"अद्वैतवेदान्तः" इत्यस्य संस्करणे भेदः

अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
आस्य इत्येनं अस्य इति कृतम्
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः १:
[[File:Shri Shankaracharya.jpg|thumb|150px|[[शङ्कराचार्यः]]]]
'''अद्वैतवेदान्तः''' (Advaita Vedanta) [[भारतीयदर्शनशास्त्रम्|दर्शनेषु]] अन्यतमः। न द्वैतम् अद्वैतम् । [[ज्ञानम्|ज्ञानस्य]] चरमस्थितिरेव अद्वैतमित्युच्यते । [[शङ्कराचार्यः|शङ्कराचार्याणाम्]] आगमनात् प्रागपि अद्वैतसिद्धान्तः आसीत् । परन्तु शङ्कराचार्याणाम् आगमनानन्तरं प्रसिद्धिं गतम् एतत् दर्शनम् ।
आस्यअस्य मतस्य प्रवर्तकः [[शङ्कराचार्यः]] । अद्वैतदर्शनं [[शङ्कराचार्यः]] [[प्रस्थानत्रयम्|प्रस्थानत्रयेण]] [[श्रुतिः|श्रुति]] [[स्मृतयः|स्मृति]] [[सूत्रम्|सूत्रैः]] समर्थितवान् अस्ति। अतः अस्य दर्शनस्य "शाङ्करदर्शनम्" इत्यपि प्रसिद्धिः अस्ति। अस्मिन् दर्शने जीवब्रह्मणोः ऐक्यं प्रतिपादयन्ति। प्रपञ्चे जीवभावङ्गतस्य विवेकिनः प्रत्येकपुरुषस्य धर्मार्थकाममोक्षाख्याः चत्वारः पुरुषार्थाः सन्ति ।
चतुर्षु एतेषु आद्यास्त्रयः पाञ्चभौतिकेऽस्मिन् प्रपञ्चे भौतिकस्य जीवस्य कृते इहफलभोगत्वेन विहिताः भवन्ति । अन्तिमः मोक्षः परमसुखात्मकः इति कथनात् अयं परमपुरुषार्थः भवति । चतुर्णामेतेषां चतुर्वर्गत्वेन व्यवहारः। वर्गचतुष्टये आद्यास्त्रयः तत्तत्पुरुषमत्यनुसारम् उत्पन्नत्वात् एतेषाम् अनित्यत्वम् उच्यते । अन्तिमत्वेन निर्विशेषात्मकं सुखं प्राप्यते इत्यतः [[मोक्षः]] नित्यः इति शास्त्रेषु गीयते। नित्यभूतस्यास्य मौक्षस्वरूपस्य प्राप्त्यर्थं विभिन्नाः दर्शनकाराः भिन्नभिन्नप्रकारेण स्वमतं व्याचक्षुः । वेदान्तशास्त्रे केवलमात्मस्वरूपं प्रतिपाद्यते इति हेतोः मुमुक्षुः वेदान्तशास्त्रपठनश्रवणमननादिषु प्रवृत्तो भवति । तस्मात् एतत् शास्त्रं सर्वेषां शास्त्राणां शिरोमणिभूतं भवति । अस्मिन्नपि शास्त्रे [[आत्मा|आत्मनः]] स्वरूपप्रतिपादनं महता विस्तरेण प्रतिपादितमस्ति । यत्र समस्तवेदमन्त्राणां लक्ष्यत्वेन अन्तिमं तत्त्वमेकं वर्णितं भवति तत् वेदान्तशास्त्रमित्युच्यते ।<br />
