"मदनमोहन मालवीय" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ३०:
मदनमोहनस्य पिता व्रजनाथः [[श्रीमद्भागवतपुराणम्|श्रीमद्भागवतं]] (कृष्णलीलाः - कृष्णभक्तानां गाथाः) पठित्वा विवृण्वन् जीवनं यापयति स्म । एतेन एव ज्ञायते यत्, ते कियता कष्टेन जीवनं यापयन्ति स्म इति । अश्रद्धम् आराधयतः जनान् भगवान् कदापि न त्यजति इति गाढः विश्वासः तस्यासीत् । एषः निर्धनब्राह्मणः स्वजीवनभाग्यं सर्वं भगवतः हस्ते न्यस्तवान् आसीत् ।
 
मदनमोहनस्य पितामहः पण्डितः प्रेमधरः स्वर्गस्थः अभवत् । सम्प्रदायानुगुण्येन पितुः और्ध्वदैहिककर्माणि पवित्रे गयाक्षेत्रे समापितवान् पण्डितः व्रजनाथः । तदा व्रजनाथं गुरवः उक्त्वन्तः "किमपि प्रार्थयतां, भगवान् ददाति, वयमपि आशिषः दद्मः" इति । हस्तद्वयेन अञ्जलिं बद्धवा प्राङ्गमुखः पण्डितः व्रजनाथः प्रार्थितवान् "भगवान् ! महयम्मह्यम् एकं पुत्रम् अनुगृह्णातु । तत्सदृशः अन्यः न स्यात् न भवेत् च" इति ।
 
पण्डितस्य व्रजनाथस्य प्रार्थनाः सफलाः । १८६१ संवत्सरे, डिसेम्बर् २५ दिनाङ्के आहियापुरे पण्डितमदनमोहनमालवीयः जातः (आहियापुरम् ग्रामः इदानीं मालवीयनगरम् इति प्रसिद्धम्) । मोहनस्य माता मूनादेवी ।
"https://sa.wikipedia.org/wiki/मदनमोहन_मालवीय" इत्यस्माद् प्रतिप्राप्तम्