भवति तत् वाक्यं कविता इति कथ्यते। [[रस]],[[छन्द।छन्दालंकारैः]] युक्ता कविता आनन्दोत्पत्तिं करोति।
महात्मना [[तुलसीदास|तुलसीदासेन]] उक्तं यत् ---''कीरति भणिति भूति भलि सोई । सुरसरि सम सब कर हित होई।।'' अर्थात् येन काव्येन सर्वेषां जनानां हितं भवति तत् [[काव्यं]] [[साहित्यं]] कथ्यते। ''आनन्दो वै काव्यम्'' अर्थात् आनन्दः एव कवितायाः प्रथमं लक्षणमस्ति।
 
== काव्यग्रन्थानां प्रकाराः ==
 
काव्यशास्त्रप्रणाल्यां मुख्यतः पञ्चविधा ग्रन्था दृश्यन्ते। काव्यसर्वाङ्गविवेचकाः, कव्यालङ्कारमात्रविवेचकाः, ध्वनिसम्बद्धाः (समर्थकाः, विरोधिनः), रससम्बद्धाः, नाट्यसम्बद्धाः च।
 
दण्डिनः काव्यादर्शः, वामनस्य काव्यालङ्कारसूत्रवृत्तिः, रुद्रटस्य काव्यालङ्कारः, भोजस्य सरस्वतीकण्ठाभरणं, कुन्तकस्य वक्रोक्तिजीवितं, मम्मटस्य काव्यप्रकाशः, हेमचन्द्रस्य काव्यनुशासनम्, वाग्भटस्य वाग्भटालङ्कारः, वाग्भटस्य काव्यानुशासनम्, मलयजपण्डितस्य साहित्यसारः, जयदेवस्य चन्द्रालोकः, विश्वनाथस्य साहित्यदर्पण:, जगन्नाथस्य रसगङ्गाधरः काव्यसर्वाङ्गविवेचकाः ।
 
उद्धटस्य काव्यालङ्कारसङ्ग्रहः, अजितसेनस्य अलङ्कारचूडामणिः, राजराजस्य राजराजीयं, धर्मदासस्य विदग्धमुखमण्डनं, शोभाकरस्य अलङ्काररत्नाकरः, अप्यदीक्षितस्य कुवलयानन्दश्चित्रमीमांसा च विश्वेश्वरस्य अलङ्कारकौस्तुभः अलङ्कारप्रदीपः, अलङ्कारमुक्तावली च, नरसिंहाचार्यस्य अलङ्कारेन्द्रशेखरः, केशवस्य अलङ्कारशेखरश्चालङ्कारमात्रसम्बद्धग्रन्थाः।
 
आनन्दवर्धनस्य ध्वन्यालोकः, पुञ्जराजस्य ध्वनिप्रदीपः, मम्मटस्य शब्दव्यापारविचारः, अप्पयदीक्षितस्य वृत्तिवार्तिकञ्चेति ध्वनिसम्बद्धग्रन्थाः । भट्टनायकस्य हृदयदर्पणः, महिमभट्टस्य व्यक्तिविवेकः, मुकुलभट्टस्याभिधावृत्तिभर्तृका च ध्वनिपरिहारग्रन्थाः ।
 
रुद्रभट्टस्य शृङ्गारतिलकं, भानुदत्तस्य रसमञ्जरी, रसतरङ्गिणी च, शिवरामत्रिपाठिनो रसरत्नहारश्च रसमात्रसम्बद्धग्रन्थाः।
 
भरतस्य नाट्यशास्त्रं, धनञ्जयस्य दशरूपकं, सागरनन्दिनो नाटकलक्षणरत्नकोशः, रामचन्द्रगुणचन्द्रयोर्नाटयदर्पणः, विद्यानाथस्य प्रताप्ररुद्रयशोभूषणं, शारदातनयस्य भावप्रकाशनम्, रूपगोस्वामिनो नाटकचन्द्रिका च नाट्यग्रन्थाः ।
 
==काव्यविमर्शः==
==काव्यलक्षणम्==
"https://sa.wikipedia.org/wiki/काव्यम्" इत्यस्माद् प्रतिप्राप्तम्