"पाणिनिः" इत्यस्य संस्करणे भेदः

2
(लघु) ! चिह्नम् अपसारितम्
पङ्क्तिः २५:
| influenced =
}}
'''पाणिनिः''' (Panini) संस्कृतभाषायाः महान् वैय्याकरणः । तेन लिखितः [[अष्टाध्यायी]]नामकः व्याकरणग्रन्थः विश्वप्रसिद्धः वर्तते ।
 
संस्कृतभाषायाः प्राचीनाः वैयाकरणाः नामभिः स्तूयन्ते यथा-
पङ्क्तिः १२३:
 
== स्थितिकालः ==
यथा च पाणिनेः जन्मकर्मभूमिविषयेऽस्माकमज्ञता विद्यते तथैव तत्काल' विषयेऽपि । पाणिनिः कदाऽमूदिति विषयमवलम्ब्य सन्त्यनेके ग्रन्थाः प्रणीताः | किन्तु नैकत्रापि विदुषां संवादिता तद्विषये । महाभारतयुद्धकालात् ( कलेरा! रम्भादेकपञ्चाशद्वर्षपूर्वम्कलेरारम्भादेकपञ्चाशद्वर्षपूर्वम् ) आरम्यं विक्रमपूर्वप्रथमशतकपर्यन्तं पाणिनेः कालोऽनुमितः पौर्वात्यपाश्चात्यविचक्षणैः । तेऽपि स्वमतसमर्थकाय वाह्यमाभ्यन्तरञ्च । साक्ष्य प्रस्तुवन्ति । तेषु हि युधिष्ठिरमहाभागो विक्रमार्गादेकोनत्रिशच्छतमितवर्षपूर्वं सत्यव्रतः २३५० वर्षपूर्वं, गोल्डस्टुकरः ६५० वर्षपूर्व, बेलबेलकरश्च ६५०' वर्षपूर्वं, भाण्डारकरश्न ६५० वर्षपूर्वं, वासुदेवशरणः ४५० वर्षांपूर्वी मैक्डोनलः ४५० वर्ष पूर्वं, मैक्समूलरः ३०० वर्षपूर्वं, वेवरः २५० विक्रमपूर्वं, कीथश्च २५० विक्रमपूर्वं पाणिनिकालमामनन्ति । कतिपयेऽन्ये मौनमाश्रयन्ते, इतरेऽनिर्वाच्यमपि मन्यन्ते । वयन्तु ज्ञानतोऽज्ञानतो वा कथासरित्सागरमेवानुसृत्य पाणिन नन्दसमकालिकमेव मन्यमानाः विष्णुपुराण-श्रीमद्भागवतप्रभृतिग्रेन्थोदितनन्दाभिषेककालमाकलय्य भगवन्तं पाणिनि श्रीमन्नुपविक्रमाकद द्विसहस्रवर्ष पूर्वभवं मन्यामहे । तत्र प्रथभं युधिष्ठिरभीमांसकमतं सङ्क्षेपतः प्रस्तूयते । युधिष्ठिरो हि महाभागः स्वमतपुष्टये सुबहनि अन्तःसाक्ष्ये समाधृतानि प्रमाणानि प्रस्तौति येषां समग्र विवेचनं तु लघुकायेऽस्मिन् ग्रन्थे न सम्भवति । केवलं तेषां सारमेवोपस्थाप्यतेऽत्र ।
 
१. पाणिनिः नन्दकालस्थितिमानिति कथासरित्सागरे यदुक्त तत्कथाकारस्य भ्रम एव । सम्भवति चैष भ्रमो बौद्धकालिकगोत्रनामव्यवहारासमुत्पन्नः स्यात् । पाणिनिवररुच्योः समकालिकत्वं कदापि न सम्भवति । तत्रापि वृररुचेः कौशाम्बेयत्वं हास्यास्पदं यतः पतञ्जलिह वातिककारं दाक्षिणात्यं मन्यते ।
"https://sa.wikipedia.org/wiki/पाणिनिः" इत्यस्माद् प्रतिप्राप्तम्