"पाणिनिः" इत्यस्य संस्करणे भेदः

1
2
पङ्क्तिः ४१५:
 
"कथं पुनरिदमाचार्येण पाणिनिनाऽवगतमेते साधव इति । आपिशलेन पूर्व व्याकरणेन । पाणिनिरपि स्वकाले शब्दान् प्रत्यक्षय॑न् अपिशलादिना पूर्वस्मिन् नापि काले सत्तामनुसन्धन्ते, एवमापिशलिरपि ।” इति ।
 
=== काश्यपः ===
पाणिनिः काश्यपाचर्यं 'तृषिमृषिकृषेः काश्यपस्य'<ref>१।२।२५</ref> इति ‘नोदात्तस्वरितोदयमगार्यकाश्यपगालवानाम्'<ref>८।४।६७</ref> इति द्वयोः सूत्रयोः स्मरति । तत्रायम्प्रपञ्चो यद् काश्यपस्य मते तृषिमृषिकृषेः सेट् क्त्वा किद्वा भवति । तेन तन्मते तृषित्वा, तषिता इति द्वे रूपे भवतः कित्त्वपक्षे गुणनिषेधात् । पाणिनिमते तु द्वितीय एव पक्षः साधुः । काश्यपो हि वाजसनेयीयप्रातिशाख्येऽपि 'लोपं काश्यपशाकटायन' इति स्मृतः ।<ref>४/५</ref> तञ्च पाणिनिः ऋषित्वेन स्मरति ‘काश्यपकौशिकाभ्यामृषिभ्यां णिनिः' इति सूत्रे।<ref>४।३।१०३</ref> तेन प्रोक्तमित्यर्थे ऋषिवाचककाश्यपकौशिकाम्यां णिनिर्भवति । यथा काश्यपेन प्रोक्तानि काश्यपीनि । तत्र नामग्रहणं कल्पे नियमार्थमिति महाभाष्यकारवचनम् ।
 
काश्यपि व्याकरणं सम्प्रति नैवोपलभ्यते । स्वयं काश्यपोऽपि त्रिषु स्थानेष्वेव, स्मृतो दृश्यते यत्र द्विवारं पाणिनीयसूत्रयोरुपर्युक्तयोरेकवारञ्च ‘निपातः . स्मृतः' इति यजुःप्रतिशाख्ये च । व्याकरणातिरिक्तमपि कल्पच्छेन्दःशास्त्रायुर्वेदशिल्पालंकारशास्त्रपुराणादिविषयेष्वपि काश्यपस्य प्रणेतृत्वमप्युच्यते । काश्यपस्य स्थितिकालः प्राक्पाणिनीय इत्येव ज्ञायते पाणिनीय सूत्रेतस्योल्लेखात्, किन्तु कियत्प्राचीन इति तु नैवानुमातुमपि शक्यते । युधिष्ठिरमहाभागस्तं विक्रमपूर्वतृतीयसहस्राब्दीमवमन्यते ।
 
=== गार्ग्यः ===
गार्ग्याचार्योऽपि पाणिनिना स्वपूर्ववतवैयाकरणत्वेन स्मृतस्त्रिवार अड्गार्यगालवयोः,<ref>७।३।९९</ref> ओतो गोर्यस्य<ref>८।३।२०</ref> नोदान्तस्वरितोदयमगार्यकाश्यपगालवानाम्<ref>८।४।६७</ref> इति सूत्रेषु । एवमेव स हि ऋक्प्रातिशाख्ये वाजसनेयीयप्रातिशाख्ये च स्मृतोऽनेकवारम् । यथा ऋक्प्रातिसाख्ये-‘व्याडिशाकल्यगार्ग्याः' इति।<ref>१३।३१</ref> तथैव वाजसनेनीयप्रातिशाख्ये-‘ख्याते खयौ कशौ गार्यः सख्योक्ख्यमुपख्यवर्जम् । निरुक्त च यास्कस्तं स्मरति-तत्र नामानि सर्वाण्याख्यातजानीति शाकटायनो नैरुक्तसमयश्च न सर्वांणीति गार्ग्यो वैयाकरणानाञ्चके ।<ref>२।१२</ref> गाय॑स्य हि गर्गपुत्रत्वं सिध्यति गर्गश्व भरद्वाजपुत्रः । अयं हि यास्केनापि स्मृतत्वात् पाणिनिनाऽपि गालवेन सह तस्य स्मरणात्स हि युधिष्ठिरमहाभागमतेन विक्रमपूर्वषष्ठसहस्राब्दीमभितः स्थितिमानित्यनुमितः । तस्य व्याकरणविषये वयं न किमपि जानीम ऋते पाणिनिप्रोक्तम् । व्याकरणातिरिक्तमपि निरुक्त-सामवेदपदपाठ-शालाक्यतन्त्र-भूवर्णन-तक्षशास्त्रादिविषये ग्रन्था गार्य' प्रणीता इति स्मर्यन्ते ।
 
