"काव्यम्" इत्यस्य संस्करणे भेदः

सम्प्रदायाः
पङ्क्तिः १८:
 
रुद्रटस्य सहृदयलीला, क्षेमेन्द्रस्य कविकण्ठाभरणं, सुवृत्ततिलकमौचित्यविचारचर्चा च, राजशेखरस्य काव्यमीमांसा, अरिसिंहामरचन्द्रयोः काव्यकल्पलता, देवेश्वरस्य कविकल्पलता, विश्वेश्वरस्य कवीन्द्रकणभरणं रामानन्दस्य रसिकजीवनं च विचारग्रन्थाः।
 
== सम्प्रदायाः ==
[[रसः|रस]]<nowiki/>-[[अलङ्काराः|अलङ्कार]]<nowiki/>-[[रीतिसम्प्रदायः|रीति]]<nowiki/>-[[ध्वनिसम्प्रदायः|ध्वनि]]<nowiki/>-[[वक्रोक्ति]]<nowiki/>-[[औचित्यसम्प्रदायः|औचित्या]]<nowiki/>ख्याः षट् काव्यशास्त्रसम्प्रदायाः क्रमेण [[भरतः (नाट्यशास्त्रप्रणेता)|भरत]]<nowiki/>-[[भामहविवृतिः|भामह]]<nowiki/>-[[वामन]]<nowiki/>-[[आनन्दवर्धन]]<nowiki/>-[[कुन्तक]]<nowiki/>-[[क्षेमेन्द्र]]<nowiki/>समर्थिताः । तत्र रससम्प्रदायो हि काव्ये इतरतत्त्वोपेक्षयाऽपि रससिद्धिं वाञ्छति । "वाग्वैदग्ध्यप्रधानेऽपि रस एवात्र जीवितम्" इत्यस्य मार्गः । यद्यपि कमनीयमपि वपुः श्वित्रेणैकेन दुर्भगं भवति तथापि गुणसन्निपाते स्वल्पो दोषो न सङ्ख्यानाय भवति । सत्यपि सौन्दर्ये सर्वेषामेवाङ्गानां संयुक्तशक्तौ यथा तत्र वदनस्यैव प्रधान्यं भवति तथैव काव्यं हि रसगुणालङ्काररीतिप्रभृतिसंस्कृतशब्दार्थयोरेव भवति, किन्तु तत्र जीवतत्त्वं तु रस एव । गुणा हि रसस्यैव धर्माः, अलङ्कारा अपि तस्यैव शोभातिशयहेतवः । रीतयोऽपि तस्यैव साधिकाः।
 
अलङ्कारसम्प्रदायानुसारेण अलङ्कृतावेव शब्दार्थौ काव्यं न तु तद्धीनौ। न कान्तमपि निर्भूषं विभाति कामिनीमुखम् । निरलङ्कृतशब्दार्थयोः काव्यत्वमनुष्णस्यानलत्वमिव ।
 
रीतिवादनो हि पदरचनाकौशलमेव काव्यस्य जीवतत्वं मन्यन्ते, विशिष्टपदरचना रीतिः । वैशिष्टयञ्च गुणात्मकतया।
 
ध्वनिप्राधान्यवादिनां मते ध्वनिरेव काव्यस्यात्मा। तस्य हि शब्दार्थौ शरीरं गुणा हि काव्यात्मनो ध्वनेर्धर्माः, अलङ्कारास्तु भूषणान्येव; रीतिरपि तस्यैव निर्वाहिका।
 
वक्रोक्तिवादिनां मते वैचित्र्यभङ्गिभणितिरेव काव्यस्यात्मा । इतराणि तु तस्याङ्गान्येव।
 
औचित्यवादिमते सर्वेषामेव समन्वितमौचित्यमेव काव्यस्य साधकं भवति । अनौचित्यादृते नान्यद्रसभङ्गस्य कारणम् ।
 
वस्तुतस्तु विभागोऽयं न पारमार्थि कोऽपि तु केवलमोपाधिक एव । रसत्वं काव्यात्मकत्वं न हि कोऽपि परिजिहीर्षति । रस एव काव्यस्य जीवितं गुणालङ्काररीतयस्तु तदुत्कर्षहेतव एव । अलङ्कारा अपि रसमेवालङ्कुर्वन्ति किञ्चात्मैवालङ्कार्यो भवति । रीतिवादिनां मतेऽपि पदरचनाया वैशिष्ट्यं गुणात्मकयैव । गुणाश्च रसस्यैव धर्मा इति रससाधकस्यैव रचनाविशेषस्य काव्यत्वं भवति । वक्रोक्तेरपि साध्यं तु रस एव । ध्वनिरपि यद्यपि वस्त्वलङ्काररूपोऽपि भवति तथापि तस्य काव्यात्मत्वं रसापेक्षयैव भवति । तेन हि पर्यवसायितया रसादिध्वनेरेव काव्यात्मत्वं सिध्यति । नितान्तानौचित्ये हि न रससिद्धिः । अत एव साम्प्रदायिकविभागः केवलमौपाधिकः । रस एव काव्यस्यात्मा।
 
==काव्यविमर्शः==
"https://sa.wikipedia.org/wiki/काव्यम्" इत्यस्माद् प्रतिप्राप्तम्