"उत्तराखण्डराज्यम्" इत्यस्य संस्करणे भेदः

सम्पादनसारांशरहितः
===[[पुष्पकन्दरः]]===
उत्तराखण्डराज्यं पूर्वम् [[उत्तरप्रदेशराज्यम्|उत्तरप्रदेशस्य]] भागः आसीत् । इदानीं स्वतन्त्रं राज्यम् अस्ति । अत्यन्तं सुन्दरं राज्यमेतत् । फ्राङ्क् स्मित् इति साहसी एतं प्रदेशम् अन्विष्टवान् । अत्र बहुविधाः पुष्पवृक्षाः सन्ति । एषः प्रपातः १० कि.मी. दीर्घः २ कि.मी. विस्तृतः च अस्ति । विश्वे एव एतादृशः निम्नकन्दरः अन्यत्र नास्ति । सागरतीरतः ३३५२ पादोन्नते प्रदेशे एतदस्ति । भारतीयाः विदेशीयाः च तत्र गच्छन्ति । जून-मासतः सप्तम्बर-मासाभ्यान्तरं तत्र गन्तुं योग्यः कालः अस्ति । शीतकाले अतीव शैत्यं भवति ।
 
===[[नैनिताल]]===
'कुमाहिल्' प्रदेशे स्थितं सुन्दरं गिरिधाम एतत् उत्तराखण्डराज्यस्य किञ्चन नगरम् । [[नैनिताल]] इत्यस्य देवानां नेत्रे इत्यर्थः । नैनादेवी-तः नैनिताल इति नाम । अत्र ६० सरांसि सन्ति । अतः सरसः मण्डलम् इति अस्य नामान्तरमस्ति । [[नैनिताल]]-नगरस्य बृहत्तमः तडागः अस्ति 'भीमताल'-तडागः । अत्र नौकाविहारः, मीनग्रहणमित्यादिकम् अतीव आकर्षकाणि सन्ति । [[नैनिताल]]-नगरे मेघाच्छादितशिखराणि, सरोवराणि, तृणावृतप्रदेशाः, अरण्यानि, समतलभूमिः च अतीवसुन्दराणि सन्ति । अतः एतं प्रदेशं "A Jewel among the Tourist Places" इति यात्रिकाः सगौरवं कथयन्ति । शिवालिकपर्वतश्रेणिः, पर्वताः, प्रपाताः च मनोहराणि सन्ति । बहुकालपर्यन्तम् एतत् गिरिधाम अदृष्टमीव आसीत् । 'ब्यारन्' इति अधिकारी मार्गभ्रष्टः अत्र आगत्य अपूर्वप्रदेशं दृष्ट्वा सन्तुष्टः अभवत् । अनन्तरं यूरोपियन् जनाः अत्र आगतवन्तः । सा.श.[[१८४१]]तमे काले एषः लघुग्रामः आसीत् । इदानी विश्वे प्रसिद्धं नगरम् अस्ति । 'क्याटर्पिल्लर्' इति धूमशकटयानं नगरदर्शनार्थम् अस्ति । अनेन सञ्चारः बालानाम् अतीव हर्षदायकः अस्ति । [[नैनिताल]]नगरे किञ्चन पक्षिधाम अपि अस्ति । शतशः विविधाः पक्षिणः तत्र दर्शनीयाः सन्ति । [[नैनिताल]]-तः पश्चिमे रामनगरम् इत्यस्मिन् स्थले राष्ट्रियोद्यानं 'जिम् कार्बेट् न्याशनल् पार्क्' अस्ति । अत्र भल्लूकाः, व्याघ्राः, गजादयः प्राणिनः सन्ति । समीपे 'राणीखेत्' अल्मोडादीनि गिरिधामनि सन्ति ।
 
===पिण्डारी===

सम्पादन

"https://sa.wikipedia.org/wiki/विशेषः:MobileDiff/450394" इत्यस्माद् प्रतिप्राप्तम्