"व्याकरणभाष्यकाराः" इत्यस्य संस्करणे भेदः

1
 
2
पङ्क्तिः ३४:
 
तथैव काश्मीरकाभ्यामेव हेलाराजपुण्यराजाभ्यां वाख्यपदीयस्य व्याख्यानात् । काश्मीरकैरेव सोमानन्दोत्पलाचार्यप्रभृतिशैवमताचार्यैर्वाक्यपदीयस्योद्धरणात्ततोऽपि महाभाष्यस्य प्रायः काश्मीरेष्वेवोपलब्धेश्च भर्तृहरिरपि काश्मीर एवेति । केचित्तु वर्तमानचुनारदुर्गं भर्तृहरेदुर्गत्वेन गृह्णन्ति । यदि स विक्रमातुजस्तदा तेन अवन्तिवासिना भाव्यमेव । विवादेऽस्मिन्नैकोऽपि पक्षः प्रामाणिकरूपेणॉपस्थितः। स चेत्काश्मीरकोऽभविष्यत्तदा कह्नणस्तमवश्यमेवाऽस्मरिध्यतु । तथापि तस्य काश्मीरकत्वे एव पण्डिताः समाश्वस्ता दृश्यन्ते । सम्प्रति महाभाष्यदीपिका त्रिपाद्येवोपलब्धा। किन्तु कतिपर्वग्रन्थान्तरोद्धरणैज्ञयते यत्सा महाभाष्यव्यापिन्येवाऽऽसीदिति । भाष्यदीपिकामेवानुजीवति कैयटः ।
 
== कैयटः ==
{{मुख्यः|कैय्यटः}}
कैय्यटोऽपरो महाभाष्यव्याख्याकृद्विचक्षणः। स हि काश्मीर इति तु नाम्नैव । प्रतीयते । प्रदीपपुष्पिकातो ज्ञायते यत्तस्य पिता जैयटः । तस्यापि कालोअनिश्चित एव । तं हरदत्तः ‘यद्वा प्रतिपरसमनुभ्योऽक्ष्ण इति टच समासान्तः । इति कथनस्य'.अन्ये तु. प्रतिसरसमनुभ्योऽक्ष्ण इति शरत्प्रभृतिषु पाठात् टच्: समासात इत्याहुः।' इति कैथनेनोद्धरति । तथैव हे त्रपु हे अपो इति- हे त्रपु. इति प्राप्ते हे पो भवतीत्यर्थः । इति कैयटवाक्यं हरदत्तः 'हे त्रप्विति प्राप्ते । है त्रप इति भवतीति भाष्यं व्याचक्षाणा नित्यमेव गुणमिच्छन्ति' इति । समुद्धरति । अनेन च कैयटस्यै हरदत्तपूर्ववतत्वं सिध्यति । मैत्रेयरक्षितश्च धेर्मकीर्तेः रूपावतारं स्मरति । धर्मकीर्तिश्च पदमञ्जरीमितिः शृङ्खलयाः सर्वान् । संयोज्यं । युधिष्ठिरमीमांसक एकां प्रामाणिक समयतालिकामुपस्थापयति । यथा--
{| class="wikitable"
|सर्वानन्दः
|टीकासर्वस्वम्
|१२१५
|वै०
|-
|मैत्रेयरक्षितः
|धातुप्रदीपः
|११६५
|वै०
|-
|धर्मकीतिः
|रूपावतारः
|११४०
|वै०
|-
|हरदत्तः
|पदमञ्जरी
|१११५
|वै०
|-
|कैयटः
|महाभाष्यप्रदीपः
|११९०
|वै०
|}
तेन हि कैयटो न्यूनतममपि वैकमैकादशशतकात्पूर्ववत्यैव सम्भवति से ततोऽपि प्राचीनतरः । कैयटो हि भाष्यव्याख्यायां भर्तृहरिमुपजीवति । स स्वयमेव कथयति -
 
'''तथापि हरिबर्द्धन सारेण ग्रन्थसेतुना।'''
 
'''क्रममाणः शनैः पारं तस्य प्राप्तास्मि पङ्गुवत्'''' इति ।
 
तस्य गुरुर्महेश्वरो नाम । यथा तेनैवोक्त -
 
'''पदवाक्यप्रमाणानां पारं यातस्य धीमतः ।'''
 
'''गुरोर्महेश्वरस्यापि कृत्वा चरणवन्दनम् ।।''' इति ।
 
स एवाग्रे कथयति–कैयटो जयटात्मजः इति । सत्यमेव भाष्यप्रदीपो हि महाभाष्यार्णवतरणिः केवलः स एव भाष्यमर्मज्ञानाय सम्प्रति समुंपलब्धो ग्रन्थः ।
 
