"चन्द्रशेखर वेङ्कटरामन्" इत्यस्य संस्करणे भेदः

 
पङ्क्तिः ३३:
 
'''चन्द्रशेखर वेङ्कटरामन्''' (तमिळ् சந்திரசேகர வெங்கடராமன்) (जीवितकालः - क्रि.श. १८८८तः १९७०पर्यन्तम्) कश्चन प्रख्यातः भारतीयः भौतशास्त्रज्ञः । १९३० तमे वर्षे तेन नोबेल्पुरस्कारः प्राप्तः । [[एशियाखण्डः|एशियाखण्डे]] एव [[नोबेल् प्रशस्तिः|नोबेल्-पुरस्कारं]] प्राप्तवान् प्रथमः विज्ञानी अयम् । पारदर्शकवस्तुनः द्वारा प्रकाशः यदा सञ्चरति तदा व्याकुञ्चितस्य प्रकाशस्य तरङ्गदैर्घ्यं परिवर्त्यते इत्येतत् 'रामन्-परिणामः' इति कथ्यते । एतस्य संशोधनाय एव तेन नोबेल्पुरस्कारः प्राप्तः ।
तस्‍य जन्‍म दक्षिणभारतस्‍य तिरुचिरापल्‍लीनामके स्‍थाने अभवत्‌। अध्ययनस्य पश्चात् एषः राजकीयवित्तविभागे कार्यम् अकरोत्‌। [[आशुतोष मुखोपाध्‍यायः]] तं कोलकत्ताम्‌ अनयत्‌। प्रकाशस्य प्रकीर्णविषये उत्कृष्टकार्यनिमित्तं क्रि.श. १९३०तमे वर्षे श्रेष्ठतमः नोबेल्पुरस्कारः प्रदत्तः । अस्य परिशोधनं तु अस्य नाम्नि एव रामन् प्रभावः इत्येव प्रसिद्धम् अस्ति । तस्य 'रामन् प्रक्रियायाः'<ref>{{cite web | url=http://www.nobelprize.org/nobel_prizes/physics/laureates/1930/raman-bio.html | title=Sir Venkata Raman - Biographical | accessdate=29 मार्च 2014}}</ref> शोधनदिनाङ्क: (फ़ेब्रवरिमासस्य २८तमदिनम्)। अद्य भारते 'राष्ट्रियविज्ञानदिनम्' इति आचरन्ति z
==बाल्यं, विद्याभ्यासश्च==
वेङ्कटरामः तमिलुनाडुराज्ये तिरुचिरपळ्ळिमण्डले तिरुवानैकावल्प्रदेशे जातः । पिता आर् चन्द्रशेखर ऐय्यर्, माता पार्वती अम्माळ् च । पञ्चसु पुत्रेषु अयं द्वितीयः । लघुवयसि एव रामः [[आन्ध्रप्रदेशराज्यम्|आन्ध्रप्रदेशस्य]] विशाखपत्तनं प्रति गतः । तत्र सैण्ट् अलोशियस् आङ्ग्लो-इण्डियन् प्रौढशालायाम् अपठत् । तस्य पिता मदरासुनगरस्थे प्रेसिडेन्सीमहाविद्यालये गणित-भौतशास्त्रयोः प्राध्यापकः आसीत् । रामः स्वस्य त्रयोदश्यां वयसि १९०२ तमे वर्षे इमं महाविद्यालयं प्राविशत् । १९०४ तमे वर्षे बि ए परीक्षां प्रथमस्थानेन उत्तीर्णः, भौतशास्त्रे स्वर्णपदकं प्राप्तवान् च । १९०७ तमे वर्षे तेन अत्युत्तमैः अङ्कैः स्नातकोत्तरपदवी प्राप्ता ।
"https://sa.wikipedia.org/wiki/चन्द्रशेखर_वेङ्कटरामन्" इत्यस्माद् प्रतिप्राप्तम्