=== गालवः ===
गालवं हि वैयाकरणत्वेन पाणिनिश्वतुर्वारं स्मरति अङ्गार्यगालवयोः,<ref>७॥३॥९९</ref> इको ह्रस्वोऽयो गालवस्य<ref>६।३।६१</ref> तृतीयादिषु भाषितपुंस्कं पुंवद्गालवस्य,<ref>७।१।७४</ref> नोदात्तस्वरितोदयमगार्यकाश्यपगालवानाम्<ref>८।४।६७</ref> इति सूत्रेषु । भाषावृत्तौ<ref>६।१।७७</ref> पुरुषोत्तमदेवः ‘इको यण्भिव्यवधानं व्याडिगालवयोरिति वक्तव्यम्' इति गालवमतं समुद्धरति प्रस्तौति च। देधियत्र दध्यत्रेति रूपद्वयमपि । . गालवस्य न त्वैति ह्ययं ज्ञातमस्ति न च तस्य व्याकरणमेव लम्यते । स हि इको विकल्पेन यण्व्यवधानपक्षधरः । एवश्च च उत्तरपदे परे इगन्तांगस्य ह्रस्वमिच्छति यथा ग्रामणिपुत्रः। यन्तस्य तु न ब्राह्मणीपुत्रः। पाणिनिमते तु अयोऽपि न ह्रस्वः । यथा ग्रामणीपुत्रः । एवमेव गायँगालवयोर्मते रुदश्च । पञ्चम्यः ईटः स्थाने अड् भवति । यथा अरोदत् । पाणिनिमते तु ईडेव । तेन अरोदीत् । तथा च गालवमते तृतीयादिषु भाषितपुंस्कं इगन्तं क्लीवं प्रवृत्तिनिमित्तैक्ये वा पुंवत् टादावचि । यथा अनादये ।
 
गालवो हि बाभ्रत्यगोत्रः पाञ्चालाभिजनः संहितायाः प्रवक्ता शौनकशिष्यः ब्राह्मणक्रमपाठशिक्षानिरुक्तदैवतकामसूत्र-भूवर्णनः शालाक्यतन्त्रादीनामपि प्रणेता मतः । तस्य हि स्थितिकालो नास्माकं ज्ञातः । युधिष्ठिरमहाभागस्तं हि विक्रमपूर्वतृतीयसहस्राब्दीतोऽपि पूर्ववर्तनं मन्यते । स एव जानातु याथार्थ्यम् के वयन्त्वेतावदेव जानीमो यत्सः पाणिनितो दूरपूर्वकालवर्तीति ।
 
=== चाक्रवर्मणः ===
चक्रवर्मणो हि ‘ई३ चाक़ वर्मणस्य<ref>६।१।१३०</ref> सूत्रे पाणिनिना आपिशलिना कपश्चक्रवर्मणस्य' इंति पञ्चपाद्यौणादिकसूत्रे,<ref>३।१४४</ref> भट्टोजिदीक्षितेन शब्दकौस्तुभे,<ref>१।१।२७</ref> कातन्त्रपरिशिष्टे श्रीपतिदत्तेन ‘हेतौ वा” इति सूत्रबृत्तौ च वैयाकरणत्वेन स्मृतः । काशिकावृत्यनुसारेण<ref>६।४।१७०</ref> स हि चक्रवर्माख्यस्य पुत्रः । चक्रवर्मा हि वायुपुराणानुसारं कश्यपस्य पौत्रः चाक़ वर्मणो हि आपिशलिना औणादिकसूत्रे (३।१४) स्मृतत्वात्तस्य तत्पूर्ववतत्वं तु सिध्यति किन्तु तस्य पूर्वसीमानिर्धारणाय न वयं समर्थाः । युधिष्ठिरो मीमांसकस्तं विक्रमपूर्वसहस्राब्दीममितः । स्थितिमन्तं मन्यते ।
 
