"व्याकरणभाष्यकाराः" इत्यस्य संस्करणे भेदः

1
(भेदः नास्ति)

१०:२१, २६ सेप्टेम्बर् २०१९ इत्यस्य संस्करणं

व्याकरणभाष्यकाराः इत्युक्ते पाणिनेः व्याकरणशास्त्रम् आधारीकृत्य ये पण्डिताः स्वभाष्याणि अरचयन्, ते। महाभाष्यकारः तु पतञ्जलिः एव। परन्तु अन्ये अनेके वैय्याकरणाः पाणिनेः व्याकरणशास्त्रे स्वभाष्यम् अरचयन्। तेषु भर्तृहरिः, कैय्यटः, नागेशभट्टादयः प्रसिद्धाः।

पतञ्जलिः

मुख्यलेखः : पतञ्जलिः

पटञ्जलिः पाणिनिना लिखिते व्याकरणे महाभाष्यम् अरचयत्। मूलतन्त्रे भाष्यसूत्राणि चांदायोनेके भाष्यग्रन्थाः प्रणीता आसन् येषां स्वरूप । तु सम्प्रति नैवोपर्लम्यते किन्तुं तेषामस्तित्वं महाभाष्यस्मरणाज्ज्ञायते । महाभाष्यं हि मूलतन्त्रवतर्कसूत्राण्यांधृत्य प्रणींतो महाग्रन्थों यस्य प्रवक्ता पतञ्जलिं हिं भगवान् । उक्तमेव -

वाक्यकारं वरुचि भाष्यकार पतञ्जलिम्।

पाणिनि सूत्रकारञ्च'•••••••••••। इति ।

भाष्यलक्षणञ्च यथा -

सूत्रार्थो वय॑तेः यत्र वाक्यैः सूत्रानुसारिभिः ।

स्वपदानि च वन्दन्ते भाष्यं भाष्यविदो विदुः ॥

भतृहरिः

मुख्यलेखः : भर्तृहरिः

यद्यपि भतृ हरेः पूर्वमप्येनेकैविपश्चिदभिर्महाभाष्यस्य व्याख्याग्रन्था विरचिता इति तदुद्धरणादेव ज्ञायते किन्तु के च ते इति नैव ज्ञातमस्माकम् । भतृहरिः स्वयमेवापि तान्ः एके, अपरे, केचिदित्यादिसामान्यपदैरुद्धरति । तेन ज्ञातनामसु महाभाष्यव्याख्यातृषु भतृहरिरेव प्रथमः । भर्तृहरिणाऽपि पूर्वाचार्य।, समानमेव स्वविषये नैव किञ्चिदप्युक्तम् । केचिदमुं विक्रमादित्यस्य सहोदरं भ्रातरं मन्यन्ते। इत्सिङ्गस्त, तं सप्तमशतकीनं मन्यते । केचिदमुं-पतञ्जलि. शिष्यमपि कथयन्ति । युधिष्ठिरमहाभागेन हिं भर्तृहरेः - स्थितिकालनिर्धारणाय अष्टाभिदीर्घपृष्ठे: महान् प्रयासः कृतः । वयन्तु तेषामेव सारग्राहिणः । सो मान्यतो वयमपि एकाधिकभर्तृहयुपस्थिति मन्यामहे संस्कृतसाहित्ये।

महाभाष्यदीपिका-वाक्यपदीयं-तट्ट्टीका-भट्टिकाव्य-भागवृत्ति-शतकत्रय--मीमांसा भाष्य-वेदान्तसूत्रवृत्ति-शब्दधातुसमीक्षा-षष्ठीश्रावीवृत्तिश्च ति भर्तृहरिप्रणीतत्वेने प्रसिद्धा ग्रन्थाः । एषामेकभर्तृहरिकर्तृकत्वं वा एकाधिकभर्तृहरिकर्तृकत्वंञ्चेति । निर्णयोऽपि नैव सुकरः । सामान्यतो भागवृत्तेः भट्टिकाव्यस्य प्रणयनं तु निश्चयमेव भिन्नकर्तृ कमेव । सामान्यतो महाभाष्यदीपिका-वाक्यपदीय-तट्टीकादिग्रन्थप्रणेता एको भर्तृहरिः, अपरश्च भट्टिकाव्यकर्ता भागवृत्तिकृदन्यः शतकत्रयप्रणेताऽन्यः, शेषग्रन्थौघकृदन्य इत्यनेके भतृहरयः स्मृताः । केचित्तु तेषामैक्यमपि समर्थः यन्ति । प्रासंङ्गिको महाभाष्यदीपिकाक़द्भर्तृहरिस्तु विक्रमसमकालिको वा तत्पूर्ववर्त्यपि । शतपथव्यांख्याकारो हरिस्वामी ‘अन्ये तु शव्दब्रह्म वेदं विवर्तते अर्थ भावेन प्रक्रिया इत्यत आहुः ‘इति कथनेन वाक्यपदीयस्य विवर्ततेऽर्थभावेन प्रक्रिया जगतो यतः' इति पद्यमुल्लिखंति इति तत्कर्ता हरिस्वामिपूर्ववर्ती सिध्यति । हरिस्वामी च विक्रमार्कस्य धर्माध्यक्षः ३०४७ कलिगतवर्षेषु व्याख्यां कृतवानिति तस्यैव

