"नागौर" इत्यस्य संस्करणे भेदः

अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
(लघु) Reverted 1 edit by 49.206.4.55 (talk) to last revision by Tulsi Bhagat. (SWMT)
अङ्कनम् : किए हुए कार्य को पूर्ववत करना
पङ्क्तिः १०२:
 
=== नागौर-प्रदेशस्य विभागद्वयम् ===
पञ्चदश्यां शताब्द्यां नागौर-नगरस्य साम्राज्ये शम्स् खाँ दन्दानी इत्यस्य अधिकारः अभवत् । शम्स् खाँ दन्दानी इत्येषः [[गुजरातराज्य]]<nowiki/>स्य शासकस्य जाफर खान इत्यस्य अनुजः आसीत् । शम्स् खाँ इत्येनेन नागौर-प्रदेशस्य जलाज खाँ खोखन इत्याख्यं शासकं पराजित्य नागौर-प्रदेशस्य शासनम् अपाहृतम् । १४११ ख्रीष्टाब्दात् शम्स् खाँ इत्येषः महाराणा मोकल इत्येनन सह युद्धरतः आसीत् । शम्स् खाँ इत्यस्य मरणोत्तरं तस्य पुत्रः फीरोज खाँ नागौर-प्रदेशस्य शासकः अभवत् । ततः फीरोज खाँ इत्येषः अपि महाराणा मोकल इत्येनेन सह युध्यमानः आसीत् । i am lohith
 
१४२८ ख्रीष्टाब्दे रचिते ॠङ्गिशिलालेखे उल्लेखः प्राप्यते यत्, महाराणा मोकल इत्यस्मात् फीरोज खाँ इत्येषः पराजितः इति <ref>राजपूताना म्यूजियम् अजमेर रिपोर्ट्, ई. १९२४-२५, क्र. ६, पृ. ३</ref> । फीरोज खाँ इत्यस्य पराजयानन्तरं महाराणा मोकल इत्येनेन पुष्करक्षेत्रे सुवर्णतुलादानं कृतम् आसीत् । फीरोज खाँ इत्येषः स्वपराजयस्य प्रतिशोधाय हिसारप्रदेशीयेन ताज खाँ इत्येनेन, अहमद खाँ इत्यनेन च सह सन्धिम् अकरोत् । ततः फिरोज खाँ इत्येषः महाराणा मोकल इत्यस्योपरि आक्रमणम् अकरोत् । तस्मिन् युद्धे महाराणा मोकल इत्यस्य पराजयः अभवत् । मोकल इत्यस्य पराजयेन तस्य सेनायाः हस्तिषु, अश्वेषु च आक्रमणकारिणाम् आधिपत्यम् अभवत् <ref>क्यामखां रासा, पृ. १८</ref> । महाराणा मोकल इत्यस्य [[गजः|हस्तिनाम्]], [[अश्वः|अश्वा]]<nowiki/>नां च विभाजनकाले ताज खाँ, फिरोज खां इत्येतयोः मध्ये युद्धम् अभवत् । तस्मिन् युद्धे फीरोज खाँ इत्यस्य मृत्युः अभवत् । ततः फीरोज खाँ इत्यस्य अनुजः मुजाहिद खाँ इत्येषः नागौर-प्रदेशस्य शासकः अभवत् । परन्तु केषुचिद्दिनेषु एव मुजाहिद खाँ इत्यस्य भ्रातृजः शम्स् खाँ द्वितीय इत्येषः चित्तौडप्रदेशीयेन महाराणा कुम्भा इत्येनन सह सन्धिं कृत्वा स्वपितृव्यस्योपरि आक्रमणम् अकरोत् । तस्मिन् युद्धे मुजाहिद खाँ इत्येषः पराजितः । ततः नागौरप्रदेशस्य विभागद्वयम् अभवत् । नागौर-प्रदेशाख्ये प्रथमे विभागे शम्स् खाँ द्वितीय इत्येषः शासनं करोति स्म । नागौर-प्रदेशस्य अपरभागे यस्मिन् साम्भर-नरायना-डीडवाना-नगराणि आसन्, तस्मिन् द्वितीये भागे मुजाहिद खाँ इत्यस्य शासनम् आसीत् ।
"https://sa.wikipedia.org/wiki/नागौर" इत्यस्माद् प्रतिप्राप्तम्