"काञ्चनजुङ्गा" इत्यस्य संस्करणे भेदः

काञ्चनजुङ्गाशिखरः विश्वस्य उन्नतेषु शिखरेषु तृतीयस्थाने वर्तते। नेपाळदेशस्य, भारतस्य सिक्कि
काञ्चनजुङ्गाशिखरः विश्वस्य उन्नतेषु शिखरेषु... नवीनं पृष्ठं निर्मितमस्ति
(भेदः नास्ति)

१०:३६, २ नवेम्बर् २०१८ इत्यस्य संस्करणं

काञ्चनजुङ्गाशिखरः विश्वस्य उन्नतेषु शिखरेषु तृतीयस्थाने वर्तते। नेपाळदेशस्य, भारतस्य सिक्किं राज्यस्य च मध्ये अयं शिखरः अस्ति। समुद्राद् ८५८६ मीटर्(२८,१६९ फीट्) उपरि काञ्चनजुङ्गाशिखरः स्थितः। एतस्य पश्चिमे तामूर् नदी उत्तरे च लोनाक् चु नदी प्रवहति। काञ्चनजुङ्गा इति पदस्यार्थः हिमस्य पञ्च धनागाराः इति। काञ्चन्जुङ्गापर्वतं लिम्बुभाषया सेवालुङ्ग्म इति कथयन्ति। तस्यार्थः भवति हिमालयं नमामः इति। किरन्त्जनाः काढ्जनजुङ्गा शिखरम् अत्यन्तं पवित्रं मन्वते।

डार्जलिङ्तः काञ्चनजुङ्गायाः दृश्यम्

व्युत्पत्तिः

काञ्चनजुङ्गायाः पञ्चसु शृङ्गेषु त्रयः भारतस्य सिक्किं राज्ये, द्वौ च नेपाळस्य टापल्जुङ्ग् राज्ये वर्तन्ते। नेपाळे काञ्चनजुङ्गाशिखरस्य रक्षणार्थं बह्व्यः योजनाः विद्यन्ते। काञ्चनजुङ्गापरिसरे अभयारण्यमपि वर्तते, यत्र यत्र रक्तवर्णीयाः पाण्डाप्राणिनः आधिक्येन निवसन्ति। अभयारण्यस्य नाम काञ्चनजुङ्गा नाशनल् पार्क् इति। काञ्चनजुङ्गायाः काञ्चनड्जोङ्गा, काञ्चनजङ्गा, काञ्चनफङ्गा इत्यादीनि बहूनि नामान्तराणि आसन्। लेफ्टिनेण्ट् कर्नल् जे.एल्.आर्.वैरेण काञ्चनजुङ्गा इति नाम्नः प्रतिष्ठापनमकरोत्।

प्रामुख्यम्

क्रि.श १८५२ पर्यन्तं काञ्चनजुङ्गाम् एव विश्वस्य उन्नततमं शिखरं मन्वते स्म। परं १८४९ तमे वर्षे आरब्धस्य सर्वेक्षणस्य आधारेण काञ्चनजुङ्गा विश्वस्य तृतीयः उन्नतः शिखरः इति उद्घोषितः। १९५५ तमे वर्षे प्रथमवारं काञ्चनजुङ्गा पर्वतस्य आरोहणम् इङ्ग्लेण्ड् देशीयैः जो ब्रौन् एवं जार्ज् ब्याण्ड् इत्याभ्यां कृतम्। डार्जलिङ् तः काञ्चनजुङ्गाशिखरं प्रवासिनः पश्यन्ति। काञ्चनजुङ्गा शिखरपरिसरे एव जन्नु, कब्रु, राथोङ्ग् पर्वतशिखरानपि द्रष्टुं शक्नुमः। यदा वातावरणं प्रशान्तं मेघतुषाररहितं च भवति तदा डार्जलिङ्ग्तः दृश्यमानः पर्वतः आकाशलम्बितभित्तिः इव भासते। सिक्किं जनाः काञ्चनजुङ्गा पर्वतं भयानकं मन्यन्ते। भारतभूभागाद् पर्वतारोहणार्थं सर्वेभ्यः अनुमतिः न दीयते।

