"मार्कण्डेयः" इत्यस्य संस्करणे भेदः
Content deleted Content added
No edit summary |
|||
पङ्क्तिः ६:
}}
मार्कण्डेयः पुराणे प्रसिद्धः
==जन्म==
मृकण्डुऋषेः अपत्यम् नासीत्। अतः सः
==मृत्योः तारणम्==
[[File:Raja Ravi Varma, Markandeya.jpg|left|thumb|यमाद् मार्कण्डेयं रक्षन् शिवः]]
मार्कण्डेयः सर्वदा अपि [[शिवः|शिवपूजने]] एव रतः आसीत्। शिवलिङ्गस्य अर्चने एव सः समयं यापयति स्म। यदा तस्य आयुः षोडशवर्षं भवति, तदानीं [[यमः]] तं नेतुम् आगच्छति। परन्तु सः शिवपूजायां निरतः इति कारणतः तं स्प्रष्टं न शक्नोति। परन्तु समाप्तायुः सः कथञ्चित् नेतव्यः इति कृत्वा नासिकायां गृहीत्वा कर्षति। तदानीं मार्कण्डेयः शिवलिङ्गस्योपरि पतति। शिवः तत्रागत्य यमेन सह युद्धं करोति। यमः पराजितः भवति। शिवः मार्कण्डेयः चिरञ्जीवी भवतु इति वरं दत्तवान्। अतः एव सप्तानां चिरञ्जीविनां नामोच्चारणानन्तरं मार्कण्डेयस्यापि नामोच्चारणं क्रियते। यथा-
<nowiki><poem></nowiki>[[अश्वत्थामा]]
[[कृपः]]
सप्तैतान् संस्मरेन्नित्यं मार्कण्डेयं तथाष्टमम्।
जीवेद्वर्षशतं साग्रं सर्वव्याधिविवर्जितः<ref>[https://books.google.co.in/books?id=jWB1AgAAQBAJ&pg=PA118&lpg=PA118&dq=%E0%A4%85%E0%A4%AA%E0%A4%AE%E0%A5%83%E0%A4%A4%E0%A5%8D%E0%A4%AF%E0%A5%81+%E0%A4%B5%E0%A4%BF%E0%A4%B5%E0%A4%B0%E0%A5%8D%E0%A4%9C%E0%A4%BF%E0%A4%A4&source=bl&ots=ZB-r-UCO5M&sig=ACfU3U3hYDrQbO_eRqmkdCbbfVYEJL0QUQ&hl=en&sa=X&ved=2ahUKEwizm6KT6ozmAhWOwJQKHcgrCeIQ6AEwAnoECAoQAQ#v=onepage&q=%E0%A4%85%E0%A4%AA%E0%A4%AE%E0%A5%83%E0%A4%A4%E0%A5%8D%E0%A4%AF%E0%A5%81%20%E0%A4%B5%E0%A4%BF%E0%A4%B5%E0%A4%B0%E0%A5%8D%E0%A4%9C%E0%A4%BF%E0%A4%A4&f=false मृत्युञ्जयभारतम्]</ref>॥<nowiki></poem></nowiki>
==पार्वत्याः वरदानम्==
मार्कण्डेयपुराणान्तर्गते सतीपुराणे [[पार्वती|पार्वत्याः]] वरदानस्य उल्लेखः विद्यते। चिरञ्जीविने मार्कण्डेयाय पार्वती वीरचरिताख्यं स्तोत्रं रचयितुं शक्तिं दत्तवती। तेन मार्कण्डेयः पार्वत्याः चरितम् लिखितवान्। तदेव अद्यत्वे दुर्गासप्तशती इति प्रसिद्धं विद्यते<ref>Sati Purana | David Kinsely Englis translation | 2012 edition</ref>।
==भागवते==
[[Image:Shesh shaiya Vishnu.jpg|thumb|विष्णुं प्रार्थयमानः मार्कण्डेयः]]
[[भागवतपुराणम्|भागवतपुराणे]] मार्कण्डेयस्य अपरा कथा वर्तते। तत्र कदाचित् मार्कण्डेयः [[विष्णुः|विष्णोः]] सन्निधानं गत्वा मायाशक्तिः दर्शनीया इति न्यवेदयत्। [[विष्णुः]] स्वमायां दर्शयितुं समुद्रे वटपत्रे शिशुरूपेण शयनम् अकरोत्। मार्कण्डेयं परितः जलं व्यापृतम्। मार्कण्डेयः रक्षां प्राप्तुं विष्णोः मुखं प्रविष्टः। विष्णोः उदरे प्रविश्य सप्त लोकान् सर्वाणि सम्राज्यानि च दृष्टवान्। विष्णोः स्मरणेन ततः बहिः आगतवान्। तदनन्तरं १००० वर्षाणि यावत् विष्णोः सह एव जीवनं यापितवान्। तस्मिन् एव काले बालमुकुन्दाष्टकम् अरचयत् च<ref>http://srimadbhagavatam.com/12/9/en1 Bhagavata Purana, Canto 12, Chapter 9: Mārkaṇḍeya Ṛiṣhi Sees the Illusory Potency of the Lord Narayana</ref>।
==महाभारते==
[[महाभारतम्|महाभारते]] अपि मार्कण्डेयऋषेः उल्लेखः विद्यते। [[पाण्डवाः|पाण्डवानां]] वनवासकाले मार्कण्डेयः काम्यकवनमागत्य पाण्डवान् अबोधयत्। तथैव कन्यादानकालः, कन्यादानकर्ता, पातिव्रत्यम् इत्यादिविषये [[नारदः|नारदेन]] सह सम्भाषणं च अकरोत् इत्युल्लेखः दृश्यते। मार्कण्डेयाश्रमः सरयूगोमतीनद्योः सङ्गमस्थाने वर्तते।
==उल्लेखाः==
|