पङ्क्तिः २९८:
#[[विकिपीडिया:प्रयोगपृष्ठम्]]
एषः पृष्ठः अपि अनावश्यकम् अस्ति। [[मुकेश_अंबानी]]--[[User:Harshil169|Harshil169]] ([[User talk:Harshil169|चर्चा]]) १६:०५, ८ फरवरी २०२० (UTC)
:भवतः सम्पादनेच्छा अस्ति इति आनन्दाय। परन्तु अत्र केवलं शुद्धं संस्कृतम् आवश्यकम्। अन्यथा एकस्य जनस्य दोषत्वात् सम्पूर्ण-विकिपीडिया-समुहस्य उपरि दोषारोपणं भवति यत्, अत्र सर्वम् अशुद्धम् एव भवति इति। अतः कथञ्चिदपि शुद्धं लिखतु। अहमपि विकिपीडिया-जाले लिखन् लिखन् एव सर्वं ज्ञातवान्। परन्तु मुख्यधारायां लेखाः न लेखनीयाः। प्रयोगपृष्ठे एव निर्माणं करोतु। ततः कमपि गुरुजनम् उत ज्येष्ठं प्रदर्शयतु, तेभ्यः स्वदोषाणां ज्ञानं प्राप्य परिष्कारं कृत्वा तस्य दोषस्य पुनरावृत्तिः न भवेत् तथा पुनः प्रयोगपृष्ठे लेखं लिखतु। एवं कृत्वा कृत्वा भवान् शुद्धं संस्कृतं लेखितुं शक्नोति। ततः अपि लेखनं मा प्रारभतु। पूर्वम् अन्यलेखान् पठतु। पठित्वा पठित्वा भवतः ज्ञानं भविष्यति यत्, कथं लेखनीयम् इति। अनेन लाभद्वयम् अस्ति, एकं तु भवतः भाषापरिष्कारः भविष्यति, अपरञ्च लेखे कदाचित् टङ्कनदोषः अस्ति, "तर्ह" -> तर्हि परिष्कारः अपि भविष्यति। एवं भवतः, विकि-जालस्य च लाभः निश्चितः। अत्र अद्य एव सम्पादनं कृत्वा केवलं भवतः मनःशान्तिः भविष्यति, परन्तु विकि-जालस्य शुद्धतायाः हानिः भविष्यति। अतः स्वयमेव शुद्धं लेखितुं प्रयत्नं करोतु, अत्र कस्यापि कार्यस्य शीघ्रता नास्ति। शनैः पन्थाः शनैः कन्थाः इति स्मरतु...<b><span style="text-shadow:6px 6px 8px gray">[[सदस्यः:NehalDaveND|<span style="color:#FF9933">ॐNehalDaveND</span>]]•[[योजकसम्भाषणम्:NehalDaveND|<font color="blue">✉</font>]]•[[विशेषम्:योगदानम्/NehalDaveND|<font color="green">✎</font>]]</span></b> ०१:२१, ९ फरवरी २०२० (UTC)
"https://sa.wikipedia.org/wiki/सदस्यसम्भाषणम्:NehalDaveND" इत्यस्माद् प्रतिप्राप्तम्