"कालिदासः" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम् Android app edit
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः ३:
== कालिदासाः ==
कालिदासप्रणीतत्वेन त्रयः श्रव्यकाव्यग्रन्थाः रघुवंशं कुमारसम्भवञ्चेति द्वे महाकाव्ये मेघदूतं खण्डकाव्यम्, त्रयो दृश्यकाव्यग्रन्थाः अभिज्ञानशाकुन्तलं नाटकं, विक्रमोर्वशीयं नाटकं मालविकाग्निमित्रं नाटकंञ्चेति प्रसिद्धाः सन्ति । एतदतिरिक्तं ऋतुसंहारं नाम श्रव्यकाव्यग्रन्थः श्यामलाष्टकप्रभृतिस्फूटरचनाश्च कालिदासविरचिता इत्यपि विश्वस्यते । केचित्तु कालिदासत्रयीमप्यनुमान्ति । तदनु सूक्तिमुक्तावल्यां राजशेखरप्रणीतत्वेनोद्धृतं निम्नाङ्कितं पद्यमेवाधारः ।
<poem>
 
'''एकोऽपि जीयते हन्त कालिदासो न केनचित् ।'''
 
'''शृङ्गारे ललितोद्गारे कालिदासत्रयी किमु ।'''
</poem>
 
केचित्त्वत्रत्य ‘कालिदासत्रयी' पदस्य काव्यत्रये निरूढमर्थं गृह्णन्ति भक्त्या न तु कवीनां त्रयीति । अपरे तु मुख्यमेवार्थं समाधृत्य राजशेखरसमये एव कालिदासाभिधास्त्रयः कवयः प्रसिद्धाः आसन्निति मन्यन्ते । ग्रन्थानां कालिहासप्रणीतत्वेन प्रसिद्धानामाभ्यन्तरपरीक्षणेन तु श्लोकेनानेन कवीनां त्रय्येव सङ्केतिता सम्भवति इति मन्यते। श्रव्यकाव्येष्वपि रघुवंशकुमारसम्भवमेघदत-ऋतुसंहाराणां परस्परं रचनावैशिष्ट्यं नैकप्रणीतत्वं समर्थयति । मेघदूते हि -
<poem>
 
'''वक्रः पन्था यदपि भवतः प्रस्थितस्योत्तरस्यां'''
 
'''सौधोत्सङ्गप्रणयविमुखो मा स्म भूरुज्जयिन्याः।'''
 
'''विद्युद्दामस्फुरितचकितैर्यत्र पौराङ्गनानां'''
 
'''लोलापाङ्गर्यदि न रमसे लोचनैर्वञ्चितोऽसि।।'''<ref>९।२७</ref>
</poem>
 
इति सर्वातिशायित्वेन स्मृता उज्जयिनी रघुवंश-कुमारसम्भवयोः नाम्नाऽपि न स्मर्यते । कुमारसम्भवस्य कर्ता हिमालयस्य केदारकूर्माचलखण्डयोरेव रमते । रघुवंशस्य प्रणेता तु चतुर्थषष्ठसर्गयोः भरतवर्षमेव भ्रमति । ऋतुसंहारस्य कर्ता पर्वतीयमेव ऋतुपरिवर्तनं विवृणोति । विषयप्रतिपादनदृष्ट्याऽपि तेषां सर्वेषामेवैककर्तृकत्वं नैव सिध्यति । तेषु तेषु हि भौगोलिकवर्णनमपि मिथो न संवदते । एवमेव स्थितिकालदृष्ट्याऽपि तत्र सामञ्जस्यं नैव सिध्यति । मालविकाग्निमित्रस्य प्रणेता अग्निमित्रं हि पुष्यमित्रस्य पुत्रं विदिशे नायकत्वेन गृह्णाति । विक्रमोर्वशीये तु कश्चिदपर एव विक्रमाख्यो नायकः । रघुवंशस्य कर्ता मगधं हि सर्वोत्कृष्टराज्यत्वेन स्मरति यतो हि स रघोः दिग्विजयप्रसङ्गे मगधं नाम्नाऽपि न स्मरति किन्तु षष्ठसर्गे स्वयंवरप्रसङ्गे परन्तपाख्यस्य मगधराजस्य तत्रोपस्थितिं कथयति । यथा हि तत्रोक्तम् -
<poem>
 
'''कामं नृपाः सन्तु सहस्रशोऽन्ये राजन्वतीमाहुरनेन भूमिम्।'''
'''नक्षत्रताराग्रहसङ्कुलाऽपि ज्योतिष्मती चन्द्रमसैव रात्रिः।।''' इति ।
 
इति ।
'''नक्षत्रताराग्रहसङ्कुलाऽपि ज्योतिष्मती चन्द्रमसैव रात्रिः।।''' इति ।
</poem>
 