[[उपनिषदः|उपनिषन्मन्त्रसमूहस्यापि]] [[वेदान्तः]] इति संज्ञा, यतः समस्तवेदानां परमलक्ष्यात्मकं तत्त्वमुपनिषन्मन्त्रेषु निगदितमस्ति । परिदृश्यमानस्य चराचरात्मकस्य सकलप्रपञ्चस्य सृष्टिकर्तृत्वेन मूलकारणं यद् [[ब्रह्म]], तस्य सम्पूर्णं विवेचनात्मकं ज्ञानमुपनिषत्स्वेव लभ्यते, एवमन्यत्र न प्राप्यते । अतः वेदानामन्तिमं रहस्यमुपनिषदि कथितत्वात् [[उपनिषदः|उपनिषत्]] वेदान्तत्वेन आद्रियते । उक्तं च वेदान्तो नाम उपनिषत्प्रमाणम् इति । परन्तु उपनिषत्सु अत्यन्तरहस्यत्वेन गूढतमभावाः सन्तीति कृत्वा उपनिषदर्थं सर्वैः ज्ञातुं न शक्यते । सर्वेषां सम्यगवबोधनाय परमकारुणिकः वेदव्यासः उपनिषत्सारभूतानाम् अर्थान् एकीकृत्य सूत्ररूपेण प्रणिनाय । यानि इदानीं गीयन्ते ब्रह्मसूत्राणि अथवा वेदान्तसूत्राणि इति । ब्रह्मसूत्रात्मकः भागः अत्यल्पः, अथापि महत्वपूर्णः इति कृत्वा एतेषां सूत्राणां व्याख्याने आहत्य एकादशजनाः स्वजन्म समर्पितवन्तः ।
 
==तत्त्वानि==
अद्वैतवेदान्तस्य तत्त्वानां निरूपणे वैशिष्ट्यम् अस्ति । ब्रह्मतत्त्वमेव परमार्थः । अस्य परमार्थस्य भिन्नपरमार्थः नास्तीत्यतः एव अद्वैतसिद्धान्तः इति विख्यातः अस्ति । '''ब्रह्मसत्यं जगन्मिथ्या जीवो ब्रह्मैव नापरः''' इति अस्य सिद्धान्तः । तर्हि जगत्, जीवः नास्ति किम् ? एतौ न परमार्थौ । केवलम् अध्यासेन भासेते । अतस्मिन् तद् बुद्धिः अध्यासः इति । वेदान्तनये अपि तत्त्वानि भविष्यन्ति । तद्यथा- ब्रह्म, सगुणब्रह्म, निर्गुणब्रह्म, सोपाधिकः, सर्वज्ञः, परमेश्वरः, जीवः, जीवस्वरूपम्, आत्मनः स्वयंज्योतिष्ट्वम्, जीवात्म-परमात्मनोः ऐक्यम्, तयोः जीवात्मपरमात्मनोः अभेदप्रतिपादनम्, मायोपाधिना ईश्वरः, अविद्योपाधिना जीवः इति प्रतिपादनम्, अविद्या, माया उपाधिः, संसारस्य अनादित्वम्, सृष्टिः, जगत्, सृष्टिविषये ब्रह्मणः उपादानकारणत्वम्, निमित्तकारणत्वम्, प्रपञ्चमिथ्यात्वम्, जाग्रत्स्वप्नसुषुप्त्याद्यवस्थानां प्रतिपादनम्, स्वप्नदृष्टान्तः, पञ्चमहाभूतानां विवेचनम्, पञ्चज्ञानेन्द्रियाणि, एवमन्तःकरणस्योत्पत्तिः, पञ्चकर्मेन्द्रियाणि, तथा प्राणस्योत्पत्तिः, स्थूलशरीरम्, लिङ्गशरीरम्, कारणशरीरम्, सत्तात्रैविध्यम्, ब्रह्मणि पञ्चभूतानां लयः, सृष्टेः पूर्वं ब्रह्मणः स्वरूपप्रतिपादनमित्यादीनि तत्त्वानि प्रतिपादितानि, एवं तेषां तत्त्वानां स्वरूपविवेचनमपि सम्यक् प्रसाधितम् ।
"https://sa.wikipedia.org/wiki/अद्वैतवेदान्तः" इत्यस्माद् प्रतिप्राप्तम्