"६.२८ युञ्जन्नेवं सदा..." इत्यस्य संस्करणे भेदः

<!--{{तलं गच्छतु}} {{Infobox settlement |name= {{PAGENAME}} |native_name = <br>'''----''' |image = File... नवीनं पृष्ठं निर्मितमस्ति
(भेदः नास्ति)

१३:२१, २३ डिसेम्बर् २०१९ इत्यस्य संस्करणं

श्लोकः

 
गीतोपदेशः
युञ्जन्नेवं सदात्मानं योगी विगतकल्मषः।
सुखेन ब्रह्मसंस्पर्शमत्यन्तं सुखमश्नुते ॥ २८ ॥

अयं भगवद्गीतायाः षष्ठोध्यायस्य आत्मसंयमयोगस्य अष्टाविंशतितमः(२८) श्लोकः ।

पदच्छेदः

युञ्जन् एवं सदा आत्मानं योगी विगतकल्मषः। सुखेन ब्रह्मसंस्पर्शम् अत्यन्तं सुखम् अश्नुते।

अन्वयः

विगतकल्मषः योगी एवं सदा आत्मानं युञ्जन् सुखेन ब्रह्मसंस्पर्शम् अत्यन्तं सुखम् अश्नुते।

शब्दार्थः

विगतकल्मषः = नष्टमालिन्यः
योगी = योगवान्
एवम् = इत्थम्
सदा = सर्वकाले
आत्मानम् = स्वम्
युञ्जन् = प्राप्नुवन्
सुखेन = आनन्देन
ब्रह्मसंस्पर्शम् = परमात्ममेलनं
अत्यन्तम् = बहु ।
सुखम् = आनन्दम् ।
अश्नुते = खादति ।

अर्थः

सदा यः आत्मचिन्तनं करोति सः सुखेन परमात्मानं प्राप्नोति।

बाह्यसम्पर्कतन्तुः

सम्बद्धाः लेखाः

"https://sa.wikipedia.org/w/index.php?title=६.२८_युञ्जन्नेवं_सदा...&oldid=449082" इत्यस्माद् प्रतिप्राप्तम्