"अभिज्ञानशाकुन्तलम्" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
कथायाः पृष्ठभूमिः
पङ्क्तिः २३:
ग्रन्थारम्भे सूत्रधारेण पात्राणां अवधानोपदेशार्थम् उक्तेसति '''सुविदितप्रयोगतयार्थस्य न किमपि परिहास्यते''' इति नटीवचनं श्रुत्वा सूत्रधारमुखेन महाकविः भूतार्थं कथयति – प्राज्ञानां सन्तोषपर्यन्तम् अभिनयकौशलं समीचीनं न स्वीकरोमि । कृताभ्यासानां निपुणानामपि सुदृढं चित्तं स्वविषये अविश्वस्तं भवति । ईदृशः वाग्व्यवहारः महाकवेः गुण-गौरवमेव प्रथयति ।
 
==कथायाः पृष्ठभूमिः==
==कथा==
पुरुवंशस्य राजा [[दुष्यन्तः]] कदाचित् मृगयां कुर्वन् अटव्यां हरिणं अनुधावन् मालिनीतीरे विद्यमानस्य [[कण्वः|कण्व]]स्य आश्रमं प्रविशति । कण्वः फलपुष्पाणि आनेतुं गत इत्यतः काचित् सुन्दरी तापसकन्या तस्मै स्वागतं करोति । अर्घ्यपाद्यादिभिः सत्करोति सा । तस्याः रूपेण मोहितः दुष्यन्तः स्वपरिचयं तस्यै कुर्वन् तां प्रति - त्वं क्षत्रियोऽसि ? त्वां प्रति मम मनः आकर्षति । अहं त्वां कामये इत्यवदत् । [[शकुन्तला]] तु - अहं मेनकाविश्वामित्रयोः पुत्री इति, ताभ्यां यदा परित्यक्ताहं शकुन्तपक्षिभिः रक्षिता इति, ततः कण्वमहर्षिः वने मां दृष्ट्वा आश्रमं प्रति आनीय पोषितवान् इति । शकुन्तपक्षिभिः रक्षिता अहं शकुन्तला इति नामधेयं प्राप्नवम्। यदि मां वोढुं वाञ्छसि तर्हि कण्वमहर्षेः अनुमतिः अपेक्षिता इत्यादिकं सर्वं वृत्तान्तम् अकथयत् । <br />
दुष्यन्तः तु क्षत्रियाः गान्धर्वविधिना परिणेतुं शक्नुवन्ति । तदर्थं कण्वस्य आक्षेपः न स्यादिति, त्वयि जायमानमेव उत्तराधिकारिरूपेण ताम् अङ्गीकारयित्वा तस्याः पुत्रमेव युवराजं करिष्यामि इति प्रतिश्रुण्वानः तां परिणीतवान् । अग्रे तस्यै राजयोग्यानि वेषभूषणानि सेवकद्वारा प्रेषयामि इति उक्त्वा कण्व मम विषये किं वदेत् इति चिन्तयन्नेव स्वनगरं प्रायात्।<br />
"https://sa.wikipedia.org/wiki/अभिज्ञानशाकुन्तलम्" इत्यस्माद् प्रतिप्राप्तम्