"तमिळभाषा" इत्यस्य संस्करणे भेदः

→‎इतिहास:: पारम्परीयम् इतिहासम् विस्तारितम्
पङ्क्तिः २४:
'''तमिऴ्''' (Tamil) (தமிழ்) द्राविडभाषापरिवारस्‍य एका भाषा। तमिऴ्‌भाषा पृथिव्‍यां प्राचीनतमभाषासु अन्यतमा। द्रविडपरिवारस्य भाषासु इयम्‌ अन्याभ्यः अधिकं पुरातनी समृद्धा च। [[तमिऴ्‌नाडु|तमिऴ्‌नाडुराज्ये]] जनाः तमिऴ्‌भाषया वदन्ति। एषा [[भारत|भारते]] [[श्रीलङ्का|श्रीलङ्कायां]] [[सिङ्गापुर|सिङ्गापुरे]] च कार्यालयीयभाषा वर्तते। एषा [[भारत|भारते]] [[तमिऴ्‌नाडु|तमिऴ्‌नाडुराज्यस्य]] [[पोंडुचेरी|पुदुच्चेर्याः]] अपि कार्यालयीयभाषा वर्तते । अस्मिन् द्विसहस्रतमे शताब्दे इयं भाषा [[भारत]]शासनद्वारा शास्त्रीयभाषात्वेन उद्घोषिता । मॉरीशस्-मलेशियिदेशयोः अपि अनया भाषया महत्त्वपूर्णं स्थानं प्राप्तम् अस्ति।
 
==पारंपरीय: इतिहास: ==
 
भारतीयपुराणानुसारेण तमिऴ्‌भाषायाः रचना भगवता शिवेन कृता। तेन च तमिऴ्-व्‍याकरणम्‌ [[अगस्त्यः|अगस्त्यमुनये]] उपदिष्टम्‌।
तत्पुराणं तु विस्तरेण किंचित् विवृतम्:
पुरा त्रय: तमिळ्संघा: आसन्| ते सर्वे तु पाण्ड्यवंशेनैव स्थापिता: आयोजिता: निर्वाहिताश्च आसन्|
 
तेषु पूर्वौ द्वौ संघौ अद्यतनीयात् दक्षिणभारताग्रात् दक्षिणे वर्तमानौ आस्ताम्| तयो: प्रदेशौ तु पुराणनुसारम् समुद्रजलेषु निर्मग्नौ अभूताम्|
 
== भाषावैज्ञानिका स्थिति: ==
"https://sa.wikipedia.org/wiki/तमिळभाषा" इत्यस्माद् प्रतिप्राप्तम्