"प्लातोन्" इत्यस्य संस्करणे भेदः

(लघु)
सम्पादनसारांशरहितः
It was a one sentence article. I've made it a 450 one by expanding it
(लघु)No edit summary
पङ्क्तिः ९:
केषाञ्चन प्राणिनां कशेरुकं भवति ते [[कशेरुकाः]] । केषाञ्चन प्राणिनां कशेरुकं न भवति ते [[अकशेरुकाः]] । केचन प्राणिनः अण्डरूपेण जन्म प्राप्नुवन्ति । अन्ये केचन प्राणिनः मातृवत् रूपं प्राप्य जन्म प्राप्नुवन्ति । केषाञ्चन प्राणिनां शरीरस्य उष्णता तेषां वसतिस्थानस्य परिसरस्य अनुगुणं परिवर्तते । कदाचित् शीतलं कदाचित् उष्णं वा भवति शरीरम् । ते [[शीतरक्तप्राणिनः]] । केषाञ्चन प्राणिनां शरीरस्य उष्णता सर्वदा समाना भवति । ते च [[उष्णरक्तप्राणिनः]] । इत्येतान् अंशान् संशोध्य उल्लिखितवान् । अरिस्टाटल्स्य अपेक्षानुगुणं सस्यानं प्राणिनां च प्रभेदानां सङ्ग्रहणाय तस्य शिष्यः अलेक्साण्डरः व्याधान्, वाटिकारक्षकान्, धीवरान् च असूचयत् । जगति विद्यमानस्य सर्वस्य अपि देशस्य प्राणिवैविध्यं, सस्यवैविध्यं च सङ्ग्रहीतुं ग्रीस्-देशे, एषियाखण्डे च सहस्राधिकाः नियुक्ताः आसन् अलेक्साण्डरेण । तैः सङ्गृहीतं सर्वं प्राप्य अध्ययनं संशोधनं च कृत्वा अरिस्टाटल् "जीवशास्त्रस्य पितामहः” इति प्रसिद्धः सञ्जातः ।
 
<br />
जगतः ज्ञानभण्डारं प्रवेष्टुम् अरिस्टाटल् समीपे विद्यमाना कुञ्चिका नाम तर्कः एव । वस्तुस्थितिः तेन अरिस्टाटलेन प्राप्तस्य ज्ञानस्य आधारः आसीत् । परितः विद्यमानं सर्वम् अपि सूक्ष्मेक्षिकया परिशील्य, वास्तविकैः अंशैः सिद्धान्तं निरूपयतः तस्य वैज्ञानिकः मनोधर्मः आसीत् । अयम् अरिस्टाटल् न केवलं शिष्यान् बोधयति स्म अपि तु सामान्यानां जनानाम् अवगमनाय् उपन्यासम् अपि करोति स्म । अरिस्टाटल् ४०० पुस्तकानि लिखितवान् इति ज्ञायते । तस्य पुस्तकानि ४ शतकस्य ग्रीक्विद्वत्ततायाः विश्वकोषः इति वक्तुं शक्यते । सः खगोलविज्ञानविषये, भौतशास्त्रे, [[काव्यम्|काव्ये]], जीवशास्त्रे, प्राणिशास्त्रे, राज्यशास्त्रे, तर्कशास्त्रे, नीतिशास्त्रे, वाक्पटुत्वविषये च ग्रन्थान् अलिखत् । २०००वर्षेभ्यः पूर्वं तेन कृतानि संशोधनानि अवलोकनानि च अद्यतनीयाः विज्ञानिनः अपि अङ्गीकुर्वन्ति ।
 
क्रि.पू.३२३तमे वर्षे चक्रवर्ती अलेक्साण्डरः "ब्याबिलान्” इति प्रदेशे मरणम् अवाप्नोत् । तदा शिष्यस्य मरणवार्तां ज्ञात्वा, स्वस्य प्राणानाम् अपायम् अवलोक्य "काल्सिस्” इति प्रदेशं प्रति पलायनम् अकरोत् । तदनन्तरवर्षे एव ६३तमे वयसि क्रि.पू.३२२तमे वर्षे अरिस्टाटल् दिवं गतः । विश्वस्य इतिहासे एव "आश्चर्यकरः गुरुः” इति कीर्तिं प्राप्तवान् अस्ति अरिस्टाटल् ।
[[वर्गः:विदेशीयव्यक्तिसम्बद्धाः स्टब्स्]]
[[वर्गः:सर्वे अपूर्णलेखाः]]

सम्पादन

"https://sa.wikipedia.org/wiki/विशेषः:MobileDiff/448385" इत्यस्माद् प्रतिप्राप्तम्