"सदस्यसम्भाषणम्:Brijesh 1810282/प्रयोगपृष्ठम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ७९:
}}
 
==उत्तराखण्डः==
==[[उत्तराखण्डराज्यं]]==
 
उत्तराखण्डराज्यं [[हिन्दी]] उत्तराखण्ड राज्य,आङ्ग्ल: भारतीय राज्येषु अन्यतमं राज्यम् । एतस्य राज्यस्य २००० तमे वर्षे 'नवम्बर'-मासस्य नवमे दिनाङ्के रचना जाता । उत्तरप्रदेशराज्यस्य रचनार्थं [[हिमालयः]] प्रान्तस्य, उत्तराखण्डराज्यस्य च विभागः कृतः । राज्यस्यास्य उत्तरे टिबेट्, पूर्वे नेपाल, दक्षिणपश्चिमयोः उत्तरप्रदेशः अस्ति । अस्य राज्यस्य नाम २००७ तमे संवत्सरे 'जनवरी'-मासे उत्तराञ्चलात् उत्तराखण्डः इति परिवर्तनं कृतम् । राज्यस्य उच्चन्यायालयः नैनिताल् नगरे अस्ति । अस्मिन् राज्ये विभागद्वयं भवति गढवाल तथा कुमाऊं इति । अस्मिन् राज्ये १३ मण्डलानि सन्ति । गढवालविभागे चमोलीमण्डलं, देहरादूनमण्डलं, हरिद्वारमण्डलं, पौडीगढवालमण्डलं, रुद्रप्रयागमण्डलं, टिहरीगढवालमण्डलं, उत्तरकाशीमण्डलं चास्ति । कुमाऊंविभागे [[अल्मोडामण्डलं]], [[बागेश्वरमण्डलम्]], [[नैनितालमण्डलं]], [[पिथौरागढमण्डलं]], चम्पावतमण्डलम्, उधमसिंहनगरमण्डलं चास्ति । राज्यस्य मुख्यराजभाषा हिन्दी, उपराजभाषा संस्कृतभाषा चास्ति । “चिप्को” आन्दोलनस्य आरम्भः उत्तराखण्डराज्ये ऐदम्प्राथम्येन जातः । उत्तराखण्डस्य विस्तारः ५१,१२५ चतुरस्रकि.मी अस्ति । जनसंख्या ८५ लक्षमस्ति । देहरादून-हरिद्वार-नैनिताल-नगराणि अस्य राज्यस्य प्रमुखनगराणि सन्ति । राज्यस्य ९२.५७% भागः पर्वतीयः अस्ति । ६३% भागः अरण्यम्प्रदेशः अस्ति । उत्तराखण्डस्य मुख्याः पर्वताः नन्दादेवी (७८१६ मी.), बदरीनाथः(७१४० मी.), चौखम्बा(७१३८ मी.) तथा त्रिशूल्(७१२० मी.) सन्ति । प्राचीनहिन्दूग्रन्थेषु केदार-मानसखण्डयोः मिलित्वा उत्तराखण्ड इति उल्लेखः दृश्यते । उन्नतपर्वताः, दर्दराः, नद्यः, पवित्रक्षेत्राणि अस्मिन् राज्ये सन्ति । अतः “देवभूमिः” इति अस्य नामान्तरमस्ति । ’कोल्’ इति जनाः अस्य राज्यस्य पूर्विकाः आसन् । तस्मिन् काले ऋषीणां, साधूनाण्च इष्टतमं स्थानम् आसीदेतत् । व्यासमहर्षिः अस्मिन्नेव स्थले महाभारतकाव्यं रचितवान् इति प्रतीतिः अस्ति। अस्मात् स्थलादारभ्यॅव स्वर्गारोहणयात्रा आरब्धा पाण्डवॅः इति जनानां विश्वासः ।
सदस्य "Brijesh 1810282/प्रयोगपृष्ठम्" के सदस्य पृष्ठ पर वापस जाएँ