आरोहणस्य इतिहासः

  • जोसेफ् डाल्टर् इत्याख्यः प्राथम्येन काञ्चनजुङ्गा प्रदेशं युरोप् जनेभ्यः १८४८ तमे वर्षे परिचायितवान्।
  • १८५५ तमे वर्षे जर्मनीदेशस्य हेर्मन् वान् श्लागैण्ट् वेटः भारतसर्वेक्षणार्थं नियुक्तः काञ्जनजुङ्गाशिखरसमीपं गन्तुम् इष्टवान् परन्तु नेपाळसैन्येन अवरोधः कृतः।[१]
  • १८८२ तमे वर्षे हिमालयपर्वतारोही इङ्ग्लेण्ड् देशीयः डब्ल्यु डब्ल्यु ग्राहमः भूप्रदक्षिणावसरे केचन पर्वतं आरोहन्तः, आखेटनिरताश्च जनाः दृष्टाः इत्यवोचत्।
  • १८९९ तमे वर्षे डागल्स् फ्रेश्फील्डः पर्वतारोहणं आरब्धवान्। सः काञ्चनजुङ्गायाः पश्चिममुखम् अपश्यत्।
  • १९०५ तमे वर्षे अलिस्टर् क्रूलिः एवं डा.जूल्स् ज्याकोट् गिल्लार्मोड्रः एदं प्रथम्येन आरोहणं कृतवान्तौ। एतौ ६५०० फीट् उपरि आरोहणं कृतवन्तौ। परन्तु शिखरं प्राप्तुं ते असमर्थाः। हिमपातेन द्वौ कर्मकरौ मृतौ। एतेन खिन्नः क्रूलिः पर्वतारोहणं स्थगितवान्।[२]
  • १९२९ तमे वर्षे बाल् पाई आरोहणणमारभ्य झञ्झावातकारणतः प्रत्यागतवान्।
  • १९३० तमे वर्षे इण्टर्नाशनल् एक्पीडिशन् इति नाम्ना उलि विल्याण्ड्, इर्विन् स्पैडर्, फ्राङ्क् स्मित् इत्यादिभिः आरब्धम् आरोहणं हिमपातेन स्थगितम्। १९३१ तमे वर्षेऽपि यात्रामारभ्य हिमपातादिकारणैः स्थगनम् कृतम्।
  • १९५४ तमे वर्षे काञ्चनजुङ्गायाः दक्षिणपार्श्वतः जान् केम्पे, जे. डब्ल्यु टक्कर्, रोन् ज्याक्सन्, ट्रेवर् ब्राहम्, जे. सि लविस्, डा. डि. एस् म्याथिव् इत्येते आरूढवन्तः इदमारोहणं यशस्वि सञ्जातम्। एतेन मार्गेण १९५५ तमे वर्षे मे २५ तमे दिनाङ्के प्राथम्येन जार्ज् ब्याण्ड् तथा जो ब्रौनेन आरोहणं विहितम्।
  • १९९२ तमे वर्षे कालोस् कार्सेलियो पूरक-आम्लजनकसाहाय्यं विना पर्वतारोहणम् अकरोत्।[३]
  • १९९८ तमे वर्षे जिनट्टे ह्यारिसन् शिखरम् आरूढवती। एषा शिखरारोहणं कृतवतीषु महिलासु आद्या।

प्रथाः

काञ्चनजुङ्गा पर्वते काञ्चनजुङ्गा इति राक्षसः वसति स्म इति जनाः विश्वसन्ति। १९२५ तमे वर्षे आरोहणावसरे द्विपादीयप्राणिविशेषस्य अवशेषः दृष्टः। एषः एव काञ्चनजुङ्गाराक्षसः इति स्थानीयाः विश्वसन्ति।

ग्रन्थेषु उल्लेखः

•रन् सोमे इत्यनेन लिखिते अमेझान् पर्वतविषयके पुस्तके क्वचित् एकस्मिन् अध्याये काञ्चनजुङ्गापर्वतशिखरः वर्णितः। •१९२६ तमे वर्षे प्रकाशिते सर् फ्रान्सिस् यङ्स्टण्ट् इत्यनेन रचिते मौण्ट् एवरेस्ट् इति पुस्तके, डार्जलिङ् नगरस्य शोभायै काञ्चनजुङ्गा एव कारणम् इति वर्णितम् अस्ति। •१९९९ तमे वर्षे रय्मण्ड् बेन्सस् है जेम्स् बाण्ड् सरण्यां हैम् टु किल् इति कथां प्राकाशयत्। तत्र जेम्स्बाण्ड् काञ्चनजुङ्गा पर्वतम् आरोहति इति कथा ग्रथिता। •२००६ तमे वर्षे प्रकाशितायां, किरणदेसाई इत्यस्याः बूकर् पुरस्कृतकृतौ, दि इन्हेरिटेन्स् आफ् लास् इत्यस्यां काञ्चनजुङ्गायाः गिरिधाम्नः कलिंफोम् इति स्थलस्य निर्देशः वर्तते।

 
टैगर् हिल्तः काञ्चनजुङ्गा
 
काञ्चनजुङ्गायाः मापचित्रम्.
 
काञ्चनजुङ्गायाः उत्तरभागः
 
सिक्किंतः काञ्नजुङ्गा
 
गोयेचन् ला तः काञ्चनजुङ्गा 4,940 ಮೀ.
 
काञ्चनजुङ्गायाः पूर्वभागः

उल्लेखाः

बाह्यसम्पर्काः

जोसेफ् हूकरस्य लेखाः
अलेस्टर् क्रौलेलेखाः
काञ्चनजुङ्गायाः इतिहासः.
काञनजुङ्गायाः उन्नते शिखरे 
सिक्किंप्रदेशतः आरोहणस्य मापचित्रम्
नेपाळतः आरोहणस्य मापचित्रम्
दि हिन्दु पत्रिकालेखः
दि अल्फेन्स् क्लब् काञ्चनजुङ्गा
"https://sa.wikipedia.org/w/index.php?title=काञ्चनजुङ्गा&oldid=438910" इत्यस्माद् प्रतिप्राप्तम्