महाभाष्यप्रदीपस्यानेकैविचक्षणैः व्याख्या कृता । तेषु हि. चिन्तामणिः, मङ्गलयज्वा, रामचन्द्रसरस्वतिः, ईश्वरानन्द सरस्वतिः, अन्नम्भट्टः, नारायण रामसेवकः, नारायणशास्त्री, नागेशभट्टः, प्रवर्तकोपाध्यायः आदेन्नः सर्वेश्वर, ... हरिरामः, गुरुप्रसादशास्त्री च प्रसिद्धाः । व्याख्याग्रन्थाश्च चिन्तामणे: (१५०० । १५५० वै०) महाभाष्यकैयटप्रकाशः, मङ्गलयज्वनः (१५२५ वै०)कैरोट, टिप्पणी, रामचन्द्रस्य (१५२५-१६.०० वै०) कैयटविवरणम्, ईश्वरानन्दस्य ( १५५०-१६०० वै० ) महाभाष्यप्रदीपविवरणम्, अन्नम्भट्टस्य (१५५०= १६०० वै०) प्रदीपोद्द्योतनम्, नारायणस्य (१६५४ वै०) प्रदीपविवरणम्, रामसेवकस्य (१६५०-१७०० वै०) महाभाष्यप्रदीपव्याख्या, नारायणस्य (१७१०-१७३० वै०) महाभाष्यप्रदीपव्याख्या, प्रवर्तकोपध्यायस्य (१६५ p= १७०० वै०') महाभाष्यप्रदीपप्रकाशिका, नागेशभट्टस्य (१७३०-१८१० वै०) प्रदीपोद्द्योतः, आदेन्नस्य ‘महाभाष्यप्रदीपस्फूतिः सर्वेश्वरस्यापि महाभाष्य! प्रदीपस्फूतिः हरिरामस्य महाभाष्यप्रदीपव्याख्या, गुरुप्रसादशास्त्रिणः राजलक्ष्मीश्न प्रसिद्धाः। तेष्वपि नागेशभट्टस्ये उद्योतो गुरुप्रसादस्य राजलक्ष्मीश्य सम्प्रति सुलभैः शेषस्तु पुस्तकालयेष्वेव ।
 
== नागेशभट्टः ==
{{मुख्यः|नागेशभट्टः}}
नागेशभट्टो हि नव्यवैयाकरणेषु मूर्धन्यः । तस्य हि महाभाष्यप्रदीपोद्योतो नितान्त प्रौढः प्राञ्जलश्च ग्रन्थः । | नागेशो हि महाराष्ट्रिय ब्राह्मणः । तस्य पिता शिवभट्टों माता च सतीदेवी। हरिदीक्षितस्तस्य गुरुर्वैद्यनाथश्च प्रधानशिष्यः । वैक्रमानन्तर १७३०-१८१० मितवर्षांण्यभितस्तस्य स्थितिकालः । स हि शृङ्गवेरपुराधीशाश्रितः पण्डितः । स हि स्वयमेव कथयति ।
 
'''पातञ्जले महाभाष्ये कृतभूरिपरिश्रमः ।'''
 
'''शिवभट्टसुतो धीमान् सतीदेव्यास्तु गर्भजः ।'''
 
'''याचकानां कल्पतरोररिकक्षहुताशनात् ।'''
 
'''शृङ्गवेरपुराधीशाद् रामतो लब्धजीविकः ।''' इति ।।
 
एवञ्च उद्द्योतारम्भे स कथयति -
 
'''नाविस्तीर्णं न विस्तीर्ण मध्यानामपि बोधकृत् ।'''
 
'''भाष्यप्रदीपव्याख्यानं कुर्वेऽहं तु यथामति ।।'''
 
एतदतिरिक्तमपि नागेशस्य लघुशब्देन्दुशेखर-बृहच्छब्देन्दुशेखर-परिभाषेन्दुशेखर-लघुमजुषा-परमलधुमञ्जुषा-वैयाकरणसिद्धान्तमजुषा--स्फोटवाद-महाभाष्यप्रत्याख्यानसंग्रहप्रभृतयो ग्रन्थाः सम्प्रति समुपलब्धाः प्रसिद्धाश्च । तस्य हिं प्रदीपोद्योतोपरि वैद्यनाथस्य छायानाम्नी टीका प्रसिद्धा । तथैव गुरुप्रसादशास्त्रिणः राजलक्ष्मी नाम्नी टीका च ।
"https://sa.wikipedia.org/wiki/व्याकरणभाष्यकाराः" इत्यस्माद् प्रतिप्राप्तम्