"बेङ्गळूरु" इत्यस्य संस्करणे भेदः

पङ्क्तिः ७९:
 
== शब्दव्युत्पत्तिः ==
[[पुराणम्|पुराणेषु]] अस्य नगरस्य नाम कल्याणपुरी अथवा कल्याणनगरी इति उल्लिखितं ह्श्यते । आङ्ग्लेयानाम् आगमनानन्तरम् अनेन नगरेण 'बेङ्गलूरु’ इति नाम प्राप्तम् । बेङ्गलूरु समीपे प्राप्तेन शिलालेखेन ज्ञायते यत् -[[१००४]] वर्षपर्यन्तम् एतत् बेङ्गलूरुनगरं 'गङ्ग’राजवंशस्य शासनान्तर्गतम् आसीत् । [[१०१५]] तः [[१११६]] वर्षपर्यन्तं तमिळुनाडुराज्यस्य चोलवंशीयाः अत्र शासनम् अकुर्वन् । अनन्तरम् अत्रत्यं शासनं 'होयसल’राजवंशीयानां हस्तगतं जातम् । एवं मन्यते यत् आधुनिकबेङ्गलूरुनगरस्य संस्थापनं [[१५३७]] तमे वर्षे विजयनगरसाम्राज्यस्य परिवर्तनकाले सञ्जातम् इति । विजयनगरसाम्राज्यस्य पतनानान्तरं बेङ्गलूरुनगरस्य शासनाधिकारः बहुवारं परिवर्तितः । अन्ते [[१७९९]] तमे वर्षे जाते चतुर्थे आंगलो-[[मेसूरु]]-युध्दे टिप्पुसुल्तानस्य मरणानन्तरं बेङ्गलूरुनगरस्य शासनम् आङ्ग्लेयानां हस्तगतम् । ते अत्रत्यं शासननियन्त्रणाधिकारं [[मैसूरु]]महाराजेभ्यः अयच्छन् । ततः तेषां मैसूरुमहाराजानां राजधानी [[१८३१]] तमे वर्षे बेङ्गलूरुनगरं सञ्जातम् । ११ शतके होयसलराजा द्वितीयः वीरबल्लालः कदाचित् मृगयार्थं गतः मर्गभ्रष्टः भवति अरण्ये । तत्र सः कस्याश्चित् वृद्धायाः कुटीरं प्राप्नोति । तदा सा पंक्तांनि धान्यानि भोजयति तम् । अतः कृतज्ञतापूर्वकं तस्य स्थानस्य नाम 'बेन्द-काळूरु’ इति कृतं तेन राज्ञा । (Benda-पक्तांनिपक्वानि kaloo-धान्यानि = Benda-kalooru) तदेव नगरं कालान्तरे 'बेङ्गलूरु’ जातम् इत्यपि श्रूयते ।खतं
 
बेङ्गळूरु बेङ्घो बेङ्खितं
"https://sa.wikipedia.org/wiki/बेङ्गळूरु" इत्यस्माद् प्रतिप्राप्तम्