श्रीमतोऽवन्तिनाथस्य विक्रमार्कस्य भूपतेः ।

धर्माध्यक्षो हरिस्वामी व्याख्याच्छातपथीं श्रुतिम् ।

यदाब्दानां कलेर्जग्मुः सप्त त्रिशच्छतानि वै ।

चत्वारिंशत्समश्चान्यास्तदा भाष्यमिदं कृतम् ।। " इति कथनेन सिध्यति ।

अपरञ्च, हरिस्वामी ‘अथवा सूत्राणि यथा विध्युदेश इति प्राभाकराः-अपः-प्रणयतीति यथा' इति प्रभाकरं स्मरति । प्रभाकरस्य गुरुः कुमारिलः तन्त्रवातिके वाक्यपदीयगतं तत्वावबोधशब्दानां नास्ति । व्याकरणादृते' इति वचनमुद्धृत्य' तदूपरसगन्धेष्वपि वक्तव्यमासीदिति खण्डपति :: कुमारिलश्च भट्टो विक्रमपूर्ववर्तीति संम्मतमेव । तत्पूर्ववर्ती एव भतृहरिरिति । तस्य प्राचीनत्वम् । अस्य हि विदुषो महाकाव्यदीपिका प्रामाणिको अन्थः । ग्रन्थोऽयं प्रथमं बासुदेवशरणाख्येन विदुषा प्राकाश्यं नीतः । तदस्य महापुरुषस्य न केवलं स्थितिकाल एवापितु तस्य जन्मस्थानविषयोऽपि नैव ज्ञातोऽस्माकम् । एतदनुमीयते । यत्काश्मीरकैर्जयादित्यवानांदिभिः प्रथमं नाम्नां स्मृतत्वात् ।

तथैव काश्मीरकाभ्यामेव हेलाराजपुण्यराजाभ्यां वाख्यपदीयस्य व्याख्यानात् । काश्मीरकैरेव सोमानन्दोत्पलाचार्यप्रभृतिशैवमताचार्यैर्वाक्यपदीयस्योद्धरणात्ततोऽपि महाभाष्यस्य प्रायः काश्मीरेष्वेवोपलब्धेश्च भर्तृहरिरपि काश्मीर एवेति । केचित्तु वर्तमानचुनारदुर्गं भर्तृहरेदुर्गत्वेन गृह्णन्ति । यदि स विक्रमातुजस्तदा तेन अवन्तिवासिना भाव्यमेव । विवादेऽस्मिन्नैकोऽपि पक्षः प्रामाणिकरूपेणॉपस्थितः। स चेत्काश्मीरकोऽभविष्यत्तदा कह्नणस्तमवश्यमेवाऽस्मरिध्यतु । तथापि तस्य काश्मीरकत्वे एव पण्डिताः समाश्वस्ता दृश्यन्ते । सम्प्रति महाभाष्यदीपिका त्रिपाद्येवोपलब्धा। किन्तु कतिपर्वग्रन्थान्तरोद्धरणैज्ञयते यत्सा महाभाष्यव्यापिन्येवाऽऽसीदिति । भाष्यदीपिकामेवानुजीवति कैयटः ।

"https://sa.wikipedia.org/w/index.php?title=व्याकरणभाष्यकाराः&oldid=446956" इत्यस्माद् प्रतिप्राप्तम्