"मकरसङ्क्रमणम्" इत्यस्य संस्करणे भेदः

त्त्वा
No edit summary
 
पङ्क्तिः १:
[[File:Tilgul kha god god bola.jpg|thumb|'''मकरसङ्क्रमणपर्वणः विशिष्ठं तिलगुडभक्ष्यम्''']]
'''मकरसङ्क्रमणं''' भारतीयानां प्रमुखपर्वसु अन्यतमम् । अस्मात् दिनात् परमपवित्रस्य उत्तरायणकालस्य आरम्भः । इदं पर्व [[तिलः|तिलपर्व]] इत्यपि निर्दिश्यते । [[तमिऴ्‌नाडु|तमिळुनाडुराज्ये]] पोङ्ग्ल इति वदन्ति । एतत् [[सूर्यः|सूर्यस्य]] चलनसम्बद्धं पर्व । सूर्यस्य एकराशित: अन्यराशिं प्रतिप्रवेशदिनं सङ्क्रमणम् इति उच्यते । सौरमानानुसारं सूर्यस्य मेषादिद्वादशराशिं प्रति प्रवेशदिनम् एव सङ्क्रमणदिनम् ।[[चित्रम्:Earth-lighting-winter-solstice EN.png|thumb|'''कर्कतः मकरं सूर्यसङ्क्रमणम्'''| 200px|left]]
 
[[चित्रम्:Earth-lighting-winter-solstice EN.png|thumb|कर्कतः मकरं सूर्यसङ्क्रमणम्|200px|left]]
:'''रवे: सङ्क्रमणं राशौ सङ्क्रान्तिरिति कथ्यते ।'''
:'''स्नानदानतप:श्राद्धहोमादिषु महाफला ॥'''
Line ७ ⟶ ८:
:'''पूर्वस्माद्राशे: उत्तरराशौ सङ्क्रमणं प्रवेश: सङ्क्रान्ति: ॥'''
 
एवंक्रमेण वर्षे १२ सङ्क्रमणानि भवन्ति । तत्र प्रमुखं सङ्क्रमणद्वयम् । कर्काटकसङ्क्रमणं (दक्षिणायनस्य आरम्भ:) मकरसङ्क्रमणं (उत्तरायनस्य आरम्भ:) चेति । कर्काटकमकरसङ्क्रमणे अयनसङ्क्रमणे, मेषतुलासङ्क्रमणे विषुवसङ्क्रमणे, कन्या-मिथुन-धनु-मीनसङ्क्रमणानि षडशीतिमुखसङ्क्रमणानि, वृषभ-सिंह-वृश्चिक-कुम्भसङ्क्रमणानि विष्णुपदसङ्क्रमणानि इति विभाग: कृत: अस्ति । मकरसङ्क्रमणदिनत: आरभ्य रात्रिकालस्य अवधि: न्यून: भवति । एतद्दिने एव [[स्वर्गः|स्वर्गस्य]] द्वारोद्घाटनं क्रियते इति । परमपवित्रे अस्मिन् सङ्क्रमणदिने क्रियमाणं स्नान-दान-जप-तप-हवन-पूजा-तर्पण-श्राद्धादिकम् अधिकं फलप्रदम् इति वदन्ति शास्त्रपुराणानि । तद्दिने य: पापाचरणं करोति, य: पवित्रकर्माणि न आचरति स: पापभाक् भवति इत्यपि वदन्ति ज्ञानिन: । अन्यानि सङ्क्रमणानि आचरितुम् अशक्त: एतदेकं सङ्क्रमणं वा आचरेत् इति वदति शास्त्रम् ।
:'''सङ्कान्त्यां पक्षयोरन्ते ग्रहणे [[चन्द्रः|चन्द्र]]सूर्ययो: ।'''
:'''[[गङ्गा]]स्नानं नर: कामात् [[ब्रह्मा|ब्रह्मण:]] सदनं व्रजेत् ॥''' ([[भविष्यपुराणम्]])
 
:'''रविसङ्क्रमणे पुण्ये न स्नायाद्यस्तु मानव: ।'''
:'''सप्तजन्मन्यसौ रोगी निर्धनोपजायते ॥'''[[चित्रम्:CowHA.jpg|thumb|200px|right|गोपूजा]]
:'''सङ्क्रान्तौ यानि दत्तानि हव्यकव्यानि मनवै: ।'''
:'''तानि नित्यं ददात्यर्क: पुनर्जन्मनि जन्मनि ॥''' ([[देवीपुराणम्]])
Line ३३ ⟶ ३४:
[[चित्रम्:Kite shop in Lucknow.jpg|thumb|150px|left|उत्तरप्रदेशस्य लखनऊनगरस्य कस्मिंश्चित् आपणे विक्रियमाणाः विभिन्नवर्णानां वाताटाः]]
 
एतद्दिने एव [[वाताटः|वाताटानाम्]] उड्डयनम् अपि कुर्वन्ति महता प्रमाणेन [[भारतम्|भारतस्य]] केषुचित् राज्येषु । एतद्दिने गोपूजामपि कुर्वन्ति । ता: स्नापयित्वा श्रृङ्गे विविधवर्णै: अलङ्कुर्वन्ति । तासां प्रियं [[तृणम्|तृणं]], [[धान्यम्|धान्यं]], गुडं, नारिकेलं च ताभ्य: यच्छन्ति । पीडापरिहारार्थं ता: ज्वलत: [[अग्निः|अग्ने:]] उपरिष्टात् गमयन्ति । गोमाता अष्टमङ्गलेषु एका इति परिगण्यते । तस्या: दर्शनं, नमस्कार:, पूजा, प्रदक्षिणं च अनिष्टपरिहारकम् इति मन्यते । तस्या: अवयवेषु १४ लोका: सन्ति । समस्तदेवता: तस्या: अङ्गेषु निवसन्ति इति वदन्ति शास्त्राणि ।
 
"https://sa.wikipedia.org/wiki/मकरसङ्क्रमणम्" इत्यस्माद् प्रतिप्राप्तम्