"सदस्यसम्भाषणम्:Brijesh 1810282/प्रयोगपृष्ठम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ९२:
===धार्मिकक्षेत्राणि===
हिन्दवानां पवित्रतमपुण्यक्षेत्रेषु कानिचन क्षेत्राणि उत्तराखण्डराज्ये राराजन्ते । तानि [[गङ्गोत्री]], [[यमुनोत्री]], [[केदारनाथः]], [[बदरीनाथः]](चारधाम) इति सुप्रसिद्धानि पवित्रक्षेत्राणि सन्ति । तथैव [[हरिद्वारम्|हरिद्वारं]], [[हृषीकेशः]] च पवित्रक्षेत्रे स्तः । [[सिक्ख]]धर्मस्य 'हेमकुण्डसाहेब्' पुण्यस्थानम् अस्मन्नेव राज्ये अस्ति । [[बौद्धधर्म:|बौद्धधर्मस्य]] बुद्धस्तूपसहितं मिण्ड्रोलिङ्गपवित्रस्थानम् अत्रैव अस्ति ।
 
===नैनिताल===
'कुमाहिल्' प्रदेशे स्थितं सुन्दरं गिरिधाम एतत् उत्तराखण्डराज्यस्य किञ्चन नगरम् । [[नैनिताल]] इत्यस्य देवानां नेत्रे इत्यर्थः । नैनादेवी-तः नैनिताल इति नाम । अत्र ६० सरांसि सन्ति । अतः सरसः मण्डलम् इति अस्य नामान्तरमस्ति । [[नैनिताल]]-नगरस्य बृहत्तमः तडागः अस्ति 'भीमताल'-तडागः । अत्र नौकाविहारः, मीनग्रहणमित्यादिकम् अतीव आकर्षकाणि सन्ति । [[नैनिताल]]-नगरे मेघाच्छादितशिखराणि, सरोवराणि, तृणावृतप्रदेशाः, अरण्यानि, समतलभूमिः च अतीवसुन्दराणि सन्ति । शिवालिकपर्वतश्रेणिः, पर्वताः, प्रपाताः च मनोहराणि सन्ति । बहुकालपर्यन्तम् एतत् गिरिधाम अदृष्टमीव आसीत् । 'ब्यारन्' इति अधिकारी मार्गभ्रष्टः अत्र आगत्य अपूर्वप्रदेशं दृष्ट्वा सन्तुष्टः अभवत् । अनन्तरं यूरोपियन् जनाः अत्र आगतवन्तः । सा.श.[[१८४१]]तमे काले एषः लघुग्रामः आसीत् । इदानी विश्वे प्रसिद्धं नगरम् अस्ति । 'क्याटर्पिल्लर्' इति धूमशकटयानं नगरदर्शनार्थम् अस्ति । अनेन सञ्चारः बालानाम् अतीव हर्षदायकः अस्ति । [[नैनिताल]]नगरे किञ्चन पक्षिधाम अपि अस्ति । शतशः विविधाः पक्षिणः तत्र दर्शनीयाः सन्ति । [[नैनिताल]]-तः पश्चिमे रामनगरम् इत्यस्मिन् स्थले राष्ट्रियोद्यानं 'जिम् कार्बेट् न्याशनल् पार्क्' अस्ति । अत्र भल्लूकाः, व्याघ्राः, गजादयः प्राणिनः सन्ति । समीपे 'राणीखेत्' अल्मोडादीनि गिरिधामनि सन्ति ।
 
सदस्य "Brijesh 1810282/प्रयोगपृष्ठम्" के सदस्य पृष्ठ पर वापस जाएँ