"नैषधीयचरितम्" इत्यस्य संस्करणे भेदः

नैषधीयचरितम्
No edit summary
अङ्कनम् : 2017 स्रोत संपादन
पङ्क्तिः २:
 
महाकविना श्रीहर्षेण नैषधीयचरितमहाकाव्ये नलदमयन्त्याः स्नेहकथायाः चित्ताकर्षकं वर्णनं द्वाविंशतिसर्गेषु समाहितम् ।
सौन्दर्यातिशयसमन्विता विदर्भराजतनया भैमिभैमी नैषधीयचरितमहाकाव्यस्य प्रधानभूता नायिका विद्यते । तस्यामादर्शनायिकायाः सर्वे गुणाः समाविष्टाः सन्ति । समासेन तान् गुणानाधारीकृत्य वयमत्र किञ्चिद्विचारयामः ।
अनन्यसुन्दरी – कुण्डिनपुर्या अधिपतेः भूपतेः भीमसेनस्यात्मजा दमयन्तिदमयन्ती त्रिलोकललनाललामभूता अतीव कमनीयकमनीया वर्तते । तस्याः कमनीयकमवेक्ष्य त्रिभुवने को नाम जनः मुग्धो न भवति । चन्द्रमसः सारभागं समाकृष्य दमयन्त्याः सौन्दर्यातिशयविनिर्माणं वेधसा विहितामित्येवंरुपेण कल्पते महाकविः श्रीहर्षः । यथा –
:'''हृतसारमिवेन्दुमण्डलं दमयन्तीवदनाय वेधसा ।'''
:'''कृतमध्यविलं विलोक्यते धृतगम्भीरखनीखनीलिमा ॥'''
"https://sa.wikipedia.org/wiki/नैषधीयचरितम्" इत्यस्माद् प्रतिप्राप्तम्