"बाङ्गलादेशः" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः ८२:
'''बाङ्ग्लादेशः''' तु आधिकारिकरूपेण "जनानां बाङ्ग्लादेश-गणतन्त्रम्" इति अभिहितः। स तु दक्षिणै[[एशियाखण्डः|शिया]]यां स्थितम् एकं सम्प्रभु राज्यम्। एतस्य सीमायां [[भारतम्|भारतं]], [[बर्मा|बर्मा]]देशः च। दक्षिणे च बङ्गालखातः। राजधानी एतस्य [[ढाका|ढाका]] इति मध्य-बाङ्ग्लादेशस्थं नगरम्। बाङ्ग्लादेशस्य आधिकारिकी राज्यभाषाऽस्ति [[बाङ्गला भाषा|बङ्गाली]]। बाङ्गलादेशस्य संस्कृतनाम '''वङ्गदेश''' अस्ति । तत् नामस्य अर्थः 'वङ्गजनानां (बङ्गालजनानां) भूमिः'।
 
अद्यतनस्य बाङ्ग्लादेशस्य सीमासीमारेखा तु 1947 तमे वर्षे बङ्गालस्य विभाजनसमये स्थापिता आसीत्, यदा हि ब्रिटिश-भारतस्य अवसानं जातम्। एतस्य मानचित्रम् सर् सिरिल् रैड्क्लिफ् महोदयेन राजादेशत्वेन ज्ञापितमासीत्, यदा तु 1947 तमे वर्षे [[पाकिस्थानम्|पाकिस्थानं]] भारतं च निर्मिते। तस्मिन् काले स भागः पूर्वीयं पाकिस्थानं जातम्, यत्तु नूतनोद्भूतस्य पाकिस्थानराष्ट्रस्य भागोऽभूत्। पश्चिम-पाकिस्थान कृतात् राजनीतिकभेदभावात् तथा च आर्थिक-शोषणाद् ईरितम् एकं लोकप्रचलितम् आन्दोलनं समुद्भूतं पश्चिमपाकिस्थानं लक्ष्यीकृत्य। तच्च 1971 तमे वर्षे बाङ्ग्लादेश-मुक्ति-सङ्ग्रामरूपेण वर्धितम्। नवमासीयं इदं युद्धं दिसम्बरमासस्य 16 तमे दिनाङ्के अवसितं यदा भारतस्य सेनायाः 13 दिवसात्मिका-प्रत्यक्षक्रियापश्चात् पाकिस्तानसेनया रम्ना रेस कोर्स् इत्यत्र आत्मसमर्पणं कृतम्।
 
 
== सन्दर्भाः ==
"https://sa.wikipedia.org/wiki/बाङ्गलादेशः" इत्यस्माद् प्रतिप्राप्तम्