चाक्रवर्मणस्य न किञ्चिदपि सूत्रमद्योपलभ्यते व्याकरणसम्बद्धम् । तेन तस्य व्याकरणसम्बद्धमतविषये वयं स्वल्पमेव जानीमः । पाणिनिरपि तं स्वग्रन्थे एकवारमेव स्मरति ‘ई३ चाक़ वर्मणस्य'<ref>६।१।१३०</ref> इति सूत्रे । तदनुसारेण ई३ प्लुतोऽचि परे अप्लुतवद्वा भवति यथा अग्नी ३इति । तथैव तन्मते औणादिककपन्प्रत्ययस्थाने कपप्रत्ययो मतो यस्य स्वरे एव भेदः । शब्दकौस्तुभे चाक्रवर्मणमतानुसारेण द्वयपदस्य , सर्वनामसंज्ञाभावमधिवक्ति यत्पाणिनिमतेन नैव सिध्यति । शिशुपालबध महाकाव्यकारेणमाघकविना द्वादशसर्गस्य त्रयोदश श्लोके प्रयुक्त द्वयेवा इति पदं चाक़मर्णस्य मतानुसारि इति मन्यते । पाणिनिमते तु द्वयानामेव भवति द्वयशब्दस्य सर्वनामसंज्ञाभावात्तत्र ‘सर्वनाम्नः सुट् । इत्येतस्य नैव प्रवृत्तिर्भवति । तत्र भट्रोजिदीक्षितः पठति - ‘यन्तु कञ्चिदाह चाक्रवर्मणव्याकरणे द्वयपदस्याऽपि सर्वनामताभ्युपगमात् तद्रीत्याऽयं प्रयोग इति, तदपि न मुनित्रयमतेनेदानीं साध्वसाधुविभागः । तस्यैवेदानीन्तनशिष्टैवैदाङ्गतया परिगृहीतत्वात् । दृश्यन्ते हि नियतकालाः स्मृतयः । यथा कलौ पाराशरी स्मृतिरिति।<ref>शब्दकौस्तुभे १।१।२७</ref> खण्डनमिदं युधिष्ठिरमहाभागो नैव संवदते । स हि ‘यथोत्तरं मुनीनां प्रामाण्यं' इति मतं व्याकरणविरुद्धं मन्यते । तन्मते कुत्रचिन्मतभेदेन रूपद्वयसम्भावनायोमुत्पन्नायां द्वयोरेव प्रयोगः सम्मतः । उक्तमेव स्वयमेव महाभाष्यकारेण इहान्ये वैयाकरणा मृजेरजादौ सङ्क्रमे विभाषा वृद्धिमारभन्ते, तदिहाऽपि साध्यमिति।<ref>१॥१॥३</ref> तेन पाणिनिमते ‘अपित्सार्वधातुकम्' इति ङित्वेन वृद्धिनिषेधात् ‘भृजन्ति' एवं रूपं भवन्ति किन्तु अन्यमते मार्जन्ति इत्यपि भवति । भाष्यकारो हि इतरवैयाकरणसम्मतरूपाणामपि साध्यत्वं मन्यते । वस्तुतस्तु 'नियतकालाः स्मृतयः' इति । धर्मशास्त्रविषयः । देशकालानुसारेण सामाजिकावश्यकताया अपि परिवर्तनीयत्वात्तदनुकूलनाय स्मृतिष्वपि किञ्चित्परिवर्तनं स्वाभाविकमेव भवति । किन्तु व्याकरणे न तथाऽऽपतति । कदाचिद्रूपद्वयसिद्धावपि उभयोरेव प्रयीगे समाजस्य . का हानिः ? अपरञ्च, पाणिनीया हि शब्दनित्यत्ववादिनः ‘सिद्धे शब्दार्थसम्बन्धे<ref>१।१।१</ref> “सर्वे सर्वपदादेशी दाक्षिपुत्रस्य पाणिनेः । एकदेशविकारे हि नित्यत्वं नोपपद्यते',<ref>१।१।२०</ref> इत्यादि वचनात् । तथामते कथं सिद्धस्य शब्दस्यांसाधुत्वं सम्भवति ? अनित्यत्वे हि शब्दे देश-कालोच्चारणानुसारेण विकृतिरनुज्ञाप्यते । तथा सति एकतः शब्दनित्यत्वमतं हि निराकृतं भवति, अपरतश्च विकृतमपि रूपं साधु मन्तव्यम् । उमे एव स्थिती आपद्धेतुके । तथा च तथामते ‘महान् हि शब्दस्य प्रयोगविषयः' इति भाष्यकारवचनमपि<ref>१।१।१</ref> दूषितं भवति । तेन नियतकालाः स्मृतयः' इतिवत् ‘यथोत्तरं मुनीनां प्रामाण्यं इत्यपि सदोषमेव । पूर्वसम्मत-रूपास्वीकारे शब्दनित्यत्वहानात् ।
 