ऋतुसंहारस्य कर्ता हि विन्ध्योपकण्ठं साधु वर्णयति यदा कुमारसम्भवस्य प्रणेता तु गन्धमादनं साधु जानाति । तथैव रघुवंशे हि मालवसाम्राज्यसमसामयिकी भौगोलिकस्थितिः वर्णिताऽस्ति । मघदूतस्य कर्ता तु उज्जयिनीं विशेषेण स्तौति । सम्प्रति कालिदासकृतित्वेन ख्यातेषु त्रिषु रूपकेषु तावत्स्वेव श्रव्यकाव्येषु ऋतुसंहारोत्तरेषु च विषयादिदृष्ट्या अभिज्ञानशाकुन्तलकुमारसम्भवयोः, विक्रमोर्वशीयरघुवंशयोः, मालविकाग्निमित्र-ऋतुसंहारयोश्च साम्यं समर्थयन्ति पण्डिताः, किन्तु समुद्रगुप्तप्रणीतकृष्णचरितं तु दृश्यकाव्यानां कालिदासाभिधकाव्यकारकतृत्वं श्रव्यकाव्यानां तु हरिषेणस्य कालिदासविशेषणस्य कृतित्वं समर्थयति । यथोक्तं तत्र -
<poem>
 
'''पुरन्दरबलो विप्रः शूद्रकः शास्त्रशस्त्रजित् ।'''
 
'''धनुर्वेदं चौरशास्त्रं रूपके द्वे तथाऽकरोत्।।'''
 
'''तत्कथां कृतवन्तौ तौ कवी रामिलसौमिलौ ।'''
 
'''तस्यैव सदसि स्थित्वा तौ मानं बहु चाप्तताम् ।।'''
 
'''सतां मतः सोऽश्वमेधं कृतवानुरुविक्रमः ।'''
 
'''वत्सरं स्वं शकान् जित्वा प्रावर्तयत वैक्रमम् ।।'''
 
'''तस्याऽभवन्नरपतेः कविसप्तवर्णः'''
 
'''श्रीकालिदास इति योऽप्रतिमप्रभावः ।।'''
 
'''दुष्यन्तभूपतिकथां प्रणयप्रतिष्ठां'''
 
'''रम्याभिनेयभरितां सरसाञ्चकार।।'''
 
'''शाकुन्तलेन स कविर्नाटकेनाप्तवान् यशः ।'''
 
'''वस्तुरम्यं दर्शयन्ति त्रीण्यन्यानि लघूनि च।।'''
 
'''भूयः स मृच्छकटिकं नवाङ्कं नाटकं व्यधात् ।'''
 
'''व्यधात्तस्मिन् स्वचरितं विद्यानयबलोजितम् ।।'''
</poem>
 
अत्रान्येषु त्रिषु विक्रमोर्वशीयं मालविकाग्निमित्रमिति द्वे तु ज्ञाते तृतीयं सम्प्रति नैवोपलभ्यत इति युधिष्ठिरमीमांसकमतम् । एवमेव -
<poem>
 
'''काव्येन सोऽद्य रघुकार इति प्रसिद्धो'''
 
'''यः कालिदास इति______महार्हनामा।'''
 
'''प्रामाण्यमाप्तवचनस्य च तस्य धर्म्ये'''
 
'''ब्रह्मत्वमध्वरविधौ मम सर्वदेव।।'''
 
'''चत्वार्यन्यानि काव्यानि व्यदधाच्च लघूनि यः।'''
 
'''प्राभावयच्च मां कर्तुं कृष्णस्य चरितं शुभम्।।'''
 
'''हरिषणकविर्वाग्मी शास्त्रशस्त्रविचक्षणः।'''
 
'''यशोऽलभत काव्यैः स्वैर्नानाचरितशोभनैः।।''' इत्यादि ।
</poem>
 
उपर्युक्तोद्धरणेन तु रूपकाणां कालिदासकर्तृकत्वं श्रव्यकाव्यानां तु हरिषेणप्रणीतत्वं सिध्यति । समुद्रगुप्तस्य हि हरिषेणः सभापण्डित आसीदिति तु तस्य प्रयागशिलास्तम्भाभिलेखतोऽपि ज्ञायते। यथोक्तं तत्र -
 
Line ७८ ⟶ ५४:
'''३२ - खाद्यटपाकिकस्य महादण्डनायकध्रुवभूतिपुत्रस्य सन्धिविग्रहिक-कुमारामात्यमहादण्डनायकहरिषेणस्य सर्वभूतहितसुखायास्तु।'''
 
'''३३ - अनुष्ठितञ्च परमभट्टारकपादानुध्यातेन महादण्डनायकतिलभट्टकेन।'''
इति।
 
हरिषेणो हि चन्द्रगुप्तस्य मन्त्रिणः शिखरस्वामिनः पौत्रः कुमारगुप्तस्य मन्त्रिणः पृथिवीषेणस्य पुत्र आसीदित्यपि कुमारगुप्तस्य कर्मदण्डशिलास्तम्भाभिलेखस्य षष्ठसप्तमपङ्कितो ज्ञायते।
"https://sa.wikipedia.org/wiki/कालिदासः" इत्यस्माद् प्रतिप्राप्तम्