"उत्तराखण्डराज्यम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ९५:
 
उत्तराखण्डस्य जनसमुदायस्य स्वमूलस्थानानुगुणं ’गढवाली’ उत ’कुमावी’ इति व्यवहारः अस्ति । सम्पूर्णस्य समुदायस्य “पहाडी” इति व्यवहारः अस्ति । [[पञ्जाबराज्यम्|पञ्जाबराज्यात्]] आगताः जनाः [[हिमालयः|हिमालयस्य]] ’तेराय्ट्रदेशे’ वसन्ति । एतान् विहाय नेपालीजनाः, टिबेट्जनाः, गुज्जर्जनाश्च अत्रैव वसन्ति । राज्येषु विद्यमानेषु जनेषु ’रजपूताः’ अधिकाः भवन्ति ।
 
==प्राकृतिकवर्णनम्==
[[चित्रम्:Nanda devi.jpg|thumb|'''नन्दादेवीशिखरप्रदेशः''']]
उत्तराखण्डः अतीवप्रकृतिरमणीयः प्रदेशः अस्ति । प्रायः राज्यस्य उत्तरभागस्य प्रदेशः [[हिमालयः|हिमालयस्य]] अङ्गप्रदेशः अस्ति । अस्मिन् भागे उन्नतशिखराणि, हिमनद्यश्च विलसन्ति । [[हिमालयः|हिमालयस्य]] सानुप्रदेशः पूर्वम् आकुलारण्यप्रदेशः आसीत् इति । अरण्यविभागस्य यत्नेन अरण्यस्य वृद्धिः जायमाना अस्ति । [[हिमालयः|हिमालयस्य]] परिसरे विविधवन्यजन्तवः आश्रिताः । वन्यजन्तुषु [[व्याघ्रः|व्याघ्राः]], [[चित्रकः|चित्रकाः]], [[हिमचित्रकः|हिमचित्रकाः]] इत्यादयः अत्र आश्रिताः । अमूल्यानि सस्यानि, वनस्पतयश्च विलसन्त्यत्र। [[भारतम्|भारतीय]]पवित्रतमौ महानद्यौ [[गङ्गा]], [[यमुना]]च उत्तराखण्डस्य [[हिमालयः|हिमपर्वतमूले]] उद्भूते । [[हिमालयः|हिमालयपर्वतश्रेण्याः]] दक्षिणे भागे उत्तराखण्डः अस्ति । उन्नतप्रदेशाः हिमेन, शिलया च आवृताः सन्ति । [[नैनितालमण्डलम्|नैनितालमण्डलस्य]] रामनगरे [[जिम् कार्बेट् राष्ट्रियोद्यानम्]] अस्ति । चमोलीजनपदे [[पुष्पकन्दरः|पुष्पकन्दरराष्ट्रियोद्यानम्]], [[नन्दादेवी-उद्यानम्|नन्दादेवीराष्ट्रियोद्यानञ्च]] आस्ति । [[उत्तरकाशीमण्डलम्|उत्तरकाशीमण्डले]] गोविन्दपशुराष्ट्रियोद्यानम्, गङ्गोत्रीराष्ट्रियोद्यानञ्च अस्ति । [[हरिद्वारमण्डलम्|हरिद्वारमण्डले]] राजाजि राष्ट्रियोद्यानम् अस्ति ।
 
==प्रवासोद्यमविभागः==
उत्तराखण्डस्य धनादायस्य प्रमुखविभागः प्रवासोद्यमविभागः भवति । सर्वदा अत्र तीर्थयात्रिकाः, पर्वतारोहिसाधकाः, पर्यटकाश्च भवन्ति । [[नैनिताल्]], [[मस्सूरी]], [[अल्मोरा]] तथा [[राणिखेत्]] इत्यादीनि गिरिधामानि प्रसिद्धानि सन्ति । हेमकुण्डस्य "श्वेतपुष्पकन्दरः" तथा [[नन्दादेवी-उद्यानम्|नन्दादेवी राष्ट्रियोद्यानञ्च]] स्तः। विश्वपरम्परास्थानेषु [[नन्दादेवी-उद्यानम्|नन्दादेवी राष्ट्रियोद्यानमपि]] अन्यतमम् । अधिकानां पर्यटकानाम् आकर्षणस्थानम् एतत् ।
 
===धार्मिकक्षेत्राणि===
"https://sa.wikipedia.org/wiki/उत्तराखण्डराज्यम्" इत्यस्माद् प्रतिप्राप्तम्