अथ प्रसङ्गाद् द्वेयशव्दस्य सर्वनामसंज्ञाविषये विचार्यते । द्वयशंव्दो हि सङ्ख्या वाचकद्विशव्दान्निष्पद्यते द्वे अवयवे आपेति द्विशब्दात् ‘सद्व्याया अवयवे तयप् इति<ref>५॥२॥४२</ref> तयपि तस्य स्थाने 'द्वित्रिभ्यां तयस्यायज्वा<ref>५।२।४३</ref> सूत्रेण अयजादेशे द्वयशव्दसिद्धिः । अयजोंऽनल्विधित्वात्स्थानिवद्भावेन तंयपः ‘प्रथमचरमतयाल्पार्धकतिषयनेमाश्च' इति<ref>१।१।३३</ref> सूत्रेण जसि विभाषा सर्वनामसंज्ञा भवत्येव किन्तु यथोत्तरमुनिप्रामाण्यवादिनां मते तु तन्न भवति महाभाष्ये ‘अयच्प्रत्ययान्तरं इति<ref>१।१।४४</ref> अयचः प्रत्ययान्तरविधानात् । किन्तु महाभाष्ये एव द्वये प्रत्यया विधीयन्ते तिङश्च' कृतश्च इति<ref>२।३।६५, ६।२।१३९</ref> वचने द्वयपदस्यापि सर्वनामसंज्ञा मतैवान्यथा ‘जशः शिः' इत्यस्य तत्र । कथं प्रबृत्तिः । एकतोऽयच्प्रत्ययस्य तयप आदेशं निषिध्य पृथक्प्रत्ययविधानमपरतश्च द्वयपदस्य सर्वनामव्यवहार इति कथं परस्परविसंवादिकपनं सम्भवति महाभाष्यसदृशग्रन्थे ? तेन हि द्वयशव्दस्य महाभाष्यकारमते सर्वादिवत्सर्वनाम : संज्ञा मतैव । एतन्मतविभेदनिराकरणाय चन्द्रगोमिना प्रथम इति सूत्रे एवं । अयच्प्रत्ययान्तस्याऽपि समावेशः कृतः । तेन स प्रकृतं सूत्र ‘प्रथमचरमतयाल्पार्धकतिपयनेमाश्च' इति पठति । हेमचन्द्रोऽपि अमप्रत्ययं पृथगेव मत्वा तथैव पठति, त्रयशब्दस्य जसि वा सर्वनामसंज्ञा मन्यते च । स हि माघस्य 'व्यथां द्वयेषामपि मेदिनीभृतां, इति पाठेन भाव्यम् । किन्तु यदि तदपपाठस्तदा नास्माकं किञ्चिद्वक्तव्यम् । यदि तु तदेव तस्य रूपत्वेन सम्मतं तदा तु “यथोत्तरमुनिप्रामाण्यमतमात्रेण तस्य दूषणं न शोभनम् । सिद्धरूपासिद्धौ शव्दनित्यत्वहानाद्विकृतशब्दसाधुत्वापत्तेश्च । तेन भट्टोजिदीक्षितस्य मुनित्रयमतेनेदानीं साध्वसाधुविभाग इति मतं चिन्त्यमेव । चाक़ वर्मणविषये इतोऽधिकं न वयं : किञ्चिदयप्नुमातुं समर्थाः प्रमाणाभावात् ।
 
=== भारद्वाजः ===
भारद्वाजश्चान्यतम् पणिनिस्मृतो वैयाकरणः । भारद्वाजोऽयं भरद्वाजपुत्रो वां भारद्वाजगोत्रीयो वा भरद्वाजाभिजनो वेति नैव निश्चेतुं शक्यते । उदीच्या दिशि भरद्वाजो नाम देशविशेषोऽपि स्मृतः–‘आत्रेयाश्च भरद्वाजाः प्रस्थलाश्च कसेरुकाः' इति महाभारतोक्तः। भरद्वाजाभिजनोऽपि भारद्वाजः सम्भवति ।
 
भारद्वाजो हि पाणिनिना केवलमेकवारमेय स्मृतः ‘ऋतो भारद्वाजस्य'<ref>७।२।६३</ref> इति सूत्रे । तदनुसारेण ‘अचस्तास्वत्थल्यनिटो नित्यम् ।' इति नियमस्य नियमान्तरव्यवस्थापकसूत्रमिदं तासौ नित्यानिट ऋदन्तादेव थलो नेडिति नियमं करोति ऋदिगभाजन्ता तु भवत्येवेति नियमोऽनेन सिध्यति । तेन “चकर्थ किन्तु भारद्वाजमते जिगयिथ अन्यमते तु जिगेथ ।
 
