"रामः" इत्यस्य संस्करणे भेदः

पङ्क्तिः ३६:
 
== सीताहरणम् ==
वनवाससमये शूर्पणखायाः सह अपमानकारणात् [[रावणः|रावणेन]] [[सीता]]याः अपहरणं कृतम् । [[रावणः]] दैत्यराजः लंकायाः अधिपतिरासीत् । [[रामायणम्|रामायणानुसारं]] यदा [[सीता]] स्वाश्रमे मृगशिशुं पश्यति तदा सा मृगस्योपरि मुग्धा जाता ,तदा मृगस्य वाणीं श्रुत्वा [[सीता]] उद्विग्ना जाता । सः मायावी मृगः [[रावणःरावणस्यरावणः|रावणस्य]] मातुलः आसीत् ।
तेनैव रावणस्य कथनानुसारं मृगरूपं धारितः। सा रामं तमानेतुं कथयति । रामःमृगमानेतुं गच्छति,लक्ष्मणं च सीतारक्षणे नियुज्य गच्छति । [[सीता]] [[लक्ष्मणः]] च यदा कुटीरे आस्ताम् । तदा [[मारीचः]] रामं बहुदूरं नीतवान् । समये प्राप्ते रामेण शरसंधानं कृतम् । मारीचः उच्चैः ‌- हे सीते ! हे लक्ष्मण ! उक्तवान्। तत्छ्रुत्वा [[सीता]] चिन्ताग्रस्ता जाता, सा लक्ष्मणं रामस्य रक्षणाय गन्तुं कथयति । [[लक्ष्मणः]] सीतां अवबोधयति परं [[सीता]] न किंचित् शृणोति । अन्ततः [[लक्ष्मणः]] राममानेतुं गच्छति । गमनसमये सः एकां रेखाम् आकारयति,ततः अग्रे आगन्तुं सीतां वारयति। ततः [[रावणः]] भिक्षुरूपेण तत्रागत्य सीतां रेखामुल्लङ्घयितुं कथयति । सा तथैवाचरति । येन [[रावणः]] [[सीता]]मपहरति ।
 
"https://sa.wikipedia.org/wiki/रामः" इत्यस्माद् प्रतिप्राप्तम्