"शृङ्गेरी" इत्यस्य संस्करणे भेदः

राज्यानि
No edit summary
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः ५८:
 
[[Image:Sharadamba Temple.jpg|200px|thumb|right|शारदाम्बामन्दिरम्]]
'''श्रृङ्गेरीशृङ्गेरी''' (Sringeri) [[कर्णाटकम्|कर्णाटकराज्य]]स्य [[चिक्कमगळूरुमण्डलम्|चिक्कमगलूरुमण्डले]] विद्यमानं किञ्चन प्रसिद्धं तीर्थक्षेत्रम् । [[तुङ्गा]]तीरे स्थितं श्रृङ्गेरीक्षेत्रं मलेनाडुप्रदेशस्थं सुन्दरं स्थानम् अस्ति । एतत् क्षेत्रं '''शृङ्गगिरिः''' इत्यपि जनाः कथयन्ति । पौराणिकदृष्ट्या [[ऋष्यशृङ्गः|ऋष्यश्रृङ्गमुनेः]] [[विभाण्डकः|विभाण्डकमुनेः]] च तपोभूमिः । [[शङ्कराचार्यः|आदिशङ्कराचार्यैः]] अष्टमे शतके एव अत्र वेदान्तज्ञानपीठं शारदापीठं च स्थापितम् आसीत् ।
 
[[पुरी]] [[बदरीनाथः|बदरी]] [[द्वारका]] [[उज्जैन|उज्जयिनी]]पीठानि इव अत्रापि तपस्विनां विदुषां च केन्द्रं निर्मितम् आसीत् । अत्र विद्यमानस्य [[श्रीचक्रम्|श्रीचक्रस्य]] शारदाम्बामूर्तेः च प्रतिष्ठापनं च शङ्कराचार्यैः एव कृतमस्ति । चन्दनदारुशिल्पमयी मूर्तिः एषा [[जम्मूकाश्मीरराज्यम्|काश्मीरतः]] आनीता इति श्रूयते । अत्र श्रीमातरं [[ब्राहमी]] [[माहेश्वरी]] [[वैष्णवी]] [[इन्द्राणी]] [[चामुण्डा]] [[राजराजेश्वरी]] इति च पूजयन्ति । देशस्य शक्तिदेवतासु शारदाम्बाऽपि अन्यतमा अस्ति । १४ शतके निर्मितः विद्याशङ्करदेवालयः पूर्णतया शिलानिर्मितः कलारत्नः विभिन्नशैलीमिश्रणरुपश्च । विजयनगरशिल्पमपि अत्र पश्यामः । देवालयस्य द्वादशस्तम्भाः [[राशिविज्ञानम्|द्वादशराशीन्]] सूचयन्ति । प्रति[[मासाः|मासं]] [[सूर्यः|सूर्यस्य]] प्रथमकिरणं निर्दिष्टे स्तम्भे पतति । [[नवरात्रम्|नवरात्रिपर्व]] अत्र विशेषेण प्रचलति । विद्यादानम् अन्नदानं ज्ञानदानं च सर्वदा अत्र प्रचलन्ति । [[तुङ्गा]]नदीतीरे श्रृङ्गेरीपीठस्य पूर्वतनयतीनां मूर्तयः सभामण्डपाः उद्यानं च निर्मितानि सन्ति । [[वेदः|वेदा]]ध्ययनं वेदघोषः [[शास्त्रम्|शास्त्रा]]ध्ययनं च अविरतं प्रचलति ।
 
[[Image:Profile of the Vidyashankara Temple at Shringeri during monsoon.jpg|thumb|right|श्रीविद्याशङ्करदेवालयः]]
 
==मार्गः==
:[[बेङ्गळूरु]]तः ३२६ कि.मी.
"https://sa.wikipedia.org/wiki/शृङ्गेरी" इत्यस्माद् प्रतिप्राप्तम्