अष्टाध्याय्यामेव ‘कृकणपर्णाद्भारद्वाजे'<ref>४।२।१४५</ref> इति सूत्रं भारद्वाजस्योल्लेखः । तत्र भारद्वाजशब्दोऽपि देशवचन एव न गोत्रशब्द इति काशिकायामुक्तम् । तस्य हि व्याकरणसम्बद्धमतं तैत्तिरीयप्रातिशाख्ये<ref>१७॥३</ref> मैत्रायणीयप्रातिशाख्ये च<ref>२।५।६</ref> समृद्धतं दृश्यते । आद्ये यथा । ‘अनुस्वारेऽण्विति भारद्वाजः । तत्रैव आख्यातानि भारद्वाजदृष्टानीति मतानि । महाभाष्ये<ref>१।१।२०; १।१५५६, ३।१।३८</ref> भारद्वाजीयवातिकान्यपि स्मर्यन्ते । यदि तेषां पाणिनीयसूत्रानुगतत्वं सिध्यति तदा भारद्वाजस्य पाणिनिपरर्वांतत्वं सिध्यति, सूत्रे एव तस्य पाठान्तस्य पाणिनिपूर्ववतत्वमपि सिद्धमेव । तेन सूत्रस्मृतो भारद्वाजोऽन्य एव वृत्तिकारतद्भिन्नोऽन्य एवेत्यनुमीयते । एतदतिरिक्त भारद्वाज-अर्थशास्त्रे आयुबँदै च ग्रन्थकृत्त्वेन स्मृतस्तस्य मतानि च तत्रतत्रोधृतानि दृश्यन्ते । युधिष्ठिरमहाभागस्तं चक्रवर्मणसमसामयिक मन्यते । वयन्तु तमेव प्रणमामः प्रमाणाभावात् ।
 
=== शाकटायनः ===
शाकटायनो हि बहुत्र व्याकरणाचार्यत्वेन सादरं स्मृतः । भगवान्पाणिनिस्तं त्रिवारं स्मरति ‘लङ:शाकटायनस्यैव,<ref>३।४।१११</ref> व्योर्लघुप्रयत्नेतरः शाकटायनस्य<ref>८।३।१८</ref> 'त्रिप्रभृतिषु शाकटायनस्य'<ref>८।४।५०</ref> इति सूत्रेषु । तथैव वाजसनेयीयप्रातिशाख्ये<ref>३।९,३।१२, ३।८७</ref> ऋक्प्रातिशाख्ये<ref>१।१६,१३॥ ३९</ref> निरुक्त<ref>१।१२</ref> महाभाष्ये<ref>३।३।१, ३।२।११५</ref> काशिकायां<ref>१।४।८६</ref> चतुरध्याय्यां<ref>२/२४</ref> ऋक्तन्त्रे<ref>१/१</ref> बृहद्देवतायां,<ref>२।१,२।९५</ref> नानार्थर्णवसंक्षेपे<ref>६/२</ref> शाकटायनः स्मृतोऽस्ति क्वचित्सिद्धान्तित्वेन तु क्वचित्पर्व 'पक्षत्वेन । अर्थतत्क्रमेण विविच्यते ।
 
पाणिनिः शाकटायनं सिद्धवैयाकरणत्वेन स्मरति । तत्र अन्यमते .आतः परस्य ङित्सम्बन्धिने झेर्जुस् भवति । शाकटायनमते तु आदन्तात्परस्य लो झेर्वा जुस् भवति । यथा-या-अयुः, पाणिनिमते जुसोऽभावात् अयान् इति । तथैव शाकटायनमते पदान्तयोर्वकारयकारयोर्लधूच्चारणौ वयौ भवतोऽशि परे विकल्पेन । यथा भोयच्युत । शाकल्यमते तु तादृशयोर्वययोर्लोप एव भवति अवर्णपूर्वयोः, गार्यमते ओकारात्परयोरपि । पाणिनिमते तु तादृशयोर्यवयोः. पूर्णमेवोच्चारणं भवति लोपश्चन । शाकटायनमते त्र्यादिषु वर्णेषु संयुक्त षु न द्वित्वं भवति यथा इन्द्रः । पाणिनिमते तु भवत्येव द्वित्वं यथा इन्द्रः ।
 
यास्काचार्येणाऽपि स आचार्यत्वेन स्मृतः । यथोक्तं तत्र नामान्याख्यातज़ानीति शाकटायनो नैरुक्तसमयश्च ।<ref>निरु० १।१२</ref> [[महाभाष्यम्|महाभाष्ये]]<nowiki/>ऽप्युक्तम् - 'व्याकरणे शकटस्थ तोकम्<ref>३।३।१</ref> वैयाकारणानां शाकटानः<ref>३।२।११५</ref> काशिकायामुक्तम् - अनुशाकटायनं वैयाकरणाः<ref>१।४।८६</ref> उपशाकटायनं वैयाकरणाः<ref>१।४।८७</ref> वैयाकरणेषु शाकटायन एवैतादृशो विपश्चियः सर्वाण्यपि नामानि आख्यातजातानि मन्यते स्म । तद्विवारेऽव्युत्पन्नो नाम नैव कश्चिच्छब्दः । दुर्गाचार्यादयः शाकटायनस्येदं मतं अतिपाण्डित्याभिमानमण्डितमपि मन्यन्ते स्म । यथोक्तं निरुक्ते - 'अथानन्वितेऽप्रादेशिके विकारे पदेभ्यः पदेतरार्धान् संञ्चस्कार शाकटायनः । एतैः कारितं यकारादि चान्तः करणमस्तेः शुद्धश्च सकारादि च',<ref>१।१३</ref> योऽनन्वितेऽर्थे सञ्चस्कार स तेन गह्यः सैषा पुरुषगह न शास्त्रगर्दा ।<ref>१।१४</ref> तथैव च महाभाष्ये -
 
नाम च धातुजमाह निरुक्त व्याकरणे शकटस्यं च तोकम्।<ref>३।३।१</ref> चतुरध्याय्यां चतुर्थाध्याये कौत्सीयपाठे उक्त -
 
'''समासावग्रहविग्रहान् पदे यथोवाचे छन्दसि ।'''
 
'''शाकटायनस्तथा प्रवक्ष्यामि चतुष्टयं पंदम् ।।'''
 
नानाथर्णवसङ्क्षेपे केशवाचार्यः शाकटायनमादिशाब्दिकत्वेन स्मरति । यथा -
 
'''‘शाकटायसूरिस्तु व्याचष्टे स्मादिशाब्दिकः ।'''' इति ।
 
यद्यपि शाकट्टायनस्य व्याकरणं सम्प्रति नोपलभ्यते तथापि तत्र तत्र समुदधृतप्रमाणैज्ञते यद्धितहसर्वाङ्गपूर्ण सटिप्पणञ्चासीत् । तत्र हि वैदिकानां लौकिकानाञ्च पदानामञ्चाख्यानमासीत् । नागेशभट्टो यल्लौकिकपदानामेवान्वाख्यानं शाकटायनीयव्याकरणविषषं मन्यते तच्चिन्यमेव यत् स एव पञ्चपादीमुणादिमपि शाकटायनकृति मन्यते यत्र वैदिकानामपि शब्दानामंन्वाख्यानं कृतमस्ति । अपरञ्च प्रातिशाख्येषु तस्य शतशः स्मरणाच्छाकटायनीये लौकिकशब्दानामेवान्वाख्यानस्य कथनं महंती त्रुटिरेव । सम्भवति जैनशाकटायनंव्याकरणं प्राचीनार्षशाकटायनं मत्वैवैष भ्रम उत्पन्नः स्यात् ।
 
शाकटायनो हि अनेकैश्च धातुभिरेकमभिधानमनुविहितवान् एकेन चैकमिति दुर्गाचार्यः । स हि सत्यशब्दस्य सिद्धिं ‘इण' (गतौ) तथा ‘अस' (भुवि) धात्वोनिदिशति । यथाऽऽह स्कन्द -
 
'''‘कारितश्च यकारादि चान्तः करणमस्तेः शुद्धञ्च सकारादिञ्च ।''''
 
नामपदानामनेकधातुभ्यो व्युत्पत्तिर्नकेवलं . शाकटायननिर्दिष्टा अपितु शाकपूणिप्रभृतिनैरुक्ताचार्या अपि तथा व्युत्पादयन्तिस्म। ब्राह्मणारण्यकग्रन्थेषु च तथाविधा अनेका व्युत्पत्तयो दृश्यन्ते । यथा हृदयमिति-हरन्त्यस्मै स्वाश्चान्ये चेति ‘हु', इत्येकमक्षरं, दमन्त्यस्मै स्वाश्चान्ये चेति द इत्येकमक्षरं, एति स्वर्गलोकं य इति यमित्येकमक्षरम् । भर्ग इति-भ इति भाषयतीमाँल्लोकान्, र इति रञ्जयतीमानि भूतानि, ॥ इति गच्छन्त्यस्मिन्नागच्छन्त्यस्मादिमाः प्रजाः तस्माद्भरणत्वाद्भर्गः । शाकटायनमते शब्दानां त्रिविधत्वम्। यथाऽऽह न्यासकारो जिनेन्द्रबुद्धिः.' तदेवं निरुक्तकारशाकटायनदर्शनेन त्रयी शब्दानां प्रवृत्तिःजातिशब्दाः क्रियांशब्द गुणाशब्दाश्चेति ।
 
शाकटायनमते न सन्ति यदच्छाशब्दाः । प्रायः सर्वेषामाचार्याणां मते प्रादय उपसर्गाः शाकटायनमते 'अच्छ', 'श्रद्’ अन्तर' एते त्रयोऽप्युपसर्गाः । यथाऽऽह वृहद् देवतायां शौनकः -
 
'''अच्छश्रदन्तरित्येतानाचार्यः शाकटायनः ।'''
 
'''उपसर्गान् क्रियायोगान् मेने ते तु त्रयोऽधिकाः ।।'''
 
एतदधिकं शाकटायनविषये न किञ्चिदप्यस्माकं मतमस्ति । एतदतिरिक्त शाकटायनस्य दैवतग्रन्थः निरुक्त, कोषः ऋक्तन्त्रं, लघुऋक्तन्त्रं, सामतन्त्रं, पञ्चपादमुणादिसूत्र, श्रद्धकल्पश्चेति शाकटायनप्रणतित्वेन सम्मता ग्रन्थाः । शाकटायनं यास्कस्तत्पूर्ववर्ती शौनकश्च स्मरतीति तौ एव तस्य स्थितिकालस्यावरसीमानौ । तत्स्थितिकालस्य पूर्वसीमा तु अनुमानाधीना एव । तं, हि केचन काण्वशिष्यं मन्यन्तेऽपरे तु काण्वापरभिधानमेव । तथा सति तस्य स्थितिकालो विक्रमपूर्वतृतीयसहस्राब्दीसम सम्भवति । तथैव युधिष्ठिरमहाभागेऽपि निदिशति । वयं तु निर्गतिकासामेव प्रणमामः।
 
=== शाकल्यः ===
भगवता पाणिनिना स्वपूर्ववतवैयाकरणत्वेन स्मृतेषु आचार्येष्वन्यतमः । शाकल्यः । स हि पाणिनिसूत्रेषु चतुर्वारं स्मृतो यथा सम्बुद्धौ शाकल्यस्येतावनार्षे,<ref>१।१।१६</ref> इकोऽसवणे शाकल्यस्य ह्रस्वश्च,<ref>६।१।१२७</ref> लोपः शाकल्यस्य,<ref>८।३।१९</ref> सर्वत्र शाकल्यस्य<ref>८।४।५१</ref> इति । तथैव स शौनकेन ऋक्प्रातिशाख्ये<ref>३।१३, ३।१२, ४।१३</ref> तथैव कात्यायनेन वाजसनेयीयप्रातिशाख्ये<ref>३।१०</ref> महाभाष्ये च<ref>६।१।१२७</ref> स्मृतः ।
 
शाकल्यस्यापि व्याकरणग्रन्थस्तु नैवोपलभ्यते किन्तु ग्रन्थान्तरसहयोगाच्छाकल्यव्याकरणसम्बद्धमतं किञ्चिज्ज्ञायते । पाणिनीयोद्धरणानुसारेण सम्बुद्धिनिमितक ओकारो वा प्रगृह्यो भवति तु द्वितीयमेव रूपं सिध्यति । तथैव असवर्णेऽचि परे इक पदान्ता प्रकृत्या भवन्ति दीर्घस्य ह्रस्वश्च भवति शाकल्यमतेन । यथा कुमारी+अत्र= कुमारि अत्र । पाणिनिमते कुमार्यत्र । एवञ्च अवर्णपूर्वयोः पदान्तयोर्यवयोपो भवति वाऽशि परे । यथा हर इह, हरयिह । पाणिनिमते तु द्वितीयमेव रूपम् । तथैव शाकल्यंमते अचंः परस्य यरः सर्वत्रैव न द्वित्वंम् । इन्द्रः । पाणिनिमते तु इन्न्द्र। एतदपि ज्ञायते, यच्छाकल्यव्याकरणे वैदिककानां लौकिकानाञ्च शब्दानाभन्वाख्यानं कृतमासीत् ।
 
शाकल्यो हि शाकलाख्यस्य पुत्रः स्मृतः । शाकलशब्दो हि पाणिनिना। गर्गादिगणे पठितः । शाकल्यः शौनकेन ऋक्प्रातिशाख्ये स्मृतत्वात् तस्य शौनकपुर्वकालवंतता तु निश्चितैव । युधिष्ठिरमहाभागस्तं विक्रमपूर्वैकत्रिशच्छतकमभितः। स्थितिमन्तं मन्यते । वयमपि तदेव मद्धध्मः । शाकल्यो हि वेदसंहिताया अपि प्रवक्ता स्मृतः । यथोक्त वायुपुराणे-वेदमित्रस्तु शाकल्यो महात्मा द्विजस्तम्भः । । चकारसहिताः पञ्चबुद्धिमान् पदसत्तमः।<ref>६२।६३</ref> :: एवमेव शाकल्यकृतः पदपाठश्च स्मर्यते ग्रन्थेषु । एतदधिकं शाकल्यविषये न किमपि वयं जानीमः ।
 
=== सेनकः ===
सेनकाचार्यः पाणिनिना 'गिरेश्च सेनकस्य'<ref>५।४।११२</ref> इति सूत्रे स्मृतः ।। गिर्यन्तांदव्ययीभावाट्टज्वा भवति सेनकमतेन, उपगिरम्, उपगिरि । पाणिनिमते द्वितीयमेव रूपं भवति । आचार्योऽयं पाणिनिपूर्ववर्ती इति तु ज्ञातमेव पाणिनीयसूत्रे तस्योल्लेखात् । तदधिकं तद्विषये किमपि न वयं जानीमः ।
 
=== स्फोटायनः ===
भगवान् पाणिनिः स्फोटायनाचार्य 'अवङ् स्फोटायनस्य'<ref>६।१।१२३</ref> सूत्रे स्मृति । एतदतिरिक्तमस्याचार्यस्य न कुत्राप्युल्लेखो दृष्टः । स्फोटायनस्याऽपि व्याकरणं सम्प्रति नैवोपलभ्यते । पाणिनीयसूत्रानुसारेणैव तस्य सिद्धान्तो ज्ञातुं शक्यते । स हि अचि परे गोरवङादेश वाञ्छति, विकल्पेन । गो+अग्र = गवांग्रम् । पाणिनिमते तु सर्वत्र विभाषा । गोः' इति वा प्रकृतिभावेन गो अग्रं पक्षे तु ‘एड: पदान्तादति' इति पूर्वरूपेण * गोऽग्नम्। इन्द्रे, परे तु नित्यमवङादेशो भवति । तेन गो-इन्द्र =गवेन्द्रः ।
 
स्फोटायनस्य व्युत्पत्तिर्यथा : हरदत्तेन पदमञ्जय निर्दिष्टा स्फोटोऽयनं ।। परायणं यस्य स स्फोटायनः स्फोटप्रतिपादनपरो वैयाकरणाचार्यः । ये त्वौकारं. पठन्ति ते नडादिषु अंश्वादिषु वा पाठ मेन्यन्ते । केचित्तमौदुम्बरायणमपरें तु, कक्षीवानिति संजितमपि । कक्षीवच्छंब्दो हि पाणिनेः,<ref>८।२।१२</ref> सूत्रानुसारेण नियत्नासिध्यति ।
 
स हि वैमानिकाचार्यत्वेनापि स्मर्यते । 'चित्रिण्येवेति स्फोटायनः' इति मन्त्रसर्वस्वे भारद्वाजेन तथा स्मृतत्वात् । तस्य स्थितिकालविषये वयम किञ्चिज्ज्ञा एव । युधिष्ठिरो हि मीमांसकस्तस्य विक्रमपूर्वत्रिशेच्छतकमभितः स्थिति मन्यते । स हि अस्माकं वन्द्यः । स्फोटसिद्धौ भरतमिश्रः स्फोटवादस्य प्रवर्तकत्वेन औदुम्परायणं स्मरति । स्फोटायनस्यौदुम्बरायणाभिधानं यदि प्रमाणितं भवति तदा तु व्याकरणे स्फोटवादस्य प्रवर्तकत्वेन स्फोटायन एवोत्तिष्ठते । किन्तु तन्निरूपकप्रमाणाभावे तु वर्णसादृश्यमेव तत्रावशिष्यते ।
 
वस्तुतस्तु व्याकरणे स्फोटवादः शब्दनित्यत्ववादस्यांधारशिला। स्फोटेस्तु, द्रव्यं ध्वनिस्तस्य गुणः । स्फोटायनस्तस्याद्यप्रवर्तक इति तु परस्परोपयुक्तता मादधते । स्यादपि तथा । इत्थं पाणिनिस्मृता दश वैथेाकरणा यथामतिः समुपणिताः। अथांगाभिः प्रकरणे व्याकरणकेन्द्रस्थानन्वेन सम्मतस्य भगवतः पाणिनेविषयें किञ्चिदुच्यते | एतदतिरिक्त व्याकरणे सौनागमतमपि महाभाष्यकारेण सप्तवारं स्मृतम् । यथोक्तम् - 'सौनागाः कर्मणि निष्ठायां शकेरिटमिच्छन्ति विकल्पेन' इति । सुनोग' प्रवर्ततं मतमिदमन्यत्रापि समुद्धृतं दृश्यते । तदतिरिक्तमपि यास्काचार्येण: उदुम्बरायण औपमन्यव-काठक्य-चर्मशिरस्तैचिकी-शाकपूणिशतबलाक्ष-मौद्गल्य ! स्थौलस्थिविप्रभृतयो व्याकरणसम्प्रदायप्रवर्तकाः स्मृताः सन्ति । तत्रापि शाक पूणिरन्यत्रापि स्भृतो दृश्यते । तेषां विषयेऽनुसन्धानमपेक्षितमस्ति।
 
==मरणम्==
"https://sa.wikipedia.org/wiki/पाणिनिः" इत्यस्माद् प्रतिप्राप्तम्