"सोमनाथः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः ३२:
}}
'''सोमनाथ'''मन्दिरं ({{IPA audio link|सोमनाथः.ogg}} {{IPAc-en|ˈ|s|oː|m|ə|n|aː|θ|ə|h}}) ({{lang-gu|સોમનાથ}}, {{lang-en|Somnath}}) [[गुजरातराज्यम्|गुजरातराज्यस्य]] पश्चिमभागे अर्थात् सौराष्ट्रे प्रभासपाटणपत्तने समुद्रतटे स्थितं भव्यमन्दिरं वर्तते । समुद्रस्य तरङ्गाः सोमनाथस्य पादक्षालनेच्छया पौनःपुन्येन आगच्छन्तः तस्य पादपद्मे लीनाः भवन्ति । सोमनाथः द्वादशज्योतिर्लिङ्गेषु प्रप्रथममं महत्तमञ्च ज्योतिर्लिङ्गं वर्तते । सोमेश्वरः इत्यप्यस्य नामान्तरम् । [[चन्द्रः]] (सोमः) अस्य लिङ्गस्य स्थापनां कृतवान् । अत्रैव [[कपिलानदी]]-[[सरस्वतीनदी]]-[[हिरण्यानदी]]नां सङ्गमः भवति । अत एतद् क्षेत्रं त्रिवेणीक्षेत्रमिति नाम्नापि प्रसिद्धम् ।
 
== पुराणे सोमनाथः ==
 
पुराणेषूल्लेखोस्ति यत् [[त्रेतायुगम्|त्रेतायुगे]] वैवस्वतमन्वन्तरे शुक्लपक्षस्य तृतीयायां अस्य मन्दिरस्य स्थापना बभूव । अत्रैव [[चन्द्रः]] तपः कृतवानासीत् । एतल्लिङ्गं चन्द्र एव अस्थापयत् । पौराणिककथानुसारं [[चन्द्रः]] दक्षस्य सप्तविंशतिकन्याभिः सह विवाहं कृतवान् आसीत् । परन्तु [[चन्द्रः]] (दक्षस्य लघुत्तमा कन्या) रोहिण्याम् अधिकं स्निह्यति स्म । तेन अन्ये चन्द्रपत्नीनाम् अवगणना तु भवति स्म, परन्तु तेषामपमानमपि भवति स्म । द्विवारं दक्षः स्वजामातरं "एवं न करु" इति पर्यबोधयत । परन्तु चन्द्रः स्वव्यवहारं न परिवर्तितवान् । तेन कुपितः दक्षः चन्द्रं "त्वं क्षयरोगी भव" इति अशप्यत् । [[चन्द्रः|चन्द्रे]] क्षये सति देवाः भीताः सन् [[चित्रम्:Somnath.jpg|thumb|right|350px|<center>'''भगवान् श्रीसोमनाथः'''</center>]] [[ब्रह्मा|ब्रह्मणः]] समीपं गताः । [[ब्रह्मा]] अवदत्, [[चन्द्रः]] प्रभासपाटणक्षेत्रे शिवोपासनां करोति चेत् तस्य शापशमनं भवेत् इति । [[चन्द्रः]] सौराष्टे स्थितं प्रभासपाटणक्षेत्रम् गत्वा शिवलिङ्गञ्च निर्माय शिवोपासनां प्रारभत । [[शिवः|शिवे]] प्रसन्ने सति चन्द्रं शापमुक्तम् अकरोत् । तदा [[शिवः]] अकथयत्, इतः परम् अहमत्र सोमनाथरूपेण निवसामीति । सोमलिङ्गस्य दर्शनेन भक्तानां सर्वाणि पापानि नश्यन्ति । अपेक्षितं फलं प्राप्य मरणानन्तरं स्वर्गं प्राप्नुवन्ति इति विश्वासः अस्ति । प्रभासक्षेत्रस्य परिभ्रमणेन पृथ्वीप्रदक्षिणफलं प्राप्यते इति [[शिवपुराणम्|शिवपुराणस्य]] कोटिरुद्रसंहितायाम् उक्तम् अस्ति ।
 
[[स्कन्दपुराणम्|स्कन्दपुराणे]] “प्रभासखण्डः” इति पृथक् विभागः एव अस्ति । तत्र प्रभासतीर्थस्य एव वर्णनं कृतम् अस्ति । [[ऋग्वेद]]स्य खिलसूक्ते अपि सोमनाथक्षेत्रस्य उल्लेखः अस्ति ।
 
<poem>
यत्र [[गङ्गा]] च [[यमुना]] यत्र प्राची [[सरस्वती]] ।
यत्र सोमेश्वरो देवस्तत्र माममृतं कृधीन्द्रायिन्दो परिस्रव ॥
(ऋग्वेदः, खिलसूक्तम् ९.२०.५)
</poem>
 
[[कृष्णः|श्रीकृष्णेन]] स्वावतारस्य अवसानकाले अन्तिमानि दिनानि अत्रैव यापितानि इति पुराणानां वचनम् । श्रीकृष्णावतारस्य परिसमाप्तिकाले यदा जराव्याधेन मुक्तः बाणः [[कृष्णः|कृष्णस्य]] पादम् अघातयत् । तदा [[कृष्णः|श्रीकृष्णः]] अत्र अन्तर्धानोऽभूदिति वर्णनमायाति । तस्य देहोत्सर्गस्थाने [[हिरण्यानदी|हिरण्यानद्याः]] तीरे यादवस्थली नामकं क्षेत्रम् अस्ति । अत्रैव यादवाः अन्तःकलहेन नाशं प्राप्नुवन् इति कथा श्रूयते । राज्ञा [[बलिः|बलिना]] अत्र अश्वमेधयागः कृतः इत्यपि स्कन्दपुराणे वर्ण्यते ।
 
== इतिहासः ==
"https://sa.wikipedia.org/wiki/सोमनाथः" इत्यस्माद् प्रतिप्राप्तम्