"व्याकरणदार्शनिकग्रन्थाः" इत्यस्य संस्करणे भेदः

व्याकरणम्
 
पङ्क्तिः १:
'''व्याकरणदार्शनिकग्रन्थाः''' [[व्याकरणम्|व्याकरणे]] प्रवर्तमानानां [[भारतीयदर्शनशास्त्रम्|दर्शन]]<nowiki/>स्वरूपं निरूपयन्ति। तेषां प्रचलनस्य आरम्भसीमा न प्राप्यते, परन्तु एतस्याः परिपाटेः प्रचलनं शास्त्रे दरीदृश्यते। तेषु व्यक्तिविवेकादयः ग्रन्थाः प्रसिद्धाः सन्ति।
 
'''अर्थप्रवृत्तितत्वानां शब्दा एव निबन्धनम् ।'''
पङ्क्तिः १४:
 
== इतिहासः ==
[[व्याकरणम्|व्याकरणशास्त्रे]] हि दार्शनिकविवेकस्योद्गमः कदा प्रभृति प्रचलितं वा केन प्रर्वाततमिति तु न शक्यते निश्चयेन वक्तम् । यास्काचार्यस्य निरुक्त हि<ref>१/१</ref> शब्दनित्यत्वविषयकचर्चायाः सत्तया तत्पूर्वमपि अस्यास्तित्वमासीदिति ज्ञायते । यथोक्तं तत्र ‘इन्द्रियनित्यं वचनमौदुम्बरायणः' तत्र चतुष्ट्वं नोपपद्यते अयुगपदुत्पन्नानां वा शब्दानामितरेतरोपदेशः । शास्त्रकृतो योगश्च।" ( इति शब्दानित्यत्ववादिन आक्षेपः ।)
 
'व्याप्तिमत्त्वात्तु शब्दस्य' ( इति शब्दनित्यत्ववादिनः समाधानग्रंथः )। अस्यायमाशयो यद् इह तावदुक्त नामाख्यातोपसर्गनिपातेतिपदचतुष्टयं वचनानित्यत्वान्नोपपद्यते । इन्द्रो ह्यात्मा तेन ईयतेऽनुमीयते इति इन्द्रियम् । आत्मा हि कर्ता इन्द्रियं हि करणम् । नाकर्तृकं करणं सम्भवति । तेन यावदेव वक्तवगिन्द्रिये वचनं तावदेव तदस्तीति शक्यते वक्तम् । तस्माद्वचनानित्यत्वात्पद- . चतुष्ट्वानुपपत्तिरित्युपपन्नमित्यौदुम्बरायणमतम् ।
"https://sa.wikipedia.org/wiki/व्याकरणदार्शनिकग्रन्थाः" इत्यस्माद् प्रतिप्राप्तम्