"अनन्तपद्मनाभदेवालयः (तिरुवनन्तपुरम्)" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः १:
प्रपञ्चस्य सम्पद्भरितदेवस्थानेषु अन्यतमम् तथा सम्पदा प्रसिध्दं देवस्थानं [[केरळम्|केरलस्य]] राजधान्यां [[तिरुवनन्तपुरम्|तिरुवनन्तपुरे]] अस्ति । तदेव अनन्तपद्मनाभस्वामिनः देवस्थानम् । प्राचीनः देवालयः एषः गतवर्षपर्यन्तं (२०११ जनवरी) [[तिरुवाङ्कूरु]]राजवंशस्य नियन्त्रणे आसीत् । राजवंशस्थाः एव विश्वस्थाः सन्तः देवस्थानस्य निर्वहणं कुर्वन्ति स्म ।
[[File:Sri Padmanabhaswamy temple.jpg|thumb|300px|अनन्तपद्मनाभदेवालयः(तिरुवनन्तपुरम्)]]
८०वर्षेभ्यः पूर्वं तन्नाम १९३१तमवर्षस्य डिसेम्बरमासस्य ६तमे दिनाङ्के देवस्थानस्य स्वर्णाभरणस्थापनस्य भूतलप्रकोष्ठं तिरुवाङ्कूरुमहाराजःतिरुवाङ्कूरुमहाराज्ञः चित्तिरतिरुनलबलरामवर्मणः सम्मुखे यदा उद्घाटितं तदा तत्र भूतलकुसूलः आसीत् । । तस्मिन् ३०० स्वर्णकलशाः, स्वर्णस्य तथा रजतस्य नाणकानि, आभरणानि, वज्राभरणानि, अमूल्यानि रत्नानि च आसन् ।
अग्निशामकाधिकारिणां साहाय्येन देवस्थानस्य भूम्यन्तरगुहाप्रकोष्ठम् उद्घाट्य तत्र विद्यमानानि अमूल्यवस्तूनि शोधयित्वा पट्टिकामेका सज्जीकर्तुं २०११तमवर्षस्य जनवरीमासे परमोच्चन्यायालयेन पुरातत्त्वशाखां प्रति आदेशः कृतः अस्ति । आदेशानुसारं देवस्थानस्य सर्वाभरणानां , सर्वसंपत्तेः च परिशीलनं कृतम् । स्वर्णाभरणेषु १८ तमशतकस्य नेपोलियन् युगस्य नाणकानि सार्धत्रिपादपरिमिता महाविष्णोः ३० के. जि.भारयुक्ता मूर्तिरेका लब्धा ।
देवस्थानं तथा तस्य सम्पत्तिं राज्यसर्वकारः निर्वहतु इति केरलस्य उच्चन्यायालयेन २०११तमे वर्षे जनवरीमासस्य ३१ तमे दिने आदेशः प्रकटितः । देवस्थानस्य विश्वस्थमण्डल्याः अध्यक्षस्थाने स्थिताः राजवंशजाः निर्णयस्यास्य औचित्यं पृष्टवन्तः । राज्यन्यायालयस्य निर्णयं तिरस्कुर्वन् सर्वोच्चन्यायालयः देवस्थानस्य अन्तः बहिः च अतिसुरक्षायाः व्यवस्थां कर्तुं तथा देवस्थानस्य अमूल्यवस्तूनां मौल्यनिर्देशं कर्तुम् आदेशम् अकरोत् ।
पङ्क्तिः ८:
देवस्थाने आहत्य ६ भूम्यन्तरगुहाः सन्ति । ताः क्रमात् ‘ए’ ‘बि’ इति नामाङ्कितानि सन्ति । ‘ए’ ‘बि’ भुम्यन्तरगृहाः १३० वर्षेभ्यः नोद्घाटिताः । ‘सि’ तः 'एफ़्'पर्यन्तं विद्यमानाः गुहाः तदा तदा पूजार्थं, धार्मिकक्रियार्थम् आभरणानि उपयोक्तुं च उद्घाट्येते।, एतदर्थं उच्चन्यायालयेन आदेशः प्रदत्तः अस्ति । ‘ए’ तथा ‘बि’ भूम्यन्तरगृहं स्वर्णाभरणशोधनार्थं उद्घाट्य अनन्तरं द्वारं पिहितं स्यात् ।
‘बि’ भूम्यन्तर्गृहस्य अन्तः किमस्ति इति तज्ञाः अपि कुतूहलिनः सन्ति । तस्य उद्घाटनविषये निर्धारयितुम्, उच्च न्यायालयेन समितिः उपस्थापिता अस्ति । समितौ अष्टसदस्याः सन्ति । आभरणानां मौल्यमापनं, ‘बि’ भुम्यन्तर्गृहस्य विषयोऽपि ते परिशीलनं कुर्वन्ति ।
 
== देवस्थानस्य इतिहासः==
देवस्थानमेतत् अष्टमे शतके निर्मितम् । तदा तिरुवनन्तपुरं चेरिसाम्राज्यस्य राजानः परिपालयन्ति स्म । केरळे विद्यमानेषु एकादशदिव्यदेवस्थानेषु एतत् अन्यतमम् इति आळ्वास नामकः कविः स्वस्य ‘दित्यप्रबन्धे’ वर्णितवान् अस्ति। ब्रह्म-वायु-वराह-पद्म-पुराणेषु देवस्थानस्य उल्लेखः